Srimad Bhagavatam | Canto 7 | Chapter 8 | Verses

0
3

Lord Nṛsiṁhadeva Slays the King of the Demons

Text 1

श्रीनारद उवाच
अथ दैत्यसुता: सर्वे श्रुत्वा तदनुवर्णितम् ।
जगृहुर्निरवद्यत्वान्नैव गुर्वनुशिक्षितम् ॥ १ ॥

Text 2

अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् ।
आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा ॥ २ ॥

Texts 3-4

कोपावेशचलद्गात्र: पुत्रं हन्तुं मनो दधे ।
क्षिप्‍त्वा परुषया वाचा प्रह्रादमतदर्हणम् ।
आहेक्षमाण: पापेन तिरश्चीनेन चक्षुषा ॥ ३ ॥
प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम् ।
सर्प: पदाहत इव श्वसन्प्रकृतिदारुण: ॥ ४ ॥

Text 5

श्रीहिरण्यकशिपुरुवाच
हे दुर्विनीत मन्दात्मन्कुलभेदकराधम ।
स्तब्धं मच्छासनोद्‌वृत्तं नेष्ये त्वाद्य यमक्षयम् ॥ ५ ॥

Text 6

क्रुद्धस्य यस्य कम्पन्ते त्रयो लोका: सहेश्वरा: ।
तस्य मेऽभीतवन्मूढ शासनं किं बलोऽत्यगा: ॥ ६ ॥

Text 7

श्रीप्रह्राद उवाच
न केवलं मे भवतश्च राजन्
स वै बलं बलिनां चापरेषाम् ।
परेऽवरेऽमी स्थिरजङ्गमा ये
ब्रह्मादयो येन वशं प्रणीता: ॥ ७ ॥

Text 8

स ईश्वर: काल उरुक्रमोऽसा-
वोज: सह: सत्त्वबलेन्द्रियात्मा ।
स एव विश्वं परम: स्वशक्तिभि:
सृजत्यवत्यत्ति गुणत्रयेश: ॥ ८ ॥

Text 9

जह्यासुरं भावमिमं त्वमात्मन:
समं मनो धत्स्व न सन्ति विद्विष: ।
ऋतेऽजितादात्मन उत्पथे स्थितात्
तद्धि ह्यनन्तस्य महत्समर्हणम् ॥ ९ ॥

Text 10

दस्यून्पुरा षण् न विजित्य लुम्पतो
मन्यन्त एके स्वजिता दिशो दश ।
जितात्मनो ज्ञस्य समस्य देहिनां
साधो: स्वमोहप्रभवा: कुत: परे ॥ १० ॥

Text 11

श्रीहिरण्यकशिपुरुवाच
व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्थसे ।
मुमूर्षूणां हि मन्दात्मन् ननु स्युर्विक्लवा गिर: ॥ ११ ॥

Text 12

यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वर: ।
क्व‍ासौ यदि स सर्वत्र कस्मात् स्तम्भे न द‍ृश्यते ॥ १२ ॥

Text 13

सोऽहं विकत्थमानस्य शिर: कायाद्धरामि ते ।
गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम् ॥ १३ ॥

Text 14

एवं दुरुक्तैर्मुहुरर्दयन् रुषा
सुतं महाभागवतं महासुर: ।
खड्‌गं प्रगृह्योत्पतितो वरासनात्
स्तम्भं तताडातिबल: स्वमुष्टिना ॥ १४ ॥

Text 15

तदैव तस्मिन्निनदोऽतिभीषणो
बभूव येनाण्डकटाहमस्फुटत् ।
यं वै स्वधिष्ण्योपगतं त्वजादय:
श्रुत्वा स्वधामात्ययमङ्ग मेनिरे ॥ १५ ॥

Text 16

स विक्रमन् पुत्रवधेप्सुरोजसा
निशम्य निर्ह्रादमपूर्वमद्भ‍ुतम् ।
अन्त:सभायां न ददर्श तत्पदं
वितत्रसुर्येन सुरारियूथपा: ॥ १६ ॥

Text 17

सत्यं विधातुं निजभृत्यभाषितं
व्याप्तिं च भूतेष्वखिलेषु चात्मन: ।
अद‍ृश्यतात्यद्भ‍ुतरूपमुद्वहन्
स्तम्भे सभायां न मृगं न मानुषम् ॥ १७ ॥

Text 18

स सत्त्वमेनं परितो विपश्यन्
स्तम्भस्य मध्यादनुनिर्जिहानम् ।
नायं मृगो नापि नरो विचित्र-
महो किमेतन्नृमृगेन्द्ररूपम् ॥ १८ ॥

Texts 19-22

मीमांसमानस्य समुत्थितोऽग्रतो ।
नृसिंहरूपस्तदलं भयानकम् ॥ १९ ॥
प्रतप्तचामीकरचण्डलोचनं
स्फुरत्सटाकेशरजृम्भिताननम् ।
करालदंष्ट्रं करवालचञ्चल
क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् ॥ २० ॥
स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भ‍ुत-
व्यात्तास्यनासं हनुभेदभीषणम् ।
दिविस्पृशत्कायमदीर्घपीवर-
ग्रीवोरुवक्ष:स्थलमल्पमध्यमम् ॥ २१ ॥
चन्द्रांशुगौरैश्छुरितं तनूरुहै-
र्विष्वग्भुजानीकशतं नखायुधम् ।
दुरासदं सर्वनिजेतरायुध-
प्रवेकविद्रावितदैत्यदानवम् ॥ २२ ॥

Text 23

प्रायेण मेऽयं हरिणोरुमायिना
वध: स्मृतोऽनेन समुद्यतेन किम् ।
एवं ब्रुवंस्त्वभ्यपतद् गदायुधो
नदन् नृसिंहं प्रति दैत्यकुञ्जर: ॥ २३ ॥

Text 24

अलक्षितोऽग्नौ पतित: पतङ्गमो
यथा नृसिंहौजसि सोऽसुरस्तदा ।
न तद्विचित्रं खलु सत्त्वधामनि
स्वतेजसा यो नु पुरापिबत् तम: ॥ २४ ॥

Text 25

ततोऽभिपद्याभ्यहनन्महासुरो
रुषा नृसिंहं गदयोरुवेगया ।
तं विक्रमन्तं सगदं गदाधरो
महोरगं तार्क्ष्यसुतो यथाग्रहीत् ॥ २५ ॥

Text 26

स तस्य हस्तोत्कलितस्तदासुरो
विक्रीडतो यद्वदहिर्गरुत्मत: ।
असाध्वमन्यन्त हृतौकसोऽमरा
घनच्छदा भारत सर्वधिष्ण्यपा: ॥ २६ ॥

Text 27

तं मन्यमानो निजवीर्यशङ्कितं
यद्धस्तमुक्तो नृहरिं महासुर: ।
पुनस्तमासज्जत खड्‌गचर्मणी
प्रगृह्य वेगेन गतश्रमो मृधे ॥ २७ ॥

Text 28

तं श्येनवेगं शतचन्द्रवर्त्मभि
श्चरन्तमच्छिद्रमुपर्यधो हरि: ।
कृत्वाट्टहासं खरमुत्स्वनोल्बणं
निमीलिताक्षं जगृहे महाजव: ॥ २८ ॥

Text 29

विष्वक्स्फुरन्तं ग्रहणातुरं हरि-
र्व्यालो यथाखुं कुलिशाक्षतत्वचम् ।
द्वार्यूरुमापत्य ददार लीलया
नखैर्यथाहिं गरुडो महाविषम् ॥ २९ ॥

Text 30

संरम्भदुष्प्रेक्ष्यकराललोचनो
व्यात्ताननान्तं विलिहन्स्वजिह्वया ।
असृग्लवाक्तारुणकेशराननो
यथान्त्रमाली द्विपहत्यया हरि: ॥ ३० ॥

Text 31

नखाङ्कुरोत्पाटितहृत्सरोरुहं
विसृज्य तस्यानुचरानुदायुधान् ।
अहन् समस्तान्नखशस्‍त्रपाणिभि-
र्दोर्दण्डयूथोऽनुपथान् सहस्रश: ॥ ३१ ॥

Text 32

सटावधूता जलदा: परापतन्
ग्रहाश्च तद् द‍ृष्टिविमुष्टरोचिष: ।
अम्भोधय: श्वासहता विचुक्षुभु-
र्निर्ह्रादभीता दिगिभा विचुक्रुशु: ॥ ३२ ॥

Text 33

द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला
प्रोत्सर्पत क्ष्मा च पदाभिपीडिता ।
शैला: समुत्पेतुरमुष्य रंहसा
तत्तेजसा खं ककुभो न रेजिरे ॥ ३३ ॥

Text 34

तत: सभायामुपविष्टमुत्तमे
नृपासने सम्भृततेजसं विभुम् ।
अलक्षितद्वैरथमत्यमर्षणं
प्रचण्डवक्त्रं न बभाज कश्चन ॥ ३४ ॥

Text 35

निशाम्य लोकत्रयमस्तकज्वरं
तमादिदैत्यं हरिणा हतं मृधे ।
प्रहर्षवेगोत्कलितानना मुहु:
प्रसूनवर्षैर्ववृषु: सुरस्त्रिय: ॥ ३५ ॥

Text 36

तदा विमानावलिभिर्नभस्तलं
दिद‍ृक्षतां सङ्कुलमास नाकिनाम् ।
सुरानका दुन्दुभयोऽथ जघ्निरे
गन्धर्वमुख्या ननृतुर्जगु: स्त्रिय: ॥ ३६ ॥

Texts 37-39

तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादय: ।
ऋषय: पितर: सिद्धा विद्याधरमहोरगा: ॥ ३७ ॥
मनव: प्रजानां पतयो गन्धर्वाप्सरचारणा: ।
यक्षा: किम्पुरुषास्तात वेताला: सहकिन्नरा: ॥ ३८ ॥
ते विष्णुपार्षदा: सर्वे सुनन्दकुमुदादय: ।
मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् ।
ईडिरे नरशार्दुलं नातिदूरचरा: पृथक् ॥ ३९ ॥

Text 40

श्रीब्रह्मोवाच
नतोऽस्म्यनन्ताय दुरन्तशक्तये
विचित्रवीर्याय पवित्रकर्मणे ।
विश्वस्य सर्गस्थितिसंयमान् गुणै:
स्वलीलया सन्दधतेऽव्ययात्मने ॥ ४० ॥

Text 41

श्रीरुद्र उवाच
कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पक: ।
तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ ४१ ॥

Text 42

श्रीइन्द्र उवाच
प्रत्यानीता: परम भवता त्रायता न: स्वभागा
दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि ।
कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते
मुक्तिस्तेषां न हि बहुमता नारसिंहापरै: किम् ॥ ४२ ॥

Text 43

श्रीऋषय ऊचु:
त्वं नस्तप: परममात्थ यदात्मतेजो
येनेदमादिपुरुषात्मगतं ससर्क्थ ।
तद्विप्रलुप्तममुनाद्य शरण्यपाल
रक्षागृहीतवपुषा पुनरन्वमंस्था: ॥ ४३ ॥

Text 44

श्रीपितर ऊचु:
श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजै-
र्दत्तानि तीर्थसमयेऽप्यपिबत्तिलाम्बु ।
तस्योदरान्नखविदीर्णवपाद्य आर्च्छत्
तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे ॥ ४४ ॥

Text 45

श्रीसिद्धा ऊचु:
यो नो गतिं योगसिद्धामसाधु-
रहार्षीद् योगतपोबलेन ।
नाना दर्पं तं नखैर्विददार
तस्मै तुभ्यं प्रणता: स्मो नृसिंह ॥ ४५ ॥

Text 46

श्रीविद्याधरा ऊचु:
विद्यां पृथग्धारणयानुराद्धां
न्यषेधदज्ञो बलवीर्यद‍ृप्त: ।
स येन सङ्ख्ये पशुवद्धतस्तं
मायानृसिंहं प्रणता: स्म नित्यम् ॥ ४६ ॥

Text 47

श्रीनागा ऊचु:
येन पापेन रत्नानि स्त्रीरत्नानि हृतानि न: ।
तद्वक्ष:पाटनेनासां दत्तानन्द नमोऽस्तु ते ॥ ४७ ॥

Text 48

श्रीमनव ऊचु:
मनवो वयं तव निदेशकारिणो
दितिजेन देव परिभूतसेतव: ।
भवता खल: स उपसंहृत: प्रभो
करवाम ते किमनुशाधि किङ्करान् ॥ ४८ ॥

Text 49

श्रीप्रजापतय ऊचु:
प्रजेशा वयं ते परेशाभिसृष्टा
न येन प्रजा वै सृजामो निषिद्धा: ।
स एष त्वया भिन्नवक्षा नु शेते
जगन्मङ्गलं सत्त्वमूर्तेऽवतार: ॥ ४९ ॥

Text 50

श्रीगन्धर्वा ऊचु:
वयं विभो ते नटनाट्यगायका
येनात्मसाद्वीर्यबलौजसा कृता: ।
स एष नीतो भवता दशामिमां
किमुत्पथस्थ: कुशलाय कल्पते ॥ ५० ॥

Text 51

श्रीचारणा ऊचु:
हरे तवाङ्‌घ्रिपङ्कजं भवापवर्गमाश्रिता: ।
यदेष साधुहृच्छयस्त्वयासुर: समापित: ॥ ५१ ॥

Text 52

श्रीयक्षा ऊचु:
वयमनुचरमुख्या: कर्मभिस्ते मनोज्ञै-
स्त इह दितिसुतेन प्रापिता वाहकत्वम् ।
स तु जनपरितापं तत्कृतं जानता ते
नरहर उपनीत: पञ्चतां पञ्चविंश ॥ ५२ ॥

Text 53

श्रीकिम्पुरुषा ऊचु:
वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वर: ।
अयं कुपुरुषो नष्टो धिक्कृत: साधुभिर्यदा ॥ ५३ ॥

Text 54

श्रीवैतालिका ऊचु:
सभासु सत्रेषु तवामलं यशो
गीत्वा सपर्यां महतीं लभामहे ।
यस्तामनैषीद् वशमेष दुर्जनो
द्विष्टय‍ा हतस्ते भगवन्यथामय: ॥ ५४ ॥

Text 55

श्रीकिन्नरा ऊचु:
वयमीश किन्नरगणास्तवानुगा
दितिजेन विष्टिममुनानुकारिता: ।
भवता हरे स वृजिनोऽवसादितो
नरसिंह नाथ विभवाय नो भव ॥ ५५ ॥

Text 56

श्रीविष्णुपार्षदा ऊचु:
अद्यैतद्धरिनररूपमद्भ‍ुतं ते
द‍ृष्टं न: शरणद सर्वलोकशर्म ।
सोऽयं ते विधिकर ईश विप्रशप्त-
स्तस्येदं निधनमनुग्रहाय विद्म: ॥ ५६ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here