Hiraṇyakaśipu Terrorizes the Universe
Text 1
श्रीनारद उवाच
एवं वृत: शतधृतिर्हिरण्यकशिपोरथ ।
प्रादात्तत्तपसा प्रीतो वरांस्तस्य सुदुर्लभान् ॥ १ ॥
Text 2
श्रीब्रह्मोवाच
तातेमे दुर्लभा: पुंसां यान् वृणीषे वरान् मम ।
तथापि वितराम्यङ्ग वरान् यद्यपि दुर्लभान् ॥ २ ॥
Text 3
ततो जगाम भगवानमोघानुग्रहो विभु: ।
पूजितोऽसुरवर्येण स्तूयमान: प्रजेश्वरै: ॥ ३ ॥
Text 4
एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपु: ।
भगवत्यकरोद् द्वेषं भ्रातुर्वधमनुस्मरन् ॥ ४ ॥
Texts 5-7
स विजित्य दिश: सर्वा लोकांश्च त्रीन् महासुर: ।
देवासुरमनुष्येन्द्रगन्धर्वगरुडोरगान् ॥ ५ ॥
सिद्धचारणविद्याध्रानृषीन् पितृपतीन्मनून् ।
यक्षरक्ष:पिशाचेशान् प्रेतभूतपतीनपि ॥ ६ ॥
सर्वसत्त्वपतीञ्जित्वा वशमानीय विश्वजित् ।
जहार लोकपालानां स्थानानि सह तेजसा ॥ ७ ॥
Text 8
देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिपिष्टपम् ।
महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा ।
त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत् ॥ ८ ॥
Texts 9-12
यत्र विद्रुमसोपाना महामारकता भुव: ।
यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्क्तय: ॥ ९ ॥
यत्र चित्रवितानानि पद्मरागासनानि च ।
पय:फेननिभा: शय्या मुक्तादामपरिच्छदा: ॥ १० ॥
कूजद्भिर्नूपुरैर्देव्य: शब्दयन्त्य इतस्तत: ।
रत्नस्थलीषु पश्यन्ति सुदती: सुन्दरं मुखम् ॥ ११ ॥
तस्मिन्महेन्द्रभवने महाबलो
महामना निर्जितलोक एकराट् ।
रेमेऽभिवन्द्याङ्घ्रियुग: सुरादिभि:
प्रतापितैरूर्जितचण्डशासन: ॥ १२ ॥
Text 13
तमङ्ग मत्तं मधुनोरुगन्धिना
विवृत्तताम्राक्षमशेषधिष्ण्यपा: ।
उपासतोपायनपाणिभिर्विना
त्रिभिस्तपोयोगबलौजसां पदम् ॥ १३ ॥
Text 14
जगुर्महेन्द्रासनमोजसा स्थितं
विश्वावसुस्तुम्बुरुरस्मदादय: ।
गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहु-
र्विद्याधराश्चाप्सरसश्च पाण्डव ॥ १४ ॥
Text 15
स एव वर्णाश्रमिभि: क्रतुभिर्भूरिदक्षिणै: ।
इज्यमानो हविर्भागानग्रहीत् स्वेन तेजसा ॥ १५ ॥
Text 16
अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही ।
तथा कामदुघा गावो नानाश्चर्यपदं नभ: ॥ १६ ॥
Text 17
रत्नाकराश्च रत्नौघांस्तत्पत्न्यश्चोहुरूर्मिभि: ।
क्षारसीधुघृतक्षौद्रदधिक्षीरामृतोदका: ॥ १७ ॥
Text 18
शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमा: ।
दधार लोकपालानामेक एव पृथग्गुणान् ॥ १८ ॥
Text 19
स इत्थं निर्जितककुबेकराड् विषयान् प्रियान् ।
यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रिय: ॥ १९ ॥
Text 20
एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिन: ।
कालो महान् व्यतीयाय ब्रह्मशापमुपेयुष: ॥ २० ॥
Text 21
तस्योग्रदण्डसंविग्ना: सर्वे लोका: सपालका: ।
अन्यत्रालब्धशरणा: शरणं ययुरच्युतम् ॥ २१ ॥
Texts 22-23
तस्यै नमोऽस्तु काष्ठायै यत्रात्मा हरिरीश्वर: ।
यद्गत्वा न निवर्तन्ते शान्ता: संन्यासिनोऽमला: ॥ २२ ॥
इति ते संयतात्मान: समाहितधियोऽमला: ।
उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजना: ॥ २३ ॥
Text 24
तेषामाविरभूद्वाणी अरूपा मेघनि:स्वना ।
सन्नादयन्ती ककुभ: साधूनामभयङ्करी ॥ २४ ॥
Texts 25-26
मा भैष्ट विबुधश्रेष्ठा: सर्वेषां भद्रमस्तु व: ।
मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ २५ ॥
ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् ।
तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत ॥ २६ ॥
Text 27
यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु ।
धर्मे मयि च विद्वेष: स वा आशु विनश्यति ॥ २७ ॥
Text 28
निर्वैराय प्रशान्ताय स्वसुताय महात्मने ।
प्रह्रादाय यदा द्रुह्येद्धनिष्येऽपि वरोर्जितम् ॥ २८ ॥
Text 29
श्रीनारद उवाच
इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकस: ।
न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ २९ ॥
Text 30
तस्य दैत्यपते: पुत्राश्चत्वार: परमाद्भुता: ।
प्रह्रादोऽभून्महांस्तेषां गुणैर्महदुपासक: ॥ ३० ॥
Texts 31-32
ब्रह्मण्य: शीलसम्पन्न: सत्यसन्धो जितेन्द्रिय: ।
आत्मवत्सर्वभूतानामेकप्रियसुहृत्तम: ।
दासवत्सन्नतार्याङ्घ्रि: पितृवद्दीनवत्सल: ॥ ३१ ॥
भ्रातृवत्सदृशे स्निग्धो गुरुष्वीश्वरभावन: ।
विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जित: ॥ ३२ ॥
Text 33
नोद्विग्नचित्तो व्यसनेषु नि:स्पृह:
श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् ।
दान्तेन्द्रियप्राणशरीरधी: सदा
प्रशान्तकामो रहितासुरोऽसुर: ॥ ३३ ॥
Text 34
यस्मिन्महद्गुणा राजन्गृह्यन्ते कविभिर्मुहु: ।
न तेऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ ३४ ॥
Text 35
यं साधुगाथासदसि रिपवोऽपि सुरा नृप ।
प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशा: ॥ ३५ ॥
Text 36
गुणैरलमसङ्ख्येयैर्माहात्म्यं तस्य सूच्यते ।
वासुदेवे भगवति यस्य नैसर्गिकी रति: ॥ ३६ ॥
Text 37
न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया ।
कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥ ३७ ॥
Text 38
आसीन: पर्यटन्नश्नन् शयान: प्रपिबन् ब्रुवन् ।
नानुसन्धत्त एतानि गोविन्दपरिरम्भित: ॥ ३८ ॥
Text 39
क्वचिद्रुदति वैकुण्ठचिन्ताशबलचेतन: ।
क्वचिद्धसति तच्चिन्ताह्लाद उद्गायति क्वचित् ॥ ३९ ॥
Text 40
नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित् ।
क्वचित्तद्भावनायुक्तस्तन्मयोऽनुचकार ह ॥ ४० ॥
Text 41
क्वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृत: ।
अस्पन्दप्रणयानन्दसलिलामीलितेक्षण: ॥ ४१ ॥
Text 42
स उत्तमश्लोकपदारविन्दयो-
र्निषेवयाकिञ्चनसङ्गलब्धया ।
तन्वन् परां निर्वृतिमात्मनो मुहु-
र्दु:सङ्गदीनस्य मन: शमं व्यधात् ॥ ४२ ॥
Text 43
तस्मिन्महाभागवते महाभागे महात्मनि ।
हिरण्यकशिपू राजन्नकरोदघमात्मजे ॥ ४३ ॥
Text 44
श्रीयुधिष्ठिर उवाच
देवर्ष एतदिच्छामो वेदितुं तव सुव्रत ।
यदात्मजाय शुद्धाय पितादात् साधवे ह्यघम् ॥ ४४ ॥
Text 45
पुत्रान् विप्रतिकूलान् स्वान् पितर: पुत्रवत्सला: ।
उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥ ४५ ॥
Text 46
किमुतानुवशान् साधूंस्तादृशान् गुरुदेवतान् ।
एतत्कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो ।
पितु: पुत्राय यद्द्वेषो मरणाय प्रयोजित: ॥ ४६ ॥



