Srimad Bhagavatam | Canto 6 | Chapter 8 | Verses

0
3

The Nārāyaṇa-kavaca Shield

Texts 1-2

श्रीराजोवाच
यया गुप्त: सहस्राक्ष: सवाहान् रिपुसैनिकान् ।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ १ ॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम् ।
यथाततायिन: शत्रून्येन गुप्तोऽजयन्मृधे ॥ २ ॥

Text 3

श्रीबादरायणिरुवाच
वृत: पुरोहितस्त्वाष्ट्रो महेन्द्रायानुपृच्छते ।
नारायणाख्यं वर्माह तदिहैकमना: श‍ृणु ॥ ३ ॥

Texts 4-6

श्रीविश्‍वरूप उवाच
धौताङ्‌घ्रिपाणिराचम्य सपवित्र उदङ्‍मुख: ।
कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यत: शुचि: ॥ ४ ॥
नारायणपरं वर्म सन्नह्येद् भय आगते ।
पादयोर्जानुनोरूर्वोरुदरे हृद्यथोरसि ॥ ५ ॥
मुखे शिरस्यानुपूर्व्यादोंङ्कारादीनि विन्यसेत् ।
ॐ नमो नारायणायेति विपर्ययमथापि वा ॥ ६ ॥

Text 7

करन्यासं तत: कुर्याद् द्वादशाक्षरविद्यया ।
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ ७ ॥

Texts 8-10

न्यसेद्‌धृदय ओंङ्कारं विकारमनु मूर्धनि ।
षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् ॥ ८ ॥
वेकारं नेत्रयोर्युञ्‍ज्यान्नकारं सर्वसन्धिषु ।
मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुध: ॥ ९ ॥
सविसर्गं फडन्तं तत्सर्वदिक्षु विनिर्दिशेत् ।
ॐ विष्णवे नम इति ॥ १० ॥

Text 11

आत्मानं परमं ध्यायेद् ध्येयं षट्‍‌शक्तिभिर्युतम् ।
विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ ११ ॥

Text 12

ॐ हरिर्विदध्यान्मम सर्वरक्षां
न्यस्ताङ्‌घ्रिपद्म: पतगेन्द्रपृष्ठे ।
दरारिचर्मासिगदेषुचाप-
पाशान् दधानोऽष्टगुणोऽष्टबाहु: ॥ १२ ॥

Text 13

जलेषु मां रक्षतु मत्स्यमूर्ति-
र्यादोगणेभ्यो वरुणस्य पाशात् ।
स्थलेषु मायावटुवामनोऽव्यात्
त्रिविक्रम: खेऽवतु विश्वरूप: ॥ १३ ॥

Text 14

दुर्गेष्वटव्याजिमुखादिषु प्रभु:
पायान्नृसिंहोऽसुरयूथपारि: ।
विमुञ्चतो यस्य महाट्टहासं
दिशो विनेदुर्न्यपतंश्च गर्भा: ॥ १४ ॥

Text 15

रक्षत्वसौ माध्वनि यज्ञकल्प:
स्वदंष्ट्रयोन्नीतधरो वराह: ।
रामोऽद्रिकूटेष्वथ विप्रवासे
सलक्ष्मणोऽव्याद् भरताग्रजोऽस्मान् ॥ १५ ॥

Text 16

मामुग्रधर्मादखिलात्प्रमादा-
न्नारायण: पातु नरश्च हासात् ।
दत्तस्त्वयोगादथ योगनाथ:
पायाद्गुणेश: कपिल: कर्मबन्धात् ॥ १६ ॥

Text 17

सनत्कुमारोऽवतु कामदेवा-
द्धयशीर्षा मां पथि देवहेलनात् ।
देवर्षिवर्य: पुरुषार्चनान्तरात्
कूर्मो हरिर्मां निरयादशेषात् ॥ १७ ॥

Text 18

धन्वन्तरिर्भगवान् पात्वपथ्याद्
द्वन्द्वाद् भयाद‍ृषभो निर्जितात्मा ।
यज्ञश्च लोकादवताज्जनान्ताद्
बलो गणात् क्रोधवशादहीन्द्र: ॥ १८ ॥

Text 19

द्वैपायनो भगवानप्रबोधाद्
बुद्धस्तु पाषण्डगणप्रमादात् ।
कल्कि: कले: कालमलात् प्रपातु
धर्मावनायोरुकृतावतार: ॥ १९ ॥

Text 20

मां केशवो गदया प्रातरव्याद्
गोविन्द आसङ्गवमात्तवेणु: ।
नारायण: प्राह्ण उदात्तशक्ति-
र्मध्यन्दिने विष्णुररीन्द्रपाणि: ॥ २० ॥

Text 21

देवोऽपराह्णे मधुहोग्रधन्वा
सायं त्रिधामावतु माधवो माम् ।
दोषे हृषीकेश उतार्धरात्रे
निशीथ एकोऽवतु पद्मनाभ: ॥ २१ ॥

Text 22

श्रीवत्सधामापररात्र ईश:
प्रत्यूष ईशोऽसिधरो जनार्दन: ।
दामोदरोऽव्यादनुसन्ध्यं प्रभाते
विश्वेश्वरो भगवान् कालमूर्ति: ॥ २२ ॥

Text 23

चक्रं युगान्तानलतिग्मनेमि
भ्रमत् समन्ताद् भगवत्प्रयुक्तम् ।
दन्दग्धि दन्दग्ध्यरिसैन्यमाशु
कक्षं यथा वातसखो हुताश: ॥ २३ ॥

Text 24

गदेऽशनिस्पर्शनविस्फुलिङ्गे
निष्पिण्ढि निष्पिण्ढ्यजितप्रियासि ।
कुष्माण्डवैनायकयक्षरक्षो-
भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ २४ ॥

Text 25

त्वं यातुधानप्रमथप्रेतमातृ-
पिशाचविप्रग्रहघोरद‍ृष्टीन् ।
दरेन्द्र विद्रावय कृष्णपूरितो
भीमस्वनोऽरेर्हृदयानि कम्पयन् ॥ २५ ॥

Text 26

त्वं तिग्मधारासिवरारिसैन्य-
मीशप्रयुक्तो मम छिन्धि छिन्धि ।
चक्षूंषि चर्मञ्छतचन्द्र छादय
द्विषामघोनां हर पापचक्षुषाम् ॥ २६ ॥

Texts 27-28

यन्नो भयं ग्रहेभ्योऽभूत् केतुभ्यो नृभ्य एव च ।
सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्योंहोभ्य एव च ॥ २७ ॥
सर्वाण्येतानि भगवन्नामरूपानुकीर्तनात् ।
प्रयान्तु सङ्‌क्षयं सद्यो ये न: श्रेय:प्रतीपका: ॥ २८ ॥

Text 29

गरुडो भगवान् स्तोत्रस्तोभश्छन्दोमय: प्रभु: ।
रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेन: स्वनामभि: ॥ २९ ॥

Text 30

सर्वापद्‌भ्यो हरेर्नामरूपयानायुधानि न: ।
बुद्धीन्द्रियमन:प्राणान् पान्तु पार्षदभूषणा: ॥ ३० ॥

Text 31

यथा हि भगवानेव वस्तुत: सदसच्च यत् ।
सत्येनानेन न: सर्वे यान्तु नाशमुपद्रवा: ॥ ३१ ॥

Texts 32-33

यथैकात्म्यानुभावानां विकल्परहित: स्वयम् ।
भूषणायुधलिङ्गाख्या धत्ते शक्ती: स्वमायया ॥ ३२ ॥
तेनैव सत्यमानेन सर्वज्ञो भगवान् हरि: ।
पातु सर्वै: स्वरूपैर्न: सदा सर्वत्र सर्वग: ॥ ३३ ॥

Text 34

विदिक्षु दिक्षूर्ध्वमध: समन्ता-
दन्तर्बहिर्भगवान्नारसिंह: ।
प्रहापयँल्लोकभयं स्वनेन
स्वतेजसा ग्रस्तसमस्ततेजा: ॥ ३४ ॥

Text 35

मघवन्निदमाख्यातं वर्म नारायणात्मकम् ।
विजेष्यसेऽञ्जसा येन दंशितोऽसुरयूथपान् ॥ ३५ ॥

Text 36

एतद् धारयमाणस्तु यं यं पश्यति चक्षुषा ।
पदा वा संस्पृशेत् सद्य: साध्वसात् स विमुच्यते ॥ ३६ ॥

Text 37

न कुतश्चिद्भ‍यं तस्य विद्यां धारयतो भवेत् ।
राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ ३७ ॥

Text 38

इमां विद्यां पुरा कश्चित्कौशिको धारयन् द्विज: ।
योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ ३८ ॥

Text 39

तस्योपरि विमानेन गन्धर्वपतिरेकदा ।
ययौ चित्ररथ: स्त्रीभिर्वृतो यत्र द्विजक्षय: ॥ ३९ ॥

Text 40

गगनान्न्यपतत् सद्य: सविमानो ह्यवाक् शिरा: ।
स वालिखिल्यवचनादस्थीन्यादाय विस्मित: ।
प्रास्य प्राचीसरस्वत्यां स्‍नात्वा धाम स्वमन्वगात् ॥ ४० ॥

Text 41

श्रीशुक उवाच
य इदं श‍ृणुयात्काले यो धारयति चाद‍ृत: ।
तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ ४१ ॥

Text 42

एतां विद्यामधिगतो विश्वरूपाच्छतक्रतु: ।
त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधेऽसुरान् ॥ ४२ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here