Srimad Bhagavatam | Canto 6 | Chapter 1 | Verses

0
5

The History of the Life of Ajāmila

Text 1

श्रीपरीक्षिदुवाच
निवृत्तिमार्ग: कथित आदौ भगवता यथा ।
क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृति: ॥ १ ॥

Text 2

प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने ।
योऽसावलीनप्रकृतेर्गुणसर्ग: पुन: पुन: ॥ २ ॥

Text 3

अधर्मलक्षणा नाना नरकाश्चानुवर्णिता: ।
मन्वन्तरश्च व्याख्यात आद्य: स्वायम्भुवो यत: ॥ ३ ॥

Texts 4-5

प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च ।
द्वीपवर्षसमुद्राद्रिनद्युद्यानवनस्पतीन् ॥ ४ ॥
धरामण्डलसंस्थानं भागलक्षणमानत: ।
ज्योतिषां विवराणां च यथेदमसृजद्विभु: ॥ ५ ॥

Text 6

अधुनेह महाभाग यथैव नरकान्नर: ।
नानोग्रयातनान्नेयात्तन्मे व्याख्यातुमर्हसि ॥ ६ ॥

Text 7

श्रीशुक उवाच
न चेदिहैवापचितिं यथांहस:
कृतस्य कुर्यान्मनउक्तपाणिभि: ।
ध्रुवं स वै प्रेत्य नरकानुपैति
ये कीर्तिता मे भवतस्तिग्मयातना: ॥ ७ ॥

Text 8

तस्मात्पुरैवाश्विह पापनिष्कृतौ
यतेत मृत्योरविपद्यतात्मना ।
दोषस्य द‍ृष्ट्वा गुरुलाघवं यथा
भिषक् चिकित्सेत रुजां निदानवित् ॥ ८ ॥

Text 9

श्रीराजोवाच
द‍ृष्टश्रुताभ्यां यत्पापं जानन्नप्यात्मनोऽहितम् ।
करोति भूयो विवश: प्रायश्चित्तमथो कथम् ॥ ९ ॥

Text 10

क्‍वचिन्निवर्ततेऽभद्रात्‍क्‍वचिच्चरति तत्पुन: ।
प्रायश्चित्तमथोऽपार्थं मन्ये कुञ्जरशौचवत् ॥ १० ॥

Text 11

श्रीबादरायणिरुवाच
कर्मणा कर्मनिर्हारो न ह्यात्यन्तिक इष्यते ।
अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शनम् ॥ ११ ॥

Text 12

नाश्नत: पथ्यमेवान्नं व्याधयोऽभिभवन्ति हि ।
एवं नियमकृद्राजन् शनै: क्षेमाय कल्पते ॥ १२ ॥

Texts 13-14

तपसा ब्रह्मचर्येण शमेन च दमेन च ।
त्यागेन सत्यशौचाभ्यां यमेन नियमेन वा ॥ १३ ॥
देहवाग्बुद्धिजं धीरा धर्मज्ञा: श्रद्धयान्विता: ।
क्षिपन्त्यघं महदपि वेणुगुल्ममिवानल: ॥ १४ ॥

Text 15

केचित्केवलया भक्त्या वासुदेवपरायणा: ।
अघं धुन्वन्ति कार्त्स्‍न्येन नीहारमिव भास्कर: ॥ १५ ॥

Text 16

न तथा ह्यघवान् राजन्पूयेत तपआदिभि: ।
यथा कृष्णार्पितप्राणस्तत्पुरुषनिषेवया ॥ १६ ॥

Text 17

सध्रीचीनो ह्ययं लोके पन्था: क्षेमोऽकुतोभय: ।
सुशीला: साधवो यत्र नारायणपरायणा: ॥ १७ ॥

Text 18

प्रायश्चित्तानि चीर्णानि नारायणपराङ्‍मुखम् ।
न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगा: ॥ १८ ॥

Text 19

सकृन्मन: कृष्णपदारविन्दयो-
र्निवेशितं तद्गुणरागि यैरिह ।
न ते यमं पाशभृतश्च तद्भ‍टान्
स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृता: ॥ १९ ॥

Text 20

अत्र चोदाहरन्तीममितिहासं पुरातनम् ।
दूतानां विष्णुयमयो: संवादस्तं निबोध मे ॥ २० ॥

Text 21

कान्यकुब्जे द्विज: कश्चिद्दासीपतिरजामिल: ।
नाम्ना नष्टसदाचारो दास्या: संसर्गदूषित: ॥ २१ ॥

Text 22

बन्द्यक्षै: कैतवैश्चौर्यैर्गर्हितां वृत्तिमास्थित: ।
बिभ्रत्कुटुम्बमशुचिर्यातयामास देहिन: ॥ २२ ॥

Text 23

एवं निवसतस्तस्य लालयानस्य तत्सुतान् ।
कालोऽत्यगान्महान् राजन्नष्टाशीत्यायुष: समा: ॥ २३ ॥

Text 24

तस्य प्रवयस: पुत्रा दश तेषां तु योऽवम: ।
बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥ २४ ॥

Text 25

स बद्धहृदयस्तस्मिन्नर्भके कलभाषिणि ।
निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥ २५ ॥

Text 26

भुञ्जान: प्रपिबन् खादन् बालकं स्‍नेहयन्त्रित: ।
भोजयन् पाययन् मूढो न वेदागतमन्तकम् ॥ २६ ॥

Text 27

स एवं वर्तमानोऽज्ञो मृत्युकाल उपस्थिते ।
मतिं चकार तनये बाले नारायणाह्वये ॥ २७ ॥

Texts 28-29

स पाशहस्तांस्त्रीन्दृष्ट्वा पुरुषानतिदारुणान् ।
वक्रतुण्डानूर्ध्वरोम्ण आत्मानं नेतुमागतान् ॥ २८ ॥
दूरे क्रीडनकासक्तं पुत्रं नारायणाह्वयम् ।
प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रिय: ॥ २९ ॥

Text 30

निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् ।
भर्तुर्नाम महाराज पार्षदा: सहसापतन् ॥ ३० ॥

Text 31

विकर्षतोऽन्तर्हृदयाद्दासीपतिमजामिलम् ।
यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥ ३१ ॥

Text 32

ऊचुर्निषेधितास्तांस्ते वैवस्वतपुर:सरा: ।
के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् ॥ ३२ ॥

Text 33

कस्य वा कुत आयाता: कस्मादस्य निषेधथ ।
किं देवा उपदेवा या यूयं किं सिद्धसत्तमा: ॥ ३३ ॥

Texts 34-36

सर्वे पद्मपलाशाक्षा: पीतकौशेयवासस: ।
किरीटिन: कुण्डलिनो लसत्पुष्करमालिन: ॥ ३४ ॥
सर्वे च नूत्नवयस: सर्वे चारुचतुर्भुजा: ।
धनुर्निषङ्गासिगदाशङ्खचक्राम्बुजश्रिय: ॥ ३५ ॥
दिशो वितिमिरालोका: कुर्वन्त: स्वेन तेजसा ।
किमर्थं धर्मपालस्य किङ्करान्नो निषेधथ ॥ ३६ ॥

Text 37

श्रीशुक उवाच
इत्युक्ते यमदूतैस्ते वासुदेवोक्तकारिण: ।
तान् प्रत्यूचु: प्रहस्येदं मेघनिर्ह्रादया गिरा ॥ ३७ ॥

Text 38

श्रीविष्णुदूता ऊचु:
यूयं वै धर्मराजस्य यदि निर्देशकारिण: ।
ब्रूत धर्मस्य नस्तत्त्वं यच्चाधर्मस्य लक्षणम् ॥ ३८ ॥

Text 39

कथं स्विद् ध्रियते दण्ड: किं वास्य स्थानमीप्सितम् ।
दण्ड्या: किं कारिण: सर्वे आहो स्वित्कतिचिन्नृणाम् ॥ ३९ ॥

Text 40

यमदूता ऊचु:
वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्यय: ।
वेदो नारायण: साक्षात्स्वयम्भूरिति शुश्रुम ॥ ४० ॥

Text 41

येन स्वधाम्न्यमी भावा रज:सत्त्वतमोमया: ।
गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम् ॥ ४१ ॥

Text 42

सूर्योऽग्नि: खं मरुद्देव: सोम: सन्ध्याहनी दिश: ।
कं कु: स्वयं धर्म इति ह्येते दैह्यस्य साक्षिण: ॥ ४२ ॥

Text 43

एतैरधर्मो विज्ञात: स्थानं दण्डस्य युज्यते ।
सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिण: ॥ ४३ ॥

Text 44

सम्भवन्ति हि भद्राणि विपरीतानि चानघा: ।
कारिणां गुणसङ्गोऽस्ति देहवान्न ह्यकर्मकृत् ॥ ४४ ॥

Text 45

येन यावान्यथाधर्मो धर्मो वेह समीहित: ।
स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै ॥ ४५ ॥

Text 46

यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते ।
भूतेषु गुणवैचित्र्यात्तथान्यत्रानुमीयते ॥ ४६ ॥

Text 47

वर्तमानोऽन्ययो: कालो गुणाभिज्ञापको यथा ।
एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम् ॥ ४७ ॥

Text 48

मनसैव पुरे देव: पूर्वरूपं विपश्यति ।
अनुमीमांसतेऽपूर्वं मनसा भगवानज: ॥ ४८ ॥

Text 49

यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि ।
न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥ ४९ ॥

Text 50

पञ्चभि: कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभि: ।
एकस्तु षोडशेन त्रीन् स्वयं सप्तदशोऽश्नुते ॥ ५० ॥

Text 51

तदेतत्षोडशकलं लिङ्गं शक्तित्रयं महत् ।
धत्तेऽनुसंसृतिं पुंसि हर्षशोकभयार्तिदाम् ॥ ५१ ॥

Text 52

देह्यज्ञोऽजितषड्‌वर्गो नेच्छन्कर्माणि कार्यते ।
कोशकार इवात्मानं कर्मणाच्छाद्य मुह्यति ॥ ५२ ॥

Text 53

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवश: कर्म गुणै: स्वाभाविकैर्बलात् ॥ ५३ ॥

Text 54

लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्युत ।
यथायोनि यथाबीजं स्वभावेन बलीयसा ॥ ५४ ॥

Text 55

एष प्रकृतिसङ्गेन पुरुषस्य विपर्यय: ।
आसीत्स एव नचिरादीशसङ्गाद्विलीयते ॥ ५५ ॥

Texts 56-57

अयं हि श्रुतसम्पन्न: शीलवृत्तगुणालय: ।
धृतव्रतो मृदुर्दान्त: सत्यवाङ्‍मन्त्रविच्छुचि: ॥ ५६ ॥
गुर्वग्‍न्यतिथिवृद्धानां शुश्रूषुरनहङ्‌कृत: ।
सर्वभूतसुहृत्साधुर्मितवागनसूयक: ॥ ५७ ॥

Texts 58-60

एकदासौ वनं यात: पितृसन्देशकृद् द्विज: ।
आदाय तत आवृत्त: फलपुष्पसमित्कुशान् ॥ ५८ ॥
ददर्श कामिनं कञ्चिच्छूद्रं सह भुजिष्यया ।
पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया ॥ ५९ ॥
मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् ।
क्रीडन्तमनुगायन्तं हसन्तमनयान्तिके ॥ ६० ॥

Text 61

द‍ृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् ।
जगाम हृच्छयवशं सहसैव विमोहित: ॥ ६१ ॥

Text 62

स्तम्भयन्नात्मनात्मानं यावत्सत्त्वं यथाश्रुतम् ।
न शशाक समाधातुं मनो मदनवेपितम् ॥ ६२ ॥

Text 63

तन्निमित्तस्मरव्याजग्रहग्रस्तो विचेतन: ।
तामेव मनसा ध्यायन् स्वधर्माद्विरराम ह ॥ ६३ ॥

Text 64

तामेव तोषयामास पित्र्येणार्थेन यावता ।
ग्राम्यैर्मनोरमै: कामै: प्रसीदेत यथा तथा ॥ ६४ ॥

Text 65

विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम् ।
विससर्जाचिरात्पाप: स्वैरिण्यापाङ्गविद्धधी: ॥ ६५ ॥

Text 66

यतस्ततश्चोपनिन्ये न्यायतोऽन्यायतो धनम् ।
बभारास्या: कुटुम्बिन्या: कुटुम्बं मन्दधीरयम् ॥ ६६ ॥

Text 67

यदसौ शास्त्रमुल्लङ्‌घ्य स्वैरचार्यतिगर्हित: ।
अवर्तत चिरं कालमघायुरशुचिर्मलात् ॥ ६७ ॥

Text 68

तत एनं दण्डपाणे: सकाशं कृतकिल्बिषम् ।
नेष्यामोऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति ॥ ६८ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here