Srimad Bhagavatam | Canto 5 | Chapter 18 | Verses

0
3

The Prayers Offered to the Lord by the Residents of Jambūdvīpa

Text 1

श्रीशुक उवाच
तथा च भद्रश्रवा नाम धर्मसुतस्तत्कुलपतय: पुरुषा भद्राश्ववर्षे साक्षाद्भ‍गवतो वासुदेवस्य प्रियांतनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदमभिगृणन्त उपधावन्ति ॥ १ ॥

Text 2

भद्रश्रवस ऊचु:
ॐ नमो भगवते धर्मायात्मविशोधनाय नम इति ॥ २ ॥

Text 3

अहो विचित्रं भगवद्विचेष्टितंघ्नन्तं जनोऽयं हि मिषन्न पश्यति । ध्यायन्नसद्यर्हि विकर्म सेवितुंनिर्हृत्य पुत्रं पितरं जिजीविषति ॥ ३ ॥

Text 4

वदन्ति विश्वं कवय: स्म नश्वरंपश्यन्ति चाध्यात्मविदो विपश्चित: । तथापि मुह्यन्ति तवाज माययासुविस्मितं कृत्यमजं नतोऽस्मि तम् ॥ ४ ॥

Text 5

विश्वोद्भ‍वस्थाननिरोधकर्म तेह्यकर्तुरङ्गीकृतमप्यपावृत: । युक्तं न चित्रं त्वयि कार्यकारणेसर्वात्मनि व्यतिरिक्ते च वस्तुत: ॥ ५ ॥

Text 6

वेदान् युगान्ते तमसा तिरस्कृतान्रसातलाद्यो नृतुरङ्गविग्रह: । प्रत्याददे वै कवयेऽभियाचतेतस्मै नमस्तेऽवितथेहिताय इति ॥ ६ ॥

Text 7

हरिवर्षे चापि भगवान्नरहरिरूपेणास्ते । तद्रूपग्रहणनिमित्तमुत्तरत्राभिधास्ये । तद्दयितं रूपं महापुरुषगुणभाजनो महाभागवतो दैत्यदानवकुलतीर्थीकरणशीलाचरित: प्रह्लादोऽव्यवधानानन्यभक्तियोगेन सह तद्वर्षपुरुषैरुपास्ते इदं चोदाहरति ॥ ७ ॥

Text 8

ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ॐ स्वाहा । अभयमभयमात्मनि भूयिष्ठा ॐ क्ष्रौम् ॥ ८ ॥

Text 9

स्वस्त्यस्तु विश्वस्य खल: प्रसीदतां
ध्यायन्तु भूतानि शिवं मिथो धिया ।
मनश्च भद्रं भजतादधोक्षजे
आवेश्यतां नो मतिरप्यहैतुकी ॥ ९ ॥

Text 10

मागारदारात्मजवित्तबन्धुषु
सङ्गो यदि स्याद्भ‍गवत्प्रियेषु न: ।
य: प्राणवृत्त्या परितुष्ट आत्मवान्
सिद्ध्यत्यदूरान्न तथेन्द्रियप्रिय: ॥ १० ॥

Text 11

यत्सङ्गलब्धं निजवीर्यवैभवं
तीर्थं मुहु: संस्पृशतां हि मानसम् ।
हरत्यजोऽन्त: श्रुतिभिर्गतोऽङ्गजं
को वै न सेवेत मुकुन्दविक्रमम् ॥ ११ ॥

Text 12

यस्यास्ति भक्तिर्भगवत्यकिञ्चना
सर्वैर्गुणैस्तत्र समासते सुरा: ।
हरावभक्तस्य कुतो महद्गुणा
मनोरथेनासति धावतो बहि: ॥ १२ ॥

Text 13

हरिर्हि साक्षाद्भ‍गवान् शरीरिणा-
मात्मा झषाणामिव तोयमीप्सितम् ।
हित्वा महांस्तं यदि सज्जते गृहे
तदा महत्त्वं वयसा दम्पतीनाम् ॥ १३ ॥

Text 14

तस्माद्रजोरागविषादमन्यु-
मानस्पृहाभयदैन्याधिमूलम् ।
हित्वा गृहं संसृतिचक्रवालं
नृसिंहपादं भजताकुतोभयमिति ॥ १४ ॥

Text 15

केतुमालेऽपि भगवान् कामदेवस्वरूपेण लक्ष्म्या: प्रियचिकीर्षया प्रजापतेर्दुहितृणां पुत्राणां तद्वर्षपतीनां पुरुषायुषाहोरात्रपरिसङ्ख्यानानां यासां गर्भा महापुरुषमहास्त्रतेजसोद्वेजितमनसां विध्वस्ता व्यसव: संवत्सरान्ते विनिपतन्ति ॥ १५ ॥

Text 16

अतीव सुललितगतिविलासविलसितरुचिरहासलेशावलोकलीलया किञ्चिदुत्तम्भितसुन्दरभ्रूमण्डलसुभगवदनारविन्दश्रिया रमां रमयन्निन्द्रियाणि रमयते ॥ १६ ॥

Text 17

तद्भ‍गवतो मायामयं रूपं परमसमाधियोगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर्दुहितृभिरुपेताह:सु च तद्भ‍‌र्तृभिरुपास्ते इदं चोदाहरति ॥ १७ ॥

Text 18

ॐ ह्रां ह्रीं ह्रूं ॐ नमो भगवते हृषीकेशाय सर्वगुणविशेषैर्विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडशकलायच्छन्दोमयायान्नमयायामृतमयाय सर्वमयाय सहसे ओजसे बलाय कान्ताय कामाय नमस्ते उभयत्र भूयात् ॥ १८ ॥

Text 19

स्त्रियो व्रतैस्त्वा हृषीकेश्वरं स्वतो
ह्याराध्य लोके पतिमाशासतेऽन्यम् ।
तासां न ते वै परिपान्त्यपत्यं
प्रियं धनायूंषि यतोऽस्वतन्त्रा: ॥ १९ ॥

Text 20

स वै पति: स्यादकुतोभय: स्वयं
समन्तत: पाति भयातुरं जनम् ।
स एक एवेतरथा मिथो भयं
नैवात्मलाभादधि मन्यते परम् ॥ २० ॥

Text 21

या तस्य ते पादसरोरुहार्हणं
निकामयेत्साखिलकामलम्पटा ।
तदेव रासीप्सितमीप्सितोऽर्चितो
यद्भ‍ग्नयाच्ञा भगवन् प्रतप्यते ॥ २१ ॥

Text 22

मत्प्राप्तयेऽजेशसुरासुरादय-
स्तप्यन्त उग्रं तप ऐन्द्रियेधिय: ।
ऋते भवत्पादपरायणान्न मां
विन्दन्त्यहं त्वद्‌धृदया यतोऽजित ॥ २२ ॥

Text 23

स त्वं ममाप्यच्युत शीर्ष्णि वन्दितं
कराम्बुजं यत्त्वदधायि सात्वताम् ।
बिभर्षि मां लक्ष्म वरेण्य मायया
क ईश्वरस्येहितमूहितुं विभुरिति ॥ २३ ॥

Text 24

रम्यके च भगवत: प्रियतमं मात्स्यमवताररूपं तद्वर्षपुरुषस्य मनो: प्राक्प्रदर्शितं स इदानीमपि महता भक्तियोगेनाराधयतीदं चोदाहरति ॥ २४ ॥

Text 25

ॐ नमो भगवते मुख्यतमाय नम: सत्त्वाय प्राणायौजसे सहसे बलाय महामत्स्याय नम इति ॥ २५ ॥

Text 26

अन्तर्बहिश्चाखिललोकपालकै-
रद‍ृष्टरूपो विचरस्युरुस्वन: ।
स ईश्वरस्त्वं य इदं वशेऽनय-
न्नाम्ना यथा दारुमयीं नर: स्त्रियम् ॥ २६ ॥

Text 27

यं लोकपाला: किल मत्सरज्वरा
हित्वा यतन्तोऽपि पृथक्समेत्य च ।
पातुं न शेकुर्द्विपदश्चतुष्पद:
सरीसृपं स्थाणु यदत्र द‍ृश्यते ॥ २७ ॥

Text 28

भवान् युगान्तार्णव ऊर्मिमालिनि
क्षोणीमिमामोषधिवीरुधां निधिम् ।
मया सहोरु क्रमतेऽज ओजसा
तस्मै जगत्प्राणगणात्मने नम इति ॥ २८ ॥

Text 29

हिरण्मयेऽपि भगवान्निवसति कूर्मतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह वर्षपुरुषै: पितृगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति ॥ २९ ॥

Text 30

ॐ नमो भगवते अकूपाराय सर्वसत्त्वगुणविशेषणायानुपलक्षितस्थानाय नमो वर्ष्मणे नमो भूम्ने नमो नमोऽवस्थानाय नमस्ते ॥ ३० ॥

Text 31

यद्रूपमेतन्निजमाययार्पित-
मर्थस्वरूपं बहुरूपरूपितम् ।
सङ्ख्या न यस्यास्त्ययथोपलम्भनात्-
तस्मै नमस्तेऽव्यपदेशरूपिणे ॥ ३१ ॥

Text 32

जरायुजं स्वेदजमण्डजोद्भ‍िदं
चराचरं देवर्षिपितृभूतमैन्द्रियम् ।
द्यौ: खं क्षिति: शैलसरित्समुद्र-
द्वीपग्रहर्क्षेत्यभिधेय एक: ॥ ३२ ॥

Text 33

यस्मिन्नसङ्ख्येयविशेषनाम-
रूपाकृतौ कविभि: कल्पितेयम् ।
सङ्ख्या यया तत्त्वद‍ृशापनीयते
तस्मै नम: साङ्ख्यनिदर्शनाय ते इति ॥ ३३ ॥

Text 34

उत्तरेषु च कुरुषु भगवान् यज्ञपुरुष: कृतवराहरूप आस्ते तं तु देवी हैषा भू: सह कुरुभिरस्खलितभक्तियोगेनोपधावति इमां च परमामुपनिषदमावर्तयति ॥ ३४ ॥

Text 35

ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय नम: कर्मशुक्लाय त्रियुगाय नमस्ते ॥ ३५ ॥ ।

Text 36

यस्य स्वरूपं कवयो विपश्चितो
गुणेषु दारुष्विव जातवेदसम् ।
मथ्नन्ति मथ्ना मनसा दिद‍ृक्षवो
गूढं क्रियार्थैर्नम ईरितात्मने ॥ ३६ ॥

Text 37

द्रव्यक्रियाहेत्वयनेशकर्तृभि-
र्मायागुणैर्वस्तुनिरीक्षितात्मने ।
अन्वीक्षयाङ्गातिशयात्मबुद्धिभि-
र्निरस्तमायाकृतये नमो नम: ॥ ३७ ॥

Text 38

करोति विश्वस्थितिसंयमोदयं
यस्येप्सितं नेप्सितमीक्षितुर्गुणै: ।
माया यथायो भ्रमते तदाश्रयं
ग्राव्णो नमस्ते गुणकर्मसाक्षिणे ॥ ३८ ॥

Text 39

प्रमथ्य दैत्यं प्रतिवारणं मृधे
यो मां रसाया जगदादिसूकर: ।
कृत्वाग्रदंष्ट्रे निरगादुदन्वत:
क्रीडन्निवेभ: प्रणतास्मि तं विभुमिति ॥ ३९ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here