Mail ID: contact@vedavarsity.com

Contact: +91 9634998911

Google search engineGoogle search engine
Home Blog Page 150

Srimad Bhagavatam | Canto 1 | Chapter 16 | Verses

0

How Parīkṣit Received the Age of Kali

Text 1

सूत उवाच
तत: परीक्षिद् द्विजवर्यशिक्षया
महीं महाभागवत: शशास ह ।
यथा हि सूत्यामभिजातकोविदा:
समादिशन् विप्र महद्गुणस्तथा ॥ १ ॥

Text 2

स उत्तरस्य तनयामुपयेम इरावतीम् ।
जनमेजयादींश्चतुरस्तस्यामुत्पादयत् सुतान् ॥ २ ॥

Text 3

आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् ।
शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचरा: ॥ ३ ॥

Text 4

निजग्राहौजसा वीर: कलिं दिग्विजये क्‍वचित् ।
नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥ ४ ॥

Text 5

शौनक उवाच
कस्य हेतोर्निजग्राह कलिं दिग्विजये नृप: ।
नृदेवचिह्नधृक्‍शूद्रकोऽसौ गां य: पदाहनत् ।
तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥ ५ ॥

Text 6

अथवास्य पदाम्भोजमकरन्दलिहां सताम् ।
किमन्यैरसदालापैरायुषो यदसद्व्यय: ॥ ६ ॥

Text 7

क्षुद्रायुषां नृणामङ्ग मर्त्यानामृतमिच्छताम् ।
इहोपहूतो भगवान्मृत्यु: शामित्रकर्मणि ॥ ७ ॥

Text 8

न कश्चिन्म्रियते तावद् यावदास्त इहान्तक: ।
एतदर्थं हि भगवानाहूत: परमर्षिभि: ।
अहो नृलोके पीयेत हरिलीलामृतं वच: ॥ ८ ॥

Text 9

मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै ।
निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभि: ॥ ९ ॥

Text 10

सूत उवाच
यदा परीक्षित् कुरुजाङ्गलेऽवसत्
कलिं प्रविष्टं निजचक्रवर्तिते ।
निशम्य वार्तामनतिप्रियां तत:
शरासनं संयुगशौण्डिराददे ॥ १० ॥

Text 11

स्वलङ्‍कृतं श्यामतुरङ्गयोजितं
रथं मृगेन्द्रध्वजमाश्रित: पुरात् ।
वृतो रथाश्वद्विपपत्तियुक्तया
स्वसेनया दिग्विजयाय निर्गत: ॥ ११ ॥

Text 12

भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् ।
किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥ १२ ॥

Texts 13-15

तत्र तत्रोपश‍ृण्वान: स्वपूर्वेषां महात्मनाम् ।
प्रगीयमाणं च यश: कृष्णमाहात्म्यसूचकम् ॥ १३ ॥
आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजस: ।
स्‍नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥ १४ ॥
तेभ्य: परमसन्तुष्ट: प्रीत्युज्जृम्भितलोचन: ।
महाधनानि वासांसि ददौ हारान् महामना: ॥ १५ ॥

Text 16

सारथ्यपारषदसेवनसख्यदौत्य-
वीरासनानुगमनस्तवनप्रणामान् ।
स्‍निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णो-
र्भक्तिं करोति नृपतिश्चरणारविन्दे ॥ १६ ॥

Text 17

तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम् ।
नातिदूरे किलाश्चर्यं यदासीत् तन्निबोध मे ॥ १७ ॥

Text 18

धर्म: पदैकेन चरन् विच्छायामुपलभ्य गाम् ।
पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् ॥ १८ ॥

Text 19

धर्म उवाच
कच्चिद्भद्रेऽनामयमात्मनस्ते
विच्छायासि म्‍लायतेषन्मुखेन ।
आलक्षये भवतीमन्तराधिं
दूरे बन्धुं शोचसि कञ्चनाम्ब ॥ १९ ॥

Text 20

पादैर्न्यूनं शोचसि मैकपाद-
मात्मानं वा वृषलैर्भोक्ष्यमाणम् ।
आहो सुरादीन् हृतयज्ञभागान्
प्रजा उत स्विन्मघवत्यवर्षति ॥ २० ॥

Text 21

अरक्ष्यमाणा: स्त्रिय उर्वि बालान्
शोचस्यथो पुरुषादैरिवार्तान् ।
वाचं देवीं ब्रह्मकुले कुकर्म-
ण्यब्रह्मण्ये राजकुले कुलाग्रयान् ॥ २१ ॥

Text 22

किं क्षत्रबन्धून् कलिनोपसृष्टान्
राष्ट्राणि वा तैरवरोपितानि ।
इतस्ततो वाशनपानवास:
स्‍नानव्यवायोन्मुखजीवलोकम् ॥ २२ ॥

Text 23

यद्वाम्ब ते भूरिभरावतार
कृतावतारस्य हरेर्धरित्रि ।
अन्तर्हितस्य स्मरती विसृष्टा
कर्माणि निर्वाणविलम्बितानि ॥ २३ ॥

Text 24

इदं ममाचक्ष्व तवाधिमूलं
वसुन्धरे येन विकर्शितासि ।
कालेन वा ते बलिनां बलीयसा सुरार्चितं
किं हृतमम्ब सौभगम् ॥ २४ ॥

Text 25

Texts 26-30

सत्यं शौचं दया क्षान्तिस्त्याग: सन्तोष आर्जवम् ।
शमो दमस्तप: साम्यं तितिक्षोपरति: श्रुतम् ॥ २६ ॥
ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृति: ।
स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ॥ २७ ॥
प्रागल्भ्यं प्रश्रय: शीलं सह ओजो बलं भग: ।
गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्‍कृति: ॥ २८ ॥
एते चान्ये च भगवन्नित्या यत्र महागुणा: ।
प्रार्थ्या महत्त्वमिच्छद्भ‍िर्न वियन्ति स्म कर्हिचित् ॥ २९ ॥
तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् ।
शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥ ३० ॥

Text 31

आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् ।
देवान् पितृनृषीन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥ ३१ ॥

Texts 32-33

ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष-
कामास्तप: समचरन् भगवत्प्रपन्ना: ।
सा श्री: स्ववासमरविन्दवनं विहाय
यत्पादसौभगमलं भजतेऽनुरक्ता ॥ ३२ ॥
तस्याहमब्जकुलिशाङ्‍कुशकेतुकेतै:
श्रीमत्पदैर्भगवत: समलङ्‍कृताङ्गी ।
त्रीनत्यरोच उपलभ्य ततो विभूतिं
लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥ ३३ ॥

Text 34

यो वै ममातिभरमासुरवंशराज्ञा-
मक्षौहिणीशतमपानुददात्मतन्त्र: ।
त्वां दु:स्थमूनपदमात्मनि पौरुषेण
सम्पादयन् यदुषु रम्यमबिभ्रदङ्गम् ॥ ३४ ॥

Text 35

का वा सहेत विरहं
पुरुषोत्तमस्य प्रेमावलोकरुचिरस्मितवल्गुजल्पै: ।
स्थैर्यं समानमहरन्मधुमानिनीनां
रोमोत्सवो मम यदङ्‌घ्रिविटङ्किताया: ॥ ३५ ॥

Text 36

तयोरेवं कथयतो: पृथिवीधर्मयोस्तदा ।
परीक्षिन्नाम राजर्षि: प्राप्त: प्राचीं सरस्वतीम् ॥ ३६ ॥

Srimad Bhagavatam | Canto 1 | Chapter 15 | Verses

0

The Pāṇḍavas Retire Timely

Text 1

सूत उवाच
एवं कृष्णसख: कृष्णो भ्रात्रा राज्ञा विकल्पित: ।
नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शित: ॥ १ ॥

Text 2

शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभ: ।
विभुं तमेवानुस्मरन्नाशक्नोत्प्रतिभाषितुम् ॥ २ ॥

Text 3

कृच्छ्रेण संस्तभ्य शुच: पाणिनामृज्य नेत्रयो: ।
परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातर: ॥ ३ ॥

Text 4

सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् ।
नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥ ४ ॥

Text 5

अर्जुन उवाच
वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा ।
येन मेऽपहृतं तेजो देवविस्मापनं महत् ॥ ५ ॥

Text 6

यस्य क्षणवियोगेन लोको ह्यप्रियदर्शन: ।
उक्थेन रहितो ह्येष मृतक: प्रोच्यते यथा ॥ ६ ॥

Text 7

यत्संश्रयाद् द्रुपदगेहमुपागतानां
राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम् ।
तेजो हृतं खलु मयाभिहतश्च मत्स्य:
सज्जीकृतेन धनुषाधिगता च कृष्णा ॥ ७ ॥

Text 8

यत्सन्निधावहमु खांडवमग्नयेऽदा-
मिन्द्रं च सामरगणं तरसा विजित्य ।
लब्धा सभा मयकृताद्भुतशिल्पमाया
दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते ॥ ८ ॥

Text 9

यत्तेजसा नृपशिरोऽङ्‌घ्रिमहन्मखार्थम्
आर्योऽनुजस्तव गजायुतसत्त्ववीर्य: ।
तेनाहृता: प्रमथनाथमखाय भूपा
यन्मोचितास्तदनयन्बलिमध्वरे ते ॥ ९ ॥

Text 10

पत्‍न्‍यास्तवाधिमखक्लृप्तमहाभिषेक-
श्लाघिष्ठचारुकबरं कितवै: सभायाम् ।
स्पृष्टं विकीर्य पदयो: पतिताश्रुमुख्या
यस्तत्स्त्रियोऽकृतहतेशविमुक्तकेशा: ॥ १० ॥

Text 11

यो नो जुगोप वन एत्य दुरन्तकृच्छ्राद्
दुर्वाससोऽरिरचितादयुताग्रभुग् य: ।
शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं
तृप्ताममंस्त सलिले विनिमग्नसङ्घ: ॥ ११ ॥

Text 12

यत्तेजसाथ भगवान् युधि शूलपाणि-
र्विस्मापित: सगिरिजोऽस्त्रमदान्निजं मे ।
अन्येऽपि चाहममुनैव कलेवरेण
प्राप्तो महेन्द्रभवने महदासनार्धम् ॥ १२ ॥

Text 13

तत्रैव मे विहरतो भुजदण्डयुग्मं
गाण्डीवलक्षणमरातिवधाय देवा: ।
सेन्द्रा: श्रिता यदनुभावितमाजमीढ
तेनाहमद्य मुषित: पुरुषेण भूम्ना ॥ १३ ॥

Text 14

यद्बान्धव: कुरुबलाब्धिमनन्तपार-
मेको रथेन ततरेऽहमतीर्यसत्त्वम् ।
प्रत्याहृतं बहु धनं च मया परेषां
तेजास्पदं मणिमयं च हृतं शिरोभ्य: ॥ १४ ॥

Text 15

यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र-
राजन्यवर्यरथमण्डलमण्डितासु ।
अग्रेचरो मम विभो रथयूथपाना-
मायुर्मनांसि च द‍ृशा सह ओज आर्च्छत् ॥ १५ ॥

Text 16

यद्दो:षु मा प्रणिहितं गुरुभीष्मकर्ण-
नप्तृत्रिगर्तशल्यसैन्धवबाह्लिकाद्यै: ।
अस्‍त्राण्यमोघमहिमानि निरूपितानि
नोपस्पृशुर्नृहरिदासमिवासुराणि ॥ १६ ॥

Text 17

सौत्ये वृत: कुमतिनात्मद ईश्वरो मे
यत्पादपद्ममभवाय भजन्ति भव्या: ।
मां श्रान्तवाहमरयो रथिनो भुविष्ठं
न प्राहरन् यदनुभावनिरस्तचित्ता: ॥ १७ ॥

Text 18

नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति ।
सञ्जल्पितानि नरदेव हृदिस्पृशानि स्मर्तुर्लुठन्ति हृदयं मम माधवस्य ॥ १८ ॥

Text 19

शय्यासनाटनविकत्थनभोजनादि ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्ध: ।
सख्यु: सखेव पितृवत्तनयस्य सर्वं सेहे महान्महितया कुमतेरघं मे ॥ १९ ॥

Text 20

सोऽहं नृपेन्द्र रहित: पुरुषोत्तमेन
सख्या प्रियेण सुहृदा हृदयेन शून्य: ।
अध्वन्युरुक्रमपरिग्रहमङ्ग रक्षन्
गोपैरसद्भ‍िरबलेव विनिर्जितोऽस्मि ॥ २० ॥

Text 21

तद्वै धनुस्त इषव: स रथो हयास्ते
सोऽहं रथी नृपतयो यत आनमन्ति ।
सर्वं क्षणेन तदभूदसदीशरिक्तं
भस्मन्हुतं कुहकराद्धमिवोप्तमूष्याम् ॥ २१ ॥

Texts 22-23

राजंस्त्वयानुपृष्टानां सुहृदां न: सुहृत्पुरे ।
विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथ: ॥ २२ ॥
वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् ।
अजानतामिवान्योन्यं चतु:पञ्चावशेषिता: ॥ २३ ॥

Text 24

प्रायेणैतद् भगवत ईश्वरस्य विचेष्टितम् ।
मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथ: ॥ २४ ॥

Texts 25-26

जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयस: ।
दुर्बलान्बलिनो राजन्महान्तो बलिनो मिथ: ॥ २५ ॥
एवं बलिष्ठैर्यदुभिर्महद्भ‍िरितरान् विभु: ।
यदून्यदुभिरन्योन्यं भूभारान् सञ्जहार ह ॥ २६ ॥

Text 27

देशकालार्थयुक्तानि हृत्तापोपशमानि च ।
हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे ॥ २७ ॥

Text 28

सूत उवाच
एवं चिन्तयतो जिष्णो: कृष्णपादसरोरुहम् ।
सौहार्देनातिगाढेन शान्तासीद्विमला मति: ॥ २८ ॥

Text 29

वासुदेवाङ्घ्र्यनुध्यानपरिबृंहितरंहसा ।
भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुन: ॥ २९ ॥

Text 30

गीतं भगवता ज्ञानं यत् तत् सङ्ग्राममूर्धनि ।
कालकर्मतमोरुद्धं पुनरध्यगमत् प्रभु: ॥ ३० ॥

Text 31

विशोको ब्रह्मसम्पत्त्या सञ्छिन्नद्वैतसंशय: ।
लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भव: ॥ ३१ ॥

Text 32

निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च ।
स्व:पथाय मतिं चक्रे निभृतात्मा युधिष्ठिर: ॥ ३२ ॥

Text 33

पृथाप्यनुश्रुत्य धनञ्जयोदितं
नाशं यदूनां भगवद्गतिं च ताम् ।
एकान्तभक्त्या भगवत्यधोक्षजे
निवेशितात्मोपरराम संसृते: ॥ ३३ ॥

Text 34

ययाहरद् भुवो भारं तां तनुं विजहावज: ।
कण्टकं कण्टकेनेव द्वयं चापीशितु: समम् ॥ ३४ ॥

Text 35

यथा मत्स्यादिरूपाणि धत्ते जह्याद् यथा नट: ।
भूभार: क्षपितो येन जहौ तच्च कलेवरम् ॥ ३५ ॥

Text 36

यदा मुकुन्दो भगवानिमां महीं
जहौ स्वतन्वा श्रवणीयसत्कथ: ।
तदाहरेवाप्रतिबुद्धचेतसा-
मभद्रहेतु: कलिरन्ववर्तत ॥ ३६ ॥

Text 37

युधिष्ठिरस्तत्परिसर्पणं बुध:
पुरे च राष्ट्रे च गृहे तथात्मनि ।
विभाव्य लोभानृतजिह्महिंसना-
द्यधर्मचक्रं गमनाय पर्यधात् ॥ ३७ ॥

Text 38

स्वराट् पौत्रं विनयिनमात्मन: सुसमं गुणै: ।
तोयनीव्या: पतिं भूमेरभ्यषिञ्चद्गजाह्वये ॥ ३८ ॥

Text 39

मथुरायां तथा वज्रं शूरसेनपतिं तत: ।
प्राजापत्यां निरूप्येष्टिमग्नीनपिबदीश्वर: ॥ ३९ ॥

Text 40

विसृज्य तत्र तत् सर्वं दुकूलवलयादिकम् ।
निर्ममो निरहङ्कार: सञ्छिन्नाशेषबन्धन: ॥ ४० ॥

Text 41

वाचं जुहाव मनसि तत्प्राण इतरे च तम् ।
मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् ॥ ४१ ॥

Text 42

त्रित्वे हुत्वा च पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनि: ।
सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये ॥ ४२ ॥

Text 43

चीरवासा निराहारो बद्धवाङ्‍मुक्तमूर्धज: ।
दर्शयन्नात्मनो रूपं जडोन्मत्तपिशाचवत् ।
अनवेक्षमाणो निरगादश‍ृण्वन्बधिरो यथा ॥ ४३ ॥

Text 44

उदीचीं प्रविवेशाशां गतपूर्वां महात्मभि: ।
हृदि ब्रह्म परं ध्यायन्नावर्तेत यतो गत: ॥ ४४ ॥

Text 45

सर्वे तमनुनिर्जग्मुर्भ्रातर: कृतनिश्चया: ।
कलिनाधर्ममित्रेण द‍ृष्ट्वा स्पृष्टा: प्रजा भुवि ॥ ४५ ॥

Text 46

ते साधुकृतसर्वार्था ज्ञात्वात्यन्तिकमात्मन: ।
मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥ ४६ ॥

Texts 47-48

तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणा: परे ।
तस्मिन् नारायणपदे एकान्तमतयो गतिम् ॥ ४७ ॥
अवापुर्दुरवापां ते असद्भ‍िर्विषयात्मभि: ।
विधूतकल्मषा स्थानं विरजेनात्मनैव हि ॥ ४८ ॥

Text 49

विदुरोऽपि परित्यज्य प्रभासे देहमात्मन: ।
कृष्णावेशेन तच्चित्त: पितृभि: स्वक्षयं ययौ ॥ ४९ ॥

Text 50

द्रौपदी च तदाज्ञाय पतीनामनपेक्षताम् ।
वासुदेवे भगवति ह्येकान्तमतिराप तम् ॥ ५० ॥

Text 51

य: श्रद्धयैतद् भगवत्प्रियाणां
पाण्डो: सुतानामिति सम्प्रयाणम् ।
श‍ृणोत्यलं स्वस्त्ययनं पवित्रं
लब्ध्वा हरौ भक्तिमुपैति सिद्धिम् ॥ ५१ ॥

Srimad Bhagavatam | Canto 1 | Chapter 14 | Verses

0

The Disappearance of Lord Kṛṣṇa

Text 1

सूत उवाच
सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिद‍ृक्षया ।
ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ १ ॥

Text 2

व्यतीता: कतिचिन्मासास्तदा नायात्ततोऽर्जुन: ।
ददर्श घोररूपाणि निमित्तानि कुरूद्वह: ॥ २ ॥

Text 3

कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिण: ।
पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ॥ ३ ॥

Text 4

जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् ।
पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम् ॥ ४ ॥

Text 5

निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम् ।
लोभाद्यधर्मप्रकृतिं द‍ृष्ट्वोवाचानुजं नृप: ॥ ५ ॥

Text 6

युधिष्ठिर उवाच
सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिद‍ृक्षया ।
ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ ६ ॥

Text 7

गता: सप्ताधुना मासा भीमसेन तवानुज: ।
नायाति कस्य वा हेतोर्नाहं वेदेदमञ्जसा ॥ ७ ॥

Text 8

अपि देवर्षिणादिष्ट: स कालोऽयमुपस्थित: ।
यदात्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति ॥ ८ ॥

Text 9

यस्मान्न: सम्पदो राज्यं दारा: प्राणा: कुलं प्रजा: ।
आसन्सपत्नविजयो लोकाश्च यदनुग्रहात् ॥ ९ ॥

Text 10

पश्योत्पातान्नरव्याघ्र दिव्यान् भौमान् सदैहिकान् ।
दारुणान् शंसतोऽदूराद्भयं नो बुद्धिमोहनम् ॥ १० ॥

Text 11

ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुन: पुन: ।
वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम् ॥ ११ ॥

Text 12

शिवैषोद्यन्तमादित्यमभिरौत्यनलानना ।
मामङ्ग सारमेयोऽयमभिरेभत्यभीरुवत् ॥ १२ ॥

Text 13

शस्ता: कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे ।
वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥ १३ ॥

Text 14

मृत्युदूत: कपोतोऽयमुलूक: कम्पयन् मन: ।
प्रत्युलूकश्च कुह्वानैर्विश्वं वै शून्यमिच्छत: ॥ १४ ॥

Text 15

धूम्रा दिश: परिधय: कम्पते भू: सहाद्रिभि: ।
निर्घातश्च महांस्तात साकं च स्तनयित्नुभि: ॥ १५ ॥

Text 16

वायुर्वाति खरस्पर्शो रजसा विसृजंस्तम: ।
असृग् वर्षन्ति जलदा बीभत्समिव सर्वत: ॥ १६ ॥

Text 17

सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि ।
ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी ॥ १७ ॥

Text 18

नद्यो नदाश्च क्षुभिता: सरांसि च मनांसि च ।
न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति ॥ १८ ॥

Text 19

न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातर: ।
रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे ॥ १९ ॥

Text 20

दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च ।
इमे जनपदा ग्रामा: पुरोद्यानाकराश्रमा: ।
भ्रष्टश्रियो निरानन्दा: किमघं दर्शयन्ति न: ॥ २० ॥

Text 21

मन्य एतैर्महोत्पातैर्नूनं भगवत: पदै: ।
अनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगा ॥ २१ ॥

Text 22

इति चिन्तयतस्तस्य द‍ृष्टारिष्टेन चेतसा ।
राज्ञ: प्रत्यागमद् ब्रह्मन् यदुपुर्या: कपिध्वज: ॥ २२ ॥

Text 23

तं पादयोर्निपतितमयथापूर्वमातुरम् ।
अधोवदनमब्बिन्दून् सृजन्तं नयनाब्जयो: ॥ २३ ॥

Text 24

विलोक्योद्विग्नहृदयो विच्छायमनुजं नृप: ।
पृच्छति स्म सुहृन्मध्ये संस्मरन्नारदेरितम् ॥ २४ ॥

Text 25

युधिष्ठिर उवाच
कच्चिदानर्तपुर्यां न: स्वजना: सुखमासते ।
मधुभोजदशार्हार्हसात्वतान्धकवृष्णय: ॥ २५ ॥

Text 26

शूरो मातामह: कच्चित्स्वस्त्यास्ते वाथ मारिष: ।
मातुल: सानुज: कच्चित्कुशल्यानकदुन्दुभि: ॥ २६ ॥

Text 27

सप्त स्वसारस्तत्पत्न्यो मातुलान्य: सहात्मजा: ।
आसते सस्‍नुषा: क्षेमं देवकीप्रमुखा: स्वयम् ॥ २७ ॥

Texts 28-29

कच्चिद्राजाहुको जीवत्यसत्पुत्रोऽस्य चानुज: ।
हृदीक: ससुतोऽक्रूरो जयन्तगदसारणा: ॥ २८ ॥
आसते कुशलं कच्चिद्ये च शत्रुजिदादय: ।
कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभु: ॥ २९ ॥

Text 30

प्रद्युम्न: सर्ववृष्णीनां सुखमास्ते महारथ: ।
गम्भीररयोऽनिरुद्धो वर्धते भगवानुत ॥ ३० ॥

Text 31

सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुत: ।
अन्ये च कार्ष्णिप्रवरा: सपुत्रा ऋषभादय: ॥ ३१ ॥

Texts 32-33

तथैवानुचरा: शौरे: श्रुतदेवोद्धवादय: ।
सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभा: ॥ ३२ ॥
अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रया: ।
अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदा: ॥ ३३ ॥

Text 34

भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सल: ।
कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्‍वृत: ॥ ३४ ॥

Texts 35-36

मङ्गलाय च लोकानां क्षेमाय च भवाय च ।
आस्ते यदुकुलाम्भोधावाद्योऽनन्तसख: पुमान् ॥ ३५ ॥
यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिता: ।
क्रीडन्ति परमानन्दं महापौरुषिका इव ॥ ३६ ॥

Text 37

यत्पादशुश्रूषणमुख्यकर्मणा
सत्यादयो द्व्यष्टसहस्रयोषित: ।
निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो
हरन्ति वज्रायुधवल्लभोचिता: ॥ ३७ ॥

Text 38

यद्बाहुदण्डाभ्युदयानुजीविनो
यदुप्रवीरा ह्यकुतोभया मुहु: ।
अधिक्रमन्त्यङ्‌घ्रिभिराहृतां बलात्
सभां सुधर्मां सुरसत्तमोचिताम् ॥ ३८ ॥

Text 39

कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे ।
अलब्धमानोऽवज्ञात: किं वा तात चिरोषित: ॥ ३९ ॥

Text 40

कच्चिन्नाभिहतोऽभावै: शब्दादिभिरमङ्गलै: ।
न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम् ॥ ४० ॥

Text 41

कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् ।
शरणोपसृतं सत्त्वं नात्याक्षी: शरणप्रद: ॥ ४१ ॥

Text 42

कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम् ।
पराजितो वाथ भवान्नोत्तमैर्नासमै: पथि ॥ ४२ ॥

Text 43

अपि स्वित्पर्यभुङ्‍क्‍थास्त्वं सम्भोज्यान् वृद्धबालकान् ।
जुगुप्सितं कर्म किञ्चित्कृतवान्न यदक्षमम् ॥ ४३ ॥

Text 44

कच्चित् प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना ।
शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् ॥ ४४ ॥

Srimad Bhagavatam | Canto 1 | Chapter 13 | Verses

0

Dhṛtarāṣṭra Quits Home

Text 1

सूत उवाच
विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् ।
ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सित: ॥ १ ॥

Text 2

यावत: कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रत: ।
जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥ २ ॥

Texts 3-4

तं बन्धुमागतं द‍ृष्ट्वा धर्मपुत्र: सहानुज: ।
धृतराष्ट्रो युयुत्सुश्च सूत: शारद्वत: पृथा ॥ ३ ॥
गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी ।
अन्याश्च जामय: पाण्डोर्ज्ञातय: ससुता: स्त्रिय: ॥ ४ ॥

Text 5

प्रत्युज्जग्मु: प्रहर्षेण प्राणं तन्व इवागतम् ।
अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनै: ॥ ५ ॥

Text 6

मुमुचु: प्रेमबाष्पौघं विरहौत्कण्ठ्यकातरा: ।
राजा तमर्हयाञ्चक्रे कृतासनपरिग्रहम् ॥ ६ ॥

Text 7

तं भुक्तवन्तं विश्रान्तमासीनं सुखमासने ।
प्रश्रयावनतो राजा प्राह तेषां च श‍ृण्वताम् ॥ ७ ॥

Text 8

युधिष्ठिर उवाच
अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान् ।
विपद्गणाद्विषाग्‍न्‍यादेर्मोचिता यत्समातृका: ॥ ८ ॥

Text 9

कया वृत्त्या वर्तितं वश्चरद्भ‍ि: क्षितिमण्डलम् ।
तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ ९ ॥

Text 10

भवद्विधा भागवतास्तीर्थभूता: स्वयं विभो ।
तीर्थीकुर्वन्ति तीर्थानि स्वान्त:स्थेन गदाभृता ॥ १० ॥

Text 11

अपि न: सुहृदस्तात बान्धवा: कृष्णदेवता: ।
द‍ृष्टा: श्रुता वा यदव: स्वपुर्यां सुखमासते ॥ ११ ॥

Text 12

इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् ।
यथानुभूतं
क्रमशो विना यदुकुलक्षयम् ॥ १२ ॥

Text 13

नन्वप्रियं दुर्विषहं नृणां
स्वयमुपस्थितम् ।
नावेदयत् सकरुणो दु:खितान् द्रष्टुमक्षम: ॥ १३ ॥

Text 14

कञ्चित्कालमथावात्सीत्सत्कृतो देववत्सुखम् ।
भ्रातुर्ज्येष्ठस्य श्रेयस्कृत्सर्वेषां सुखमावहन् ॥ १४ ॥

Text 15

अबिभ्रदर्यमा दण्डं यथावदघकारिषु ।
यावद्दधार शूद्रत्वं शापाद्वर्षशतं यम: ॥ १५ ॥

Text 16

युधिष्ठिरो लब्धराज्यो द‍ृष्ट्वा पौत्रं कुलन्धरम् ।
भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया ॥ १६ ॥

Text 17

एवं गृहेषु सक्तानां प्रमत्तानां तदीहया ।
अत्यक्रामदविज्ञात: काल: परमदुस्तर: ॥ १७ ॥

Text 18

विदुरस्तदभिप्रेत्य धृतराष्ट्रमभाषत ।
राजन्निर्गम्यतां शीघ्रं पश्येदं भयमागतम् ॥ १८ ॥

Text 19

प्रतिक्रिया न यस्येह कुतश्चित्कर्हिचित्प्रभो ।
स एष भगवान् काल: सर्वेषां न: समागत: ॥ १९ ॥

Text 20

येन चैवाभिपन्नोऽयं प्राणै: प्रियतमैरपि ।
जन: सद्यो वियुज्येत किमुतान्यैर्धनादिभि: ॥ २० ॥

Text 21

पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयम् ।
आत्मा च जरया ग्रस्त: परगेहमुपाससे ॥ २१ ॥

Text 22

अन्ध: पुरैव वधिरो मन्दप्रज्ञाश्च साम्प्रतम् ।
विशीर्णदन्तो मन्दाग्नि: सराग: कफमुद्वहन् ॥ २२ ॥

Text 23

अहो महीयसी जन्तोर्जीविताशा यथा भवान् ।
भीमापवर्जितं
पिण्डमादत्ते गृहपालवत् ॥ २३ ॥

Text 24

अग्निर्निसृष्टो दत्तश्च गरो दाराश्च
दूषिता: ।
हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभि: कियत् ॥ २४ ॥

Text 25

तस्यापि तव देहोऽयं कृपणस्य जिजीविषो: ।
परैत्यनिच्छतो जीर्णो जरया वाससी इव ॥ २५ ॥

Text 26

गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धन: ।
अविज्ञातगतिर्जह्यात् स वै धीर उदाहृत: ॥ २६ ॥

Text 27

य: स्वकात्परतो वेह जातनिर्वेद आत्मवान् ।
हृदि कृत्वा हरिं गेहात्प्रव्रजेत्स नरोत्तम: ॥ २७ ॥

Text 28

अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् ।
इतोऽर्वाक्प्रायश: काल: पुंसां गुणविकर्षण: ॥ २८ ॥

Text 29

एवं राजा विदुरेणानुजेन
प्रज्ञाचक्षुर्बोधित आजमीढ: ।
छित्त्वा स्वेषु स्‍नेहपाशान्द्रढिम्नो
निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥ २९ ॥

Text 30

पतिं प्रयान्तं सुबलस्य पुत्री
पतिव्रता चानुजगाम साध्वी ।
हिमालयं न्यस्तदण्डप्रहर्षं
मनस्विनामिव सत्सम्प्रहार: ॥ ३० ॥

Text 31

अजातशत्रु: कृतमैत्रो हुताग्नि-
र्विप्रान्नत्वा
तिलगोभूमिरुक्‍मै: ।
गृहं प्रविष्टो गुरुवन्दनाय
न चापश्यत्पितरौ
सौबलीं च ॥ ३१ ॥

Text 32

तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानस: ।
गावल्गणे क्‍व नस्तातो वृद्धो हीनश्च नेत्रयो: ॥ ३२ ॥

Text 33

अम्बा च हतपुत्रार्ता पितृव्य: क्‍व गत: सुहृत् ।
अपि मय्यकृतप्रज्ञे हतबन्धु: स भार्यया ।
आशंसमान: शमलं गङ्गायां दु:खितोऽपतत् ॥ ३३ ॥

Text 34

पितर्युपरते पाण्डौ सर्वान्न: सुहृद: शिशून् ।
अरक्षतां व्यसनत: पितृव्यौ क्‍व गतावित: ॥ ३४ ॥

Text 35

सूत उवाच
कृपया स्नेडहवैक्लव्यात्सूतो विरहकर्शित: ।
आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडित: ॥ ३५ ॥

Text 36

विमृज्याश्रूणि पाणिभ्यां
विष्टभ्यात्मानमात्मना ।
अजातशत्रुं प्रत्यूचे प्रभो: पादावनुस्मरन् ॥ ३६ ॥

Text 37

सञ्जय उवाच
नाहं वेद व्यवसितं पित्रोर्व: कुलनन्दन ।
गान्धार्या
वा महाबाहो मुषितोऽस्मि महात्मभि: ॥ ३७ ॥

Text 38

अथाजगाम भगवान् नारद: सहतुम्बुरु: ।
प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन्मुनिम् ॥ ३८ ॥

Text 39

युधिष्ठिर उवाच
नाहं वेद गतिं पित्रोर्भगवन् क्‍व
गतावित: ।
अम्बा वा हतपुत्रार्ता क्‍व गता च तपस्विनी ॥ ३९ ॥

Text 40

कर्णधार इवापारे भगवान् पारदर्शक: ।
अथाबभाषे
भगवान् नारदो मुनिसत्तम: ॥ ४० ॥

Text 41

नारद उवाच
मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् ।
लोका: सपाला यस्येमे वहन्ति बलिमीशितु: ।
स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ ४१ ॥

Text 42

यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभि: ।
वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितु: ॥ ४२ ॥

Text 43

यथा क्रीडोपस्कराणां संयोगविगमाविह ।
इच्छया क्रीडितु: स्यातां तथैवेशेच्छया नृणाम् ॥ ४३ ॥

Text 44

यन्मन्यसे ध्रुवं लोकमध्रुवं वा न चोभयम् ।
सर्वथा न हि शोच्यास्ते स्‍नेहादन्यत्र मोहजात् ॥ ४४ ॥

Text 45

तस्माज्जह्यङ्ग वैक्लव्यमज्ञानकृतमात्मन: ।
कथं त्वनाथा: कृपणा वर्तेरंस्ते च मां विना ॥ ४५ ॥

Text 46

कालकर्मगुणाधीनो देहोऽयं पाञ्चभौतिक: ।
कथमन्यांस्तु गोपायेत्सर्पग्रस्तो यथा परम् ॥ ४६ ॥

Text 47

अहस्तानि सहस्तानामपदानि चतुष्पदाम् ।
फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ ४७ ॥

Text 48

तदिदं भगवान् राजन्नेक आत्मात्मनां स्वद‍ृक् ।
अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा ॥ ४८ ॥

Text 49

सोऽयमद्य महाराज भगवान् भूतभावन: ।
कालरूपोऽवतीर्णोऽस्यामभावाय सुरद्विषाम् ॥ ४९ ॥

Text 50

निष्पादितं देवकृत्यमवशेषं प्रतीक्षते ।
तावद् यूयमवेक्षध्वं भवेद् यावदिहेश्वर: ॥ ५० ॥

Text 51

धृतराष्ट्र: सह भ्रात्रा गान्धार्या च स्वभार्यया ।
दक्षिणेन हिमवत ऋषीणामाश्रमं गत: ॥ ५१ ॥

Text 52

स्रोतोभि: सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् ।
सप्तानां प्रीतये नाना सप्तस्रोत: प्रचक्षते ॥ ५२ ॥

Text 53

स्‍नात्वानुसवनं तस्मिन्हुत्वा चाग्नीन्यथाविधि ।
अब्भक्ष उपशान्तात्मा स आस्ते विगतैषण: ॥ ५३ ॥

Text 54

जितासनो जितश्वास: प्रत्याहृतषडिन्द्रिय: ।
हरिभावनया ध्वस्तरज:सत्त्वतमोमल: ॥ ५४ ॥

Text 55

विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।
ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५५ ॥

Text 56

ध्वस्तमायागुणोदर्को निरुद्धकरणाशय: ।
निवर्तिताखिलाहार आस्ते स्थाणुरिवाचल: ।
तस्यान्तरायो मैवाभू: सन्न्यस्ताखिलकर्मण: ॥ ५६ ॥

Text 57

स वा अद्यतनाद् राजन् परत: पञ्चमेऽहनि ।
कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति ॥ ५७ ॥

Text 58

दह्यमानेऽग्निभिर्देहे पत्यु: पत्नी सहोटजे ।
बहि: स्थिता पतिं साध्वी तमग्निमनु वेक्ष्यति ॥ ५८ ॥

Text 59

विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन ।
हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवक: ॥ ५९ ॥

Text 60

इत्युक्त्वाथारुहत् स्वर्गं नारद: सहतुम्बुरु: ।
युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुच: ॥ ६० ॥

Srimad Bhagavatam | Canto 1 | Chapter 12 | Verses

0

Birth of Emperor Parīkṣit

Text 1

शौनक उवाच
अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा ।
उत्तराया हतो गर्भ ईशेनाजीवित: पुन: ॥ १ ॥

Text 2

तस्य जन्म महाबुद्धे: कर्माणि च महात्मन: ।
निधनं च यथैवासीत्स प्रेत्य गतवान् यथा ॥ २ ॥

Text 3

तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे ।
ब्रूहि न: श्रद्दधानानां यस्य ज्ञानमदाच्छुक: ॥ ३ ॥

Text 4

सूत उवाच
अपीपलद्धर्मराज: पितृवद् रञ्जयन् प्रजा: ।
नि:स्पृह: सर्वकामेभ्य: कृष्णपादानुसेवया ॥ ४ ॥

Text 5

सम्पद: क्रतवो लोका महिषी भ्रातरो मही ।
जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥ ५ ॥

Text 6

किं ते कामा: सुरस्पार्हा मुकुन्दमनसो द्विजा: ।
अधिजह्रुर्मुदं राज्ञ: क्षुधितस्य यथेतरे ॥ ६ ॥

Text 7

मातुर्गर्भगतो वीर: स तदा भृगुनन्दन ।
ददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसा ॥ ७ ॥

Text 8

अङ्गुष्ठमात्रममलं स्फुरत्पुरटमौलिनम् ।
अपीव्यदर्शनं श्यामं तडिद्वाससमच्युतम् ॥ ८ ॥

Text 9

श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम् ।
क्षतजाक्षं गदापाणिमात्मन: सर्वतोदिशम् ।
परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहु: ॥ ९ ॥

Text 10

अस्त्रतेज: स्वगदया नीहारमिव गोपति: ।
विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ १० ॥

Text 11

विधूय तदमेयात्मा भगवान्धर्मगुब् विभु: ।
मिषतो दशमासस्य तत्रैवान्तर्दधे हरि: ॥ ११ ॥

Text 12

तत: सर्वगुणोदर्के सानुकूलग्रहोदये ।
जज्ञे वंशधर: पाण्डोर्भूय: पाण्डुरिवौजसा ॥ १२ ॥

Text 13

तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभि: ।
जातकं कारयामास वाचयित्वा च मङ्गलम् ॥ १३ ॥

Text 14

हिरण्यं गां महीं ग्रामान् हस्त्यश्वान्नृपतिर्वरान् ।
प्रादात्स्वन्नं च विप्रेभ्य: प्रजातीर्थे स तीर्थवित् ॥ १४ ॥

Text 15

तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् ।
एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥ १५ ॥

Text 16

दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि ।
रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥ १६ ॥

Text 17

तस्मान्नाम्ना विष्णुरात इति लोके भविष्यति ।
न सन्देहो महाभाग महाभागवतो महान् ॥ १७ ॥

Text 18

श्रीराजोवाच
अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मन: ।
अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमा: ॥ १८ ॥

Text 19

ब्राह्मणा ऊचु:
पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानव: ।
ब्रह्मण्य: सत्यसन्धश्च रामो दाशरथिर्यथा ॥ १९ ॥

Text 20

एष दाता शरण्यश्च यथा ह्यौशीनर: शिबि: ।
यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥ २० ॥

Text 21

धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयो: ।
हुताश इव दुर्धर्ष: समुद्र इव दुस्तर: ॥ २१ ॥

Text 22

मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव ।
तितिक्षुर्वसुधेवासौ सहिष्णु: पितराविव ॥ २२ ॥

Text 23

पितामहसम: साम्ये प्रसादे गिरिशोपम: ।
आश्रय: सर्वभूतानां यथा देवो रमाश्रय: ॥ २३ ॥

Text 24

सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रत: ।
रन्तिदेव इवोदारो ययातिरिव धार्मिक: ॥ २४ ॥

Text 25

धृत्या बलिसम: कृष्णे प्रह्राद इव सद्ग्रह: ।
आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासक: ॥ २५ ॥

Text 26

राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् ।
निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥ २६ ॥

Text 27

तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् ।
प्रपत्स्यत उपश्रुत्य मुक्तसङ्ग: पदं हरे: ॥ २७ ॥

Text 28

जिज्ञासितात्मयाथार्थ्यो मुनेर्व्याससुतादसौ ।
हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम् ॥ २८ ॥

Text 29

इति राज्ञ उपादिश्य विप्रा जातककोविदा: ।
लब्धापचितय: सर्वे प्रतिजग्मु: स्वकान् गृहान् ॥ २९ ॥

Text 30

स एष लोके विख्यात: परीक्षिदिति यत्प्रभु: ।
पूर्वं द‍ृष्टमनुध्यायन् परीक्षेत नरेष्विह ॥ ३० ॥

Text 31

स राजपुत्रो ववृधे आशु शुक्ल इवोडुप: ।
आपूर्यमाण: पितृभि: काष्ठाभिरिव सोऽन्वहम् ॥ ३१ ॥

Text 32

यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया ।
राजा लब्धधनो दध्यौ नान्यत्र करदण्डयो: ॥ ३२ ॥

Text 33

तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिता: ।
धनं प्रहीणमाजह्रुरुदीच्यां दिशि भूरिश: ॥ ३३ ॥

Text 34

तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिर: ।
वाजिमेधैस्त्रिभिर्भीतो यज्ञै: समयजद्धरिम् ॥ ३४ ॥

Text 35

आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् ।
उवास कतिचिन्मासान् सुहृदां प्रियकाम्यया ॥ ३५ ॥

Text 36

ततो राज्ञाभ्यनुज्ञात: कृष्णया सह बन्धुभि: ।
ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृत: ॥ ३६ ॥

Srimad Bhagavatam | Canto 1 | Chapter 11 | Verses

0

Lord Kṛṣṇa’s Entrance into Dvārakā

Text 1

सूत उवाच
आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान्स्वकान् ।
दध्मौ दरवरं तेषां विषादं शमयन्निव ॥ १ ॥

Text 2

स उच्चकाशे धवलोदरो दरो-
ऽप्युरुक्रमस्याधरशोणशोणिमा ।
दाध्मायमान: करकञ्जसम्पुटे
यथाब्जखण्डे कलहंस उत्स्वन: ॥ २ ॥

Text 3

तमुपश्रुत्य निनदं जगद्भयभयावहम् ।
प्रत्युद्ययु: प्रजा: सर्वा भर्तृदर्शनलालसा: ॥ ३ ॥

Texts 4-5

तत्रोपनीतबलयो रवेर्दीपमिवाद‍ृता: ।
आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥ ४ ॥
प्रीत्युत्फुल्लमुखा: प्रोचुर्हर्षगद्गदया गिरा ।
पितरं सर्वसुहृदमवितारमिवार्भका: ॥ ५ ॥

Text 6

नता: स्म ते नाथ सदाङ्‌घ्रिपङ्कजं
विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम् ।
परायणं क्षेममिहेच्छतां परं
न यत्र काल: प्रभवेत् पर: प्रभु: ॥ ६ ॥

Text 7

भवाय नस्त्वं भव विश्वभावन
त्वमेव माताथ सुहृत्पति: पिता ।
त्वं सद्गुरुर्न: परमं च दैवतं
यस्यानुवृत्त्या कृतिनो बभूविम ॥ ७ ॥

Text 8

अहो सनाथा भवता स्म यद्वयं
त्रैविष्टपानामपि दूरदर्शनम् ।
प्रेमस्मितस्‍निग्धनिरीक्षणाननं
पश्येम रूपं तव सर्वसौभगम् ॥ ८ ॥

Text 9

यर्ह्यम्बुजाक्षापससार भो भवान्
कुरून् मधून् वाथ सुहृद्दिद‍ृक्षया ।
तत्राब्दकोटिप्रतिम: क्षणो भवेद्
रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ ९ ॥

Text 10

कथं वयं नाथ चिरोषिते त्वयि प्रसन्नद‍ृष्टय‍ाखिलतापशोषणम ।
जीवेम ते सुन्दरहासशोभितमपश्यमाना वदनं मनोहरम ।
इति चोदीरिता वाच: प्रजानां भक्तवत्सल ।
श‍ृण्वानोऽनुग्रहं द‍ृष्टय‍ा वितन्वन् प्राविशत् पुरम् ॥ १० ॥

Text 11

मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभि: ।
आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीमिव ॥ ११ ॥

Text 12

सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमै: ।
उद्यानोपवनारामैर्वृतपद्माकरश्रियम् ॥ १२ ॥

Text 13

गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम् ।
चित्रध्वजपताकाग्रैरन्त: प्रतिहतातपाम् ॥ १३ ॥

Text 14

सम्मार्जितमहामार्गरथ्यापणकचत्वराम् ।
सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरै: ॥ १४ ॥

Text 15

द्वारि द्वारि गृहाणां च दध्यक्षतफलेक्षुभि: ।
अलङ्‍कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकै: ॥ १५ ॥

Texts 16-17

निशम्य प्रेष्ठमायान्तं वसुदेवो महामना: ।
अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रम: ॥ १६ ॥
प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुत: ।
प्रहर्षवेगोच्छशितशयनासनभोजना: ॥ १७ ॥

Text 18

वारणेन्द्रं पुरस्कृत्य ब्राह्मणै: ससुमङ्गलै: ।
शङ्खतूर्यनिनादेन ब्रह्मघोषेण चाद‍ृता: ।
प्रत्युज्जग्मू रथैर्हृष्टा: प्रणयागतसाध्वसा: ॥ १८ ॥

Text 19

वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुका: ।
लसत्कुण्डलनिर्भातकपोलवदनश्रिय: ॥ १९ ॥

Text 20

नटनर्तकगन्धर्वा: सूतमागधवन्दिन: ।
गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च ॥ २० ॥

Text 21

भगवांस्तत्र बन्धूनां पौराणामनुवर्तिनाम् ।
यथाविध्युपसङ्गम्य सर्वेषां मानमादधे ॥ २१ ॥

Text 22

प्रह्वाभिवादनाश्लेषकरस्पर्शस्मितेक्षणै: ।
आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभु: ॥ २२ ॥

Text 23

स्वयं च गुरुभिर्विप्रै: सदारै: स्थविरैरपि ।
आशीर्भिर्युज्यमानोऽन्यैर्वन्दिभिश्चाविशत्पुरम् ॥ २३ ॥

Text 24

राजमार्गं गते कृष्णे द्वारकाया: कुलस्त्रिय: ।
हर्म्याण्यारुरुहुर्विप्र तदीक्षणमहोत्सवा: ॥ २४ ॥

Text 25

नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् ।
न वितृप्यन्ति हि द‍ृश: श्रियो धामाङ्गमच्युतम् ॥ २५ ॥

Text 26

श्रियो निवासो यस्योर: पानपात्रं मुखं द‍ृशाम् ।
बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥ २६ ॥

Text 27

सितातपत्रव्यजनैरुपस्कृत:
प्रसूनवर्षैरभिवर्षित: पथि ।
पिशङ्गवासा वनमालया बभौ
घनो यथार्कोडुपचापवैद्युतै: ॥ २७ ॥

Text 28

प्रविष्टस्तु गृहं पित्रो: परिष्वक्त: स्वमातृभि: ।
ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥ २८ ॥

Text 29

ता: पुत्रमङ्कमारोप्य स्‍नेहस्‍नुतपयोधरा: ।
हर्षविह्वलितात्मान: सिषिचुर्नेत्रजैर्जलै: ॥ २९ ॥

Text 30

अथाविशत् स्वभवनं सर्वकाममनुत्तमम् ।
प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥ ३० ॥

Text 31

पत्न्य: पतिं प्रोष्य गृहानुपागतं
विलोक्य सञ्जातमनोमहोत्सवा: ।
उत्तस्थुरारात् सहसासनाशयात्
साकं व्रतैर्व्रीडितलोचनानना: ॥ ३१ ॥

Text 32

तमात्मजैर्द‍ृष्टिभिरन्तरात्मना
दुरन्तभावा: परिरेभिरे पतिम् ।
निरुद्धमप्यास्रवदम्बु नेत्रयो-
र्विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ३२ ॥

Text 33

यद्यप्यसौ पार्श्वगतो रहोगत-
स्तथापि तस्याङ्‌घ्रियुगं नवं नवम् ।
पदे पदे का विरमेत तत्पदा-
च्चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ ३३ ॥

Text 34

एवं नृपाणां क्षितिभारजन्मना-
मक्षौहिणीभि: परिवृत्ततेजसाम् ।
विधाय वैरं श्वसनो यथानलं
मिथो वधेनोपरतो निरायुध: ॥ ३४ ॥

Text 35

स एष नरलोकेऽस्मिन्नवतीर्ण: स्वमायया ।
रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥ ३५ ॥

Text 36

उद्दामभावपिशुनामलवल्गुहास-
व्रीडावलोकनिहतो मदनोऽपि यासाम् ।
सम्मुह्य चापमजहात्प्रमदोत्तमास्ता
यस्येन्द्रियं विमथितुं कुहकैर्न शेकु: ॥ ३६ ॥

Text 37

तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम् ।
आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुध: ॥ ३७ ॥

Text 38

एतदीशनमीशस्य प्रकृतिस्थोऽपि तद्गुणै: ।
न युज्यते सदात्मस्थैर्यथा बुद्धिस्तदाश्रया ॥ ३८ ॥

Text 39

तं मेनिरेऽबला मूढा: स्त्रैणं चानुव्रतं रह: ।
अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ ३९ ॥

Srimad Bhagavatam | Canto 1 | Chapter 10 | Verses

0

Departure of Lord Kṛṣṇa for Dvārakā

Text 1

शौनक उवाच
हत्वा स्वरिक्थस्पृध आततायिनो
युधिष्ठिरो धर्मभृतां वरिष्ठ: ।
सहानुजै: प्रत्यवरुद्धभोजन:
कथं प्रवृत्त: किमकारषीत्तत: ॥ १ ॥

Text 2

सूत उवाच
वंशं कुरोर्वंशदवाग्निनिर्हृतं
संरोहयित्वा भवभावनो हरि: ।
निवेशयित्वा निजराज्य ईश्वरो
युधिष्ठिरं प्रीतमना बभूव ह ॥ २ ॥

Text 3

निशम्य भीष्मोक्तमथाच्युतोक्तं
प्रवृत्तविज्ञानविधूतविभ्रम: ।
शशास गामिन्द्र इवाजिताश्रय:
परिध्युपान्तामनुजानुवर्तित: ॥ ३ ॥

Text 4

कामं ववर्ष पर्जन्य: सर्वकामदुघा मही ।
सिषिचु: स्म व्रजान् गाव: पयसोधस्वतीर्मुदा ॥ ४ ॥

Text 5

नद्य: समुद्रा गिरय: सवनस्पतिवीरुध: ।
फलन्त्योषधय: सर्वा: काममन्वृतु तस्य वै ॥ ५ ॥

Text 6

नाधयो व्याधय: क्लेशा दैवभूतात्महेतव: ।
अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित् ॥ ६ ॥

Text 7

उषित्वा हास्तिनपुरे मासान् कतिपयान् हरि: ।
सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥ ७ ॥

Text 8

आमन्‍त्र्य चाभ्यनुज्ञात: परिष्वज्याभिवाद्य तम् ।
आरुरोह रथं कैश्चित्परिष्वक्तोऽभिवादित: ॥ ८ ॥

Texts 9-10

सुभद्रा द्रौपदी कुन्ती विराटतनया तथा ।
गान्धारी धृतराष्ट्रश्च युयुत्सुर्गौतमो यमौ ॥ ९ ॥
वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादय: ।
न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वन: ॥ १० ॥

Texts 11-12

सत्सङ्गान्मुक्तदु:सङ्गो हातुं नोत्सहते बुध: ।
कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥ ११ ॥
तस्मिन्न्यस्तधिय: पार्था: सहेरन् विरहं कथम् ।
दर्शनस्पर्शसंलापशयनासनभोजनै: ॥ १२ ॥

Text 13

सर्वे तेऽनिमिषैरक्षैस्तमनुद्रुतचेतस: ।
वीक्षन्त: स्‍नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ १३ ॥

Text 14

न्यरुन्धन्नुद्गलद्बाष्पमौत्कण्ठ्याद्देवकीसुते ।
निर्यात्यगारान्नोऽभद्रमिति स्याद्ब‍ान्धवस्त्रिय: ॥ १४ ॥

Text 15

मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखा: ।
धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा ॥ १५ ॥

Text 16

प्रासादशिखरारूढा: कुरुनार्यो दिद‍ृक्षया ।
ववृषु: कुसुमै: कृष्णं प्रेमव्रीडास्मितेक्षणा: ॥ १६ ॥

Text 17

सितातपत्रं जग्राह मुक्तादामविभूषितम् ।
रत्नदण्डं गुडाकेश: प्रिय: प्रियतमस्य ह ॥ १७ ॥

Text 18

उद्धव: सात्यकिश्चैव व्यजने परमाद्भुते ।
विकीर्यमाण: कुसुमै रेजे मधुपति: पथि ॥ १८ ॥

Text 19

अश्रूयन्ताशिष: सत्यास्तत्र तत्र द्विजेरिता: ।
नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मन: ॥ १९ ॥

Text 20

अन्योन्यमासीत्सञ्जल्प उत्तमश्लोकचेतसाम् ।
कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहर: ॥ २० ॥

Text 21

स वै किलायं पुरुष: पुरातनो
य एक आसीदविशेष आत्मनि ।
अग्रे गुणेभ्यो जगदात्मनीश्वरे
निमीलितात्मन्निशि सुप्तशक्तिषु ॥ २१ ॥

Text 22

स एव भूयो निजवीर्यचोदितां
स्वजीवमायां प्रकृतिं सिसृक्षतीम् ।
अनामरूपात्मनि रूपनामनी
विधित्समानोऽनुससार शास्त्रकृत् ॥ २२ ॥

Text 23

स वा अयं यत्पदमत्र सूरयो
जितेन्द्रिया निर्जितमातरिश्वन: ।
पश्यन्ति भक्त्युत्कलितामलात्मना
नन्वेष सत्त्वं परिमार्ष्टुमर्हति ॥ २३ ॥

Text 24

स वा अयं सख्यनुगीतसत्कथो
वेदेषु गुह्येषु च गुह्यवादिभि: ।
य एक ईशो जगदात्मलीलया
सृजत्यवत्यत्ति न तत्र सज्जते ॥ २४ ॥

Text 25

यदा ह्यधर्मेण तमोधियो नृपा
जीवन्ति तत्रैष हि सत्त्वत: किल ।
धत्ते भगं सत्यमृतं दयां यशो
भवाय रूपाणि दधद्युगे युगे ॥ २५ ॥

Text 26

अहो अलं श्लाघ्यतमं यदो: कुल-
महो अलं पुण्यतमं मधोर्वनम् ।
यदेष पुंसामृषभ: श्रिय: पति:
स्वजन्मना चङ्‍क्रमणेन चाञ्चति ॥ २६ ॥

Text 27

अहो बत स्वर्यशसस्तिरस्करी
कुशस्थली पुण्ययशस्करी भुव: ।
पश्यन्ति नित्यं यदनुग्रहेषितं
स्मितावलोकं स्वपतिं स्म यत्प्रजा: ॥ २७ ॥

Text 28

नूनं व्रतस्‍नानहुतादिनेश्वर:
समर्चितो ह्यस्य गृहीतपाणिभि: ।
पिबन्ति या: सख्यधरामृतं मुहु-
र्व्रजस्त्रिय: सम्मुमुहुर्यदाशया: ॥ २८ ॥

Text 29

या वीर्यशुल्केन हृता: स्वयंवरे
प्रमथ्य चैद्यप्रमुखान् हि शुष्मिण: ।
प्रद्युम्नसाम्बाम्बसुतादयोऽपरा
याश्चाहृता भौमवधे सहस्रश: ॥ २९ ॥

Text 30

एता: परं स्त्रीत्वमपास्तपेशलं
निरस्तशौचं बत साधु कुर्वते ।
यासां गृहात्पुष्करलोचन: पति-
र्न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥ ३० ॥

Text 31

एवंविधा गदन्तीनां स गिर: पुरयोषिताम् ।
निरीक्षणेनाभिनन्दन् सस्मितेन ययौ हरि: ॥ ३१ ॥

Text 32

अजातशत्रु: पृतनां गोपीथाय मधुद्विष: ।
परेभ्य: शङ्कित: स्‍नेहात्प्रायुङ्क्त चतुरङ्गिणीम् ॥ ३२ ॥

Text 33

अथ दूरागतान् शौरि: कौरवान् विरहातुरान् ।
सन्निवर्त्य द‍ृढं स्‍निग्धान् प्रायात्स्वनगरीं प्रियै: ॥ ३३ ॥

Texts 34-35

कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् ।
ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतानथ ॥ ३४ ॥
मरुधन्वमतिक्रम्य सौवीराभीरयो: परान् ।
आनर्तान् भार्गवोपागाच्छ्रान्तवाहो मनाग्विभु: ॥ ३५ ॥

Text 36

तत्र तत्र ह तत्रत्यैर्हरि: प्रत्युद्यतार्हण: ।
सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ॥ ३६ ॥

Srimad Bhagavatam | Canto 1 | Chapter 9 | Verses

0

The Passing Away of Bhīṣmadeva in the Presence of Lord Kṛṣṇa

Text 1

सूत उवाच
इति भीत: प्रजाद्रोहात्सर्वधर्मविवित्सया ।
ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत् ॥ १ ॥

Text 2

तदा ते भ्रातर: सर्वे सदश्वै: स्वर्णभूषितै: ।
अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥ २ ॥

Text 3

भगवानपि विप्रर्षे रथेन सधनञ्जय: ।
स तैर्व्यरोचत नृप: कुवेर इव गुह्यकै: ॥ ३ ॥

Text 4

द‍ृष्ट्वा निपतितं भूमौ दिवश्‍च्युतमिवामरम् ।
प्रणेमु: पाण्डवा भीष्मं सानुगा: सह चक्रिणा ॥ ४ ॥

Text 5

तत्र ब्रह्मर्षय: सर्वे देवर्षयश्च सत्तम ।
राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥ ५ ॥

Texts 6-7

पर्वतो नारदो धौम्यो भगवान् बादरायण: ।
बृहदश्वो भरद्वाज: सशिष्यो रेणुकासुत: ॥ ६ ॥
वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदोऽसित: ।
कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शन: ॥ ७ ॥

Text 8

अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमला: ।
शिष्यैरुपेता आजग्मु: कश्यपाङ्गिरसादय: ॥ ८ ॥

Text 9

तान् समेतान् महाभागानुपलभ्य वसूत्तम: ।
पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९ ॥

Text 10

कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् ।
हृदिस्थं पूजयामास माययोपात्तविग्रहम् ॥ १० ॥

Text 11

पाण्डुपुत्रानुपासीनान् प्रश्रयप्रेमसङ्गतान् ।
अभ्याचष्टानुरागाश्रैरन्धीभूतेन चक्षुषा ॥ ११ ॥

Text 12

अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दना: ।
जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रया: ॥ १२ ॥

Text 13

संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधू: ।
युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहु: ॥ १३ ॥

Text 14

सर्वं कालकृतं मन्ये भवतां च यदप्रियम् ।
सपालो यद्वशे लोको वायोरिव घनावलि: ॥ १४ ॥

Text 15

यत्र धर्मसुतो राजा गदापाणिर्वृकोदर: ।
कृष्णोऽस्त्री गाण्डिवं चापं सुहृत्कृष्णस्ततो विपत् ॥ १५ ॥

Text 16

न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम् ।
यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६ ॥

Text 17

तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ ।
तस्यानुविहितोऽनाथा नाथ पाहि प्रजा: प्रभो ॥ १७ ॥

Text 18

एष वै भगवान्साक्षादाद्यो नारायण: पुमान् ।
मोहयन्मायया लोकं गूढश्चरति वृष्णिषु ॥ १८ ॥

Text 19

अस्यानुभावं भगवान् वेद गुह्यतमं शिव: ।
देवर्षिर्नारद: साक्षाद्भगवान् कपिलो नृप ॥ १९ ॥

Text 20

यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।
अकरो: सचिवं दूतं सौहृदादथ सारथिम् ॥ २० ॥

Text 21

सर्वात्मन: समद‍ृशो ह्यद्वयस्यानहङ्‍कृते: ।
तत्कृतं मतिवैषम्यं निरवद्यस्य न क्‍वचित् ॥ २१ ॥

Text 22

तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् ।
यन्मेऽसूंस्त्यजत: साक्षात्कृष्णो दर्शनमागत: ॥ २२ ॥

Text 23

भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् ।
त्यजन् कलेवरं योगी मुच्यते कामकर्मभि: ॥ २३ ॥

Text 24

स देवदेवो भगवान् प्रतीक्षतां
कलेवरं यावदिदं हिनोम्यहम् ।
प्रसन्नहासारुणलोचनोल्लस-
न्मुखाम्बुजो ध्यानपथश्चतुर्भुज: ॥ २४ ॥

Text 25

सूत उवाच
युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे ।
अपृच्छद्विविधान्धर्मानृषीणां चानुश‍ृण्वताम् ॥ २५ ॥

Text 26

पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् ।
वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान् ॥ २६ ॥

Text 27

दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागश: ।
स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगत: ॥ २७ ॥

Text 28

धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने ।
नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् ॥ २८ ॥

Text 29

धर्मं प्रवदतस्तस्य स काल: प्रत्युपस्थित: ।
यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायण: ॥ २९ ॥

Text 30

तदोपसंहृत्य गिर: सहस्रणी-
र्विमुक्तसङ्गं मन आदिपूरुषे ।
कृष्णे लसत्पीतपटे चतुर्भुजे
पुर:स्थितेऽमीलितद‍ृग्व्यधारयत् ॥ ३० ॥

Text 31

विशुद्धया धारणया हताशुभ-
स्तदीक्षयैवाशु गतायुधश्रम: ।
निवृत्तसर्वेन्द्रियवृत्तिविभ्रम-
स्तुष्टाव जन्यं विसृजञ्जनार्दनम् ॥ ३१ ॥

Text 32

श्रीभीष्म उवाच
इति मतिरुपकल्पिता वितृष्णा
भगवति सात्वतपुङ्गवे विभूम्नि ।
स्वसुखमुपगते क्‍वचिद्विहर्तुं
प्रकृतिमुपेयुषि यद्भ‍वप्रवाह: ॥ ३२ ॥

Text 33

त्रिभुवनकमनं तमालवर्णं
रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं
विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३ ॥

Text 34

युधि तुरगरजोविधूम्रविष्वक्-
कचलुलितश्रमवार्यलङ्‍कृतास्ये ।
मम निशितशरैर्विभिद्यमान-
त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४ ॥

Text 35

सपदि सखिवचो निशम्य मध्ये
निजपरयोर्बलयो रथं निवेश्य ।
स्थितवति परसैनिकायुरक्ष्णा
हृतवति पार्थसखे रतिर्ममास्तु ॥ ३५ ॥

Text 36

व्यवहितपृतनामुखं निरीक्ष्य
स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।
कुमतिमहरदात्मविद्यया य-
श्चरणरति: परमस्य तस्य मेऽस्तु ॥ ३६ ॥

Text 37

स्वनिगममपहाय मत्प्रतिज्ञा-
मृतमधिकर्तुमवप्लुतो रथस्थ: ।
धृतरथचरणोऽभ्ययाच्चलद्गु-
र्हरिरिव हन्तुमिभं गतोत्तरीय: ॥ ३७ ॥

Text 38

शितविशिखहतो विशीर्णदंश:
क्षतजपरिप्लुत आततायिनो मे ।
प्रसभमभिससार मद्वधार्थं
स भवतु मे भगवान् गतिर्मुकुन्द: ॥ ३८ ॥

Text 39

विजयरथकुटुम्ब आत्ततोत्रे
धृतहयरश्मिनि तच्छ्रियेक्षणीये ।
भगवति रतिरस्तु मे मुमूर्षो-
र्यमिह निरीक्ष्य हता गता: स्वरूपम् ॥ ३९ ॥

Text 40

ललितगतिविलासवल्गुहास-
प्रणयनिरीक्षणकल्पितोरुमाना: ।
कृतमनुकृतवत्य उन्मदान्धा:
प्रकृतिमगन् किल यस्य गोपवध्व: ॥ ४० ॥

Text 41

मुनिगणनृपवर्यसङ्कुलेऽन्त:
सदसि युधिष्ठिरराजसूय एषाम् ।
अर्हणमुपपेद ईक्षणीयो
मम द‍ृशिगोचर एष आविरात्मा ॥ ४१ ॥

Text 42

तमिममहमजं शरीरभाजां
हृदि हृदि धिष्ठितमात्मकल्पितानाम् ।
प्रतिद‍ृशमिव नैकधार्कमेकं
समधिगतोऽस्मि विधूतभेदमोह: ॥ ४२ ॥

Text 43

सूत उवाच
कृष्ण एवं भगवति मनोवाग्द‍ृष्टिवृत्तिभि: ।
आत्मन्यात्मानमावेश्य सोऽन्त:श्वास उपारमत् ॥ ४३ ॥

Text 44

सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले ।
सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ ४४ ॥

Text 45

तत्र दुन्दुभयो नेदुर्देवमानववादिता: ।
शशंसु: साधवो राज्ञां खात्पेतु: पुष्पवृष्टय: ॥ ४५ ॥

Text 46

तस्य निर्हरणादीनि सम्परेतस्य भार्गव ।
युधिष्ठिर: कारयित्वा मुहूर्तं दु:खितोऽभवत् ॥ ४६ ॥

Text 47

तुष्टुवुर्मुनयो हृष्टा: कृष्णं तद्गुह्यनामभि: ।
ततस्ते कृष्णहृदया: स्वाश्रमान् प्रययु: पुन: ॥ ४७ ॥

Text 48

ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् ।
पितरं सान्‍त्वयामास गान्धारीं च तपस्विनीम् ॥ ४८ ॥

Text 49

पित्रा चानुमतो राजा वासुदेवानुमोदित: ।
चकार राज्यं धर्मेण पितृपैतामहं विभु: ॥ ४९ ॥

Srimad Bhagavatam | Canto 1 | Chapter 8 | Verses

0

Prayers by Queen Kuntī and Parīkṣit Saved

Text 1

सूत उवाच
अथ ते सम्परेतानां स्वानामुदकमिच्छताम् ।
दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययु: स्त्रिय: ॥ १ ॥

Text 2

ते निनीयोदकं सर्वे विलप्य च भृशं पुन: ।
आप्लुता हरिपादाब्जरज:पूतसरिज्जले ॥ २ ॥

Text 3

तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् ।
गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधव: ॥ ३ ॥

Text 4

सान्‍त्वयामास मुनिभिर्हतबन्धूञ्शुचार्पितान् ।
भूतेषु कालस्य गतिं दर्शयन्न प्रतिक्रियाम् ॥ ४ ॥

Text 5

साधयित्वाजातशत्रो: स्वं राज्यं कितवैर्हृतम् ।
घातयित्वासतो राज्ञ: कचस्पर्शक्षतायुष: ॥ ५ ॥

Text 6

याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकै: ।
तद्यश: पावनं दिक्षु शतमन्योरिवातनोत् ॥ ६ ॥

Text 7

आमन्‍त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुत: ।
द्वैपायनादिभिर्विप्रै: पूजितै: प्रतिपूजित: ॥ ७ ॥

Text 8

गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथमास्थित: ।
उपलेभेऽभिधावन्तीमुत्तरां भयविह्वलाम् ॥ ८ ॥

Text 9

उत्तरोवाच
पाहि पाहि महायोगिन् देवदेव जगत्पते ।
नान्यं त्वदभयं पश्ये यत्र मृत्यु: परस्परम् ॥ ९ ॥

Text 10

अभिद्रवति मामीश शरस्तप्तायसो विभो ।
कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ १० ॥

Text 11

सूत उवाच
उपधार्य वचस्तस्या भगवान् भक्तवत्सल: ।
अपाण्डवमिदं कर्तुं द्रौणेरस्त्रमबुध्यत ॥ ११ ॥

Text 12

तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवा: पञ्च सायकान् ।
आत्मनोऽभिमुखान्दीप्तानालक्ष्यास्त्राण्युपाददु: ॥ १२ ॥

Text 13

व्यसनं वीक्ष्य तत्तेषामनन्यविषयात्मनाम् ।
सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभु: ॥ १३ ॥

Text 14

अन्त:स्थ: सर्वभूतानामात्मा योगेश्वरोहरि: ।
स्वमाययावृणोद्गर्भं वैराट्या: कुरुतन्तवे ॥ १४ ॥

Text 15

यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् ।
वैष्णवं तेज आसाद्य समशाम्यद् भृगूद्वह ॥ १५ ॥

Text 16

मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमयेऽच्युते ।
य इदं मायया देव्या सृजत्यवति हन्त्यज: ॥ १६ ॥

Text 17

ब्रह्मतेजोविनिर्मुक्तैरात्मजै: सह कृष्णया ।
प्रयाणाभिमुखं कृष्णमिदमाह पृथा सती ॥ १७ ॥

Text 18

कुन्त्युवाच
नमस्ये पुरुषं त्वाद्यमीश्वरं प्रकृते: परम् ।
अलक्ष्यं सर्वभूतानामन्तर्बहिरवस्थितम् ॥ १८ ॥

Text 19

मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् ।
न लक्ष्यसे मूढद‍ृशा नटो नाट्यधरो यथा ॥ १९ ॥

Text 20

तथा परमहंसानां मुनीनाममलात्मनाम् ।
भक्तियोगविधानार्थं कथं पश्येम हि स्त्रिय: ॥ २० ॥

Text 21

कृष्णाय वासुदेवाय देवकीनन्दनाय च ।
नन्दगोपकुमाराय गोविन्दाय नमो नम: ॥ २१ ॥

Text 22

नम: पङ्कजनाभाय नम: पङ्कजमालिने ।
नम: पङ्कजनेत्राय नमस्ते पङ्कजाङ्‍घ्रये ॥ २२ ॥

Text 23

यथा हृषीकेश खलेन देवकी
कंसेन रुद्धातिचिरं शुचार्पिता ।
विमोचिताहं च सहात्मजा विभो
त्वयैव नाथेन मुहुर्विपद्गणात् ॥ २३ ॥

Text 24

विषान्महाग्ने: पुरुषाददर्शना-
दसत्सभाया वनवासकृच्छ्रत: ।
मृधे मृधेऽनेकमहारथास्त्रतो
द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिता: ॥ २४ ॥

Text 25

विपद: सन्तु ता: शश्वत्तत्र तत्र जगद्गुरो ।
भवतो दर्शनं यत्स्यादपुनर्भवदर्शनम् ॥ २५ ॥

Text 26

जन्मैश्वर्यश्रुतश्रीभिरेधमानमद: पुमान् ।
नैवार्हत्यभिधातुं वै त्वामकिञ्चनगोचरम् ॥ २६ ॥

Text 27

नमोऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये ।
आत्मारामाय शान्ताय कैवल्यपतये नम: ॥ २७ ॥

Text 28

मन्ये त्वां कालमीशानमनादिनिधनं विभुम् ।
समं चरन्तं सर्वत्र भूतानां यन्मिथ: कलि: ॥ २८ ॥

Text 29

न वेद कश्चिद्भगवंश्चिकीर्षितं
तवेहमानस्य नृणां विडम्बनम् ।
न यस्य कश्चिद्दयितोऽस्ति कर्हिचिद्
द्वेष्यश्च यस्मिन् विषमा मतिर्नृणाम् ॥ २९ ॥

Text 30

जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मन: ।
तिर्यङ्‍नृषिषु याद:सु तदत्यन्तविडम्बनम् ॥ ३० ॥

Text 31

गोप्याददे त्वयि कृतागसि दाम तावद्
या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम् ।
वक्त्रं निनीय भयभावनया स्थितस्य
सा मां विमोहयति भीरपि यद्ब‍िभेति ॥ ३१ ॥

Text 32

केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये ।
यदो: प्रियस्यान्ववाये मलयस्येव चन्दनम् ॥ ३२ ॥

Text 33

अपरे वसुदेवस्य देवक्यां याचितोऽभ्यगात् ।
अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥ ३३ ॥

Text 34

भारावतारणायान्ये भुवो नाव इवोदधौ ।
सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थित: ॥ ३४ ॥

Text 35

भवेऽस्मिन् क्लिश्यमानानामविद्याकामकर्मभि: ।
श्रवणस्मरणार्हाणि करिष्यन्निति केचन ॥ ३५ ॥

Text 36

श‍ृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णश:
स्मरन्ति नन्दन्ति तवेहितं जना: ।
त एव पश्यन्त्यचिरेण तावकं
भवप्रवाहोपरमं पदाम्बुजम् ॥ ३६ ॥

Text 37

अप्यद्य नस्त्वं स्वकृतेहित प्रभो
जिहाससि स्वित्सुहृदोऽनुजीविन: ।
येषां न चान्यद्भवत: पदाम्बुजात्
परायणं राजसु योजितांहसाम् ॥ ३७ ॥

Text 38

के वयं नामरूपाभ्यां यदुभि: सह पाण्डवा: ।
भवतोऽदर्शनं यर्हि हृषीकाणामिवेशितु: ॥ ३८ ॥

Text 39

नेयं शोभिष्यते तत्र यथेदानीं गदाधर ।
त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितै: ॥ ३९ ॥

Text 40

इमे जनपदा: स्वृद्धा: सुपक्‍वौषधिवीरुध: ।
वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितै: ॥ ४० ॥

Text 41

अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे ।
स्‍नेहपाशमिमं छिन्धि द‍ृढं पाण्डुषु वृष्णिषु ॥ ४१ ॥

Text 42

त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् ।
रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति ॥ ४२ ॥

Text 43

श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग्
राजन्यवंशदहनानपवर्गवीर्य ।
गोविन्द गोद्विजसुरार्तिहरावतार
योगेश्वराखिलगुरो भगवन्नमस्ते ॥ ४३ ॥

Text 44

सूत उवाच
पृथयेत्थं कलपदै: परिणूताखिलोदय: ।
मन्दं जहास वैकुण्ठो मोहयन्निव मायया ॥ ४४ ॥

Text 45

तां बाढमित्युपामन्‍त्र्य प्रविश्य गजसाह्वयम् ।
स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारित: ॥ ४५ ॥

Text 46

व्यासाद्यैरीश्वरेहाज्ञै: कृष्णेनाद्भुतकर्मणा ।
प्रबोधितोऽपीतिहासैर्नाबुध्यत शुचार्पित: ॥ ४६ ॥

Text 47

आह राजा धर्मसुतश्चिन्तयन् सुहृदां वधम् ।
प्राकृतेनात्मना विप्रा: स्‍नेहमोहवशं गत: ॥ ४७ ॥

Text 48

अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मन: ।
पारक्यस्यैव देहस्य बह्‍व्यो मेऽक्षौहिणीर्हता: ॥ ४८ ॥

Text 49

बालद्विजसुहृन्मित्रपितृभ्रातृगुरुद्रुह: ।
न मे स्यान्निरयान्मोक्षो ह्यपि वर्षायुतायुतै: ॥ ४९ ॥

Text 50

नैनो राज्ञ: प्रजाभर्तुर्धर्मयुद्धे वधो द्विषाम् ।
इति मे न तु बोधाय कल्पते शासनं वच: ॥ ५० ॥

Text 51

स्त्रीणां मद्धतबन्धूनां द्रोहो योऽसाविहोत्थित: ।
कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम् ॥ ५१ ॥

Text 52

यथा पङ्केन पङ्काम्भ: सुरया वा सुराकृतम् ।
भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुमर्हति ॥ ५२ ॥

Srimad Bhagavatam | Canto 1 | Chapter 7 | Verses

0

The Son of Droṇa Punished

Text 1

शौनक उवाच
निर्गते नारदे सूत भगवान् बादरायण: ।
श्रुतवांस्तदभिप्रेतं तत: किमकरोद्विभु: ॥ १ ॥

Text 2

सूत उवाच
ब्रह्मनद्यां सरस्वत्यामाश्रम: पश्चिमे तटे ।
शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धन: ॥ २ ॥

Text 3

तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते ।
आसीनोऽप उपस्पृश्य प्रणिदध्यौ मन: स्वयम् ॥ ३ ॥

Text 4

भक्तियोगेन मनसि सम्यक् प्रणिहितेऽमले ।
अपश्यत्पुरुषं पूर्णं मायां च तदपाश्रयम् ॥ ४ ॥

Text 5

यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् ।
परोऽपि मनुतेऽनर्थं तत्कृतं चाभिपद्यते ॥ ५ ॥

Text 6

अनर्थोपशमं साक्षाद्भक्तियोगमधोक्षजे ।
लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् ॥ ६ ॥

Text 7

यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे ।
भक्तिरुत्पद्यते पुंस: शोकमोहभयापहा ॥ ७ ॥

Text 8

स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् ।
शुकमध्यापयामास निवृत्तिनिरतं मुनि: ॥ ८ ॥

Text 9

शौनक उवाच
स वै निवृत्तिनिरत: सर्वत्रोपेक्षको मुनि: ।
कस्य वा बृहतीमेतामात्माराम: समभ्यसत् ॥ ९ ॥

Text 10

सूत उवाच
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।
कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरि: ॥ १० ॥

Text 11

हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणि: ।
अध्यगान्महदाख्यानं नित्यं विष्णुजनप्रिय: ॥ ११ ॥

Text 12

परीक्षितोऽथ राजर्षेर्जन्मकर्मविलापनम् ।
संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् ॥ १२ ॥

Texts 13-14

यदा मृधे कौरवसृञ्जयानां
वीरेष्वथो वीरगतिं गतेषु ।
वृकोदराविद्धगदाभिमर्श-
भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ १३ ॥
भर्तु: प्रियं द्रौणिरिति स्म पश्यन्
कृष्णासुतानां स्वपतां शिरांसि ।
उपाहरद्विप्रियमेव तस्य
जुगुप्सितं कर्म विगर्हयन्ति ॥ १४ ॥

Text 15

माता शिशूनां निधनं सुतानां
निशम्य घोरं परितप्यमाना ।
तदारुदद्वाष्पकलाकुलाक्षी
तां सान्‍त्वयन्नाह किरीटमाली ॥ १५ ॥

Text 16

तदा शुचस्ते प्रमृजामि भद्रे
यद्ब्रह्मबन्धो: शिर आततायिन: ।
गाण्डीवमुक्तैर्विशिखैरुपाहरे
त्वाक्रम्य यत्‍स्‍नास्यसि दग्धपुत्रा ॥ १६ ॥

Text 17

इति प्रियां वल्गुविचित्रजल्पै:
स सान्‍त्वयित्वाच्युतमित्रसूत: ।
अन्वाद्रवद्दंशित उग्रधन्वा
कपिध्वजो गुरुपुत्रं रथेन ॥ १७ ॥

Text 18

तमापतन्तं स विलक्ष्य दूरात्
कुमारहोद्विग्नमना रथेन ।
पराद्रवत्प्राणपरीप्सुरुर्व्यां
यावद्गमं रुद्रभयाद्यथा क: ॥ १८ ॥

Text 19

यदाशरणमात्मानमैक्षत श्रान्तवाजिनम् ।
अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मज: ॥ १९ ॥

Text 20

अथोपस्पृश्य सलिलं सन्दधे तत्समाहित: ।
अजानन्नपि संहारं प्राणकृच्छ्र उपस्थिते ॥ २० ॥

Text 21

तत: प्रादुष्कृतं तेज: प्रचण्डं सर्वतोदिशम् ।
प्राणापदमभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ २१ ॥

Text 22

अर्जुन उवाच
कृष्ण कृष्ण महाबाहो भक्तानामभयङ्कर ।
त्वमेको दह्यमानानामपवर्गोऽसि संसृते: ॥ २२ ॥

Text 23

त्वमाद्य: पुरुष: साक्षादीश्वर: प्रकृते: पर: ।
मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ २३ ॥

Text 24

स एव जीवलोकस्य मायामोहितचेतस: ।
विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ २४ ॥

Text 25

तथायं चावतारस्ते भुवो भारजिहीर्षया ।
स्वानां चानन्यभावानामनुध्यानाय चासकृत् ॥ २५ ॥

Text 26

किमिदं स्वित्कुतो वेति देवदेव न वेद्‍म्यहम् ।
सर्वतोमुखमायाति तेज: परमदारुणम् ॥ २६ ॥

Text 27

श्रीभगवानुवाच
वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् ।
नैवासौ वेद संहारं प्राणबाध उपस्थिते ॥ २७ ॥

Text 28

न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् ।
जह्यस्त्रतेज उन्नद्धमस्त्रज्ञो ह्यस्त्रतेजसा ॥ २८ ॥

Text 29

सूत उवाच
श्रुत्वा भगवता प्रोक्तं फाल्गुन: परवीरहा ।
स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधे ॥ २९ ॥

Text 30

संहत्यान्योन्यमुभयोस्तेजसी शरसंवृते ।
आवृत्य रोदसी खं च ववृधातेऽर्कवह्निवत् ॥ ३० ॥

Text 31

द‍ृष्ट्वास्त्रतेजस्तु तयोस्त्रील्लोकान् प्रदहन्महत् ।
दह्यमाना: प्रजा: सर्वा: सांवर्तकममंसत ॥ ३१ ॥

Text 32

प्रजोपद्रवमालक्ष्य लोकव्यतिकरं च तम् ।
मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम् ॥ ३२ ॥

Text 33

तत आसाद्य तरसा दारुणं गौतमीसुतम् ।
बबन्धामर्षताम्राक्ष: पशुं रशनया यथा ॥ ३३ ॥

Text 34

शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् ।
प्राहार्जुनं प्रकुपितो भगवानम्बुजेक्षण: ॥ ३४ ॥

Text 35

मैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुमिमं जहि ।
योऽसावनागस: सुप्तानवधीन्निशि बालकान् ॥ ३५ ॥

Text 36

मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् ।
प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ ३६ ॥

Text 37

स्वप्राणान् य: परप्राणै: प्रपुष्णात्यघृण: खल: ।
तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यध: पुमान् ॥ ३७ ॥

Text 38

प्रतिश्रुतं च भवता पाञ्चाल्यै श‍ृण्वतो मम ।
आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥ ३८ ॥

Text 39

तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा ।
भर्तुश्च विप्रियं वीर कृतवान् कुलपांसन: ॥ ३९ ॥

Text 40

सूत उवाच
एवं परीक्षता धर्मं पार्थ: कृष्णेन चोदित: ।
नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥ ४० ॥

Text 41

अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथि: ।
न्यवेदयत्तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥ ४१ ॥

Text 42

तथाहृतं पशुवत् पाशबद्ध-
मवाङ्‍मुखं कर्मजुगुप्सितेन ।
निरीक्ष्य कृष्णापकृतं गुरो: सुतं
वामस्वभावा कृपया ननाम च ॥ ४२ ॥

Text 43

उवाच चासहन्त्यस्य बन्धनानयनं सती ।
मुच्यतां मुच्यतामेष ब्राह्मणो नितरां गुरु: ॥ ४३ ॥

Text 44

सरहस्यो धनुर्वेद: सविसर्गोपसंयम: ।
अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ ४४ ॥

Text 45

स एष भगवान्द्रोण: प्रजारूपेण वर्तते ।
तस्यात्मनोऽर्धं पत्‍न्‍यास्ते नान्वगाद्वीरसू: कृपी ॥ ४५ ॥

Text 46

तद् धर्मज्ञ महाभाग भवद्भ‍िर्गौरवं कुलम् ।
वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यमभीक्ष्णश: ॥ ४६ ॥

Text 47

मा रोदीदस्य जननी गौतमी पतिदेवता ।
यथाहं मृतवत्सार्ता रोदिम्यश्रुमुखी मुहु: ॥ ४७ ॥

Text 48

यै: कोपितं ब्रह्मकुलं राजन्यैरजितात्मभि: ।
तत् कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम् ॥ ४८ ॥

Text 49

सूत उवाच
धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् ।
राजा धर्मसुतो राज्ञ्या: प्रत्यनन्दद्वचो द्विजा: ॥ ४९ ॥

Text 50

नकुल: सहदेवश्च युयुधानो धनञ्जय: ।
भगवान् देवकीपुत्रो ये चान्ये याश्च योषित: ॥ ५० ॥

Text 51

तत्राहामर्षितो भीमस्तस्य श्रेयान् वध: स्मृत: ।
न भर्तुर्नात्मनश्चार्थे योऽहन् सुप्तान् शिशून् वृथा ॥ ५१ ॥

Text 52

निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुज: ।
आलोक्य वदनं सख्युरिदमाहहसन्निव ॥ ५२ ॥

Texts 53-54

श्रीभगवानुवाच
ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हण: ।
मयैवोभयमाम्नातं परिपाह्यनुशासनम् ॥ ५३ ॥
कुरु प्रतिश्रुतं सत्यं यत्तत्सान्‍त्वयता प्रियाम् ।
प्रियं च भीमसेनस्य पाञ्चाल्या मह्यमेव च ॥ ५४ ॥

Text 55

सूत उवाच
अर्जुन: सहसाज्ञाय हरेर्हार्दमथासिना ।
मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥ ५५ ॥

Text 56

विमुच्य रशनाबद्धं बालहत्याहतप्रभम् ।
तेजसा मणिना हीनं शिबिरान्निरयापयत् ॥ ५६ ॥

Text 57

वपनं द्रविणादानं स्थानान्निर्यापणं तथा ।
एष हि ब्रह्मबन्धूनां वधो नान्योऽस्ति दैहिक: ॥ ५७ ॥

Text 58

पुत्रशोकातुरा: सर्वे पाण्डवा: सह कृष्णया ।
स्वानां मृतानां यत्कृत्यं चक्रुर्निर्हरणादिकम् ॥ ५८ ॥

Stay Connected

16,985FansLike
12,500FollowersFollow
61,453SubscribersSubscribe