Srimad Bhagavatam | Canto 9 | Chapter 3 | Verses

0
16

The Marriage of Sukanyā and Cyavana Muni

Text 1

श्रीशुक उवाच
शर्यातिर्मानवो राजा ब्रह्मिष्ठ: सम्बभूव ह ।
यो वा अङ्गिरसां सत्रे द्वितीयमहरूचिवान् ॥ १ ॥

Text 2

सुकन्या नाम तस्यासीत् कन्या कमललोचना ।
तया सार्धं वनगतो ह्यगमच्च्यवनाश्रमम् ॥ २ ॥

Text 3

सा सखीभि: परिवृता विचिन्वन्त्यङ्‌घ्रिपान् वने ।
वल्मीकरन्ध्रे दद‍ृशे खद्योते इव ज्योतिषी ॥ ३ ॥

Text 4

ते दैवचोदिता बाला ज्योतिषी कण्टकेन वै ।
अविध्यन्मुग्धभावेन सुस्रावासृक् ततो बहि: ॥ ४ ॥

Text 5

शकृन्मूत्रनिरोधोऽभूत् सैनिकानां च तत्क्षणात् ।
राजर्षिस्तमुपालक्ष्य पुरुषान् विस्मितोऽब्रवीत् ॥ ५ ॥

Text 6

अप्यभद्रं न युष्माभिर्भार्गवस्य विचेष्टितम् ।
व्यक्तं केनापि नस्तस्य कृतमाश्रमदूषणम् ॥ ६ ॥

Text 7

सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया ।
द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै ॥ ७ ॥

Text 8

दुहितुस्तद् वच: श्रुत्वा शर्यातिर्जातसाध्वस: ।
मुनिं प्रसादयामास वल्मीकान्तर्हितं शनै: ॥ ८ ॥

Text 9

तदभिप्रायमाज्ञाय प्रादाद् दुहितरं मुने: ।
कृच्छ्रान्मुक्तस्तमामन्‍त्र्य पुरं प्रायात् समाहित: ॥ ९ ॥

Text 10

सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् ।
प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभि: ॥ १० ॥

Text 11

कस्यचित् त्वथ कालस्य नासत्यावाश्रमागतौ ।
तौ पूजयित्वा प्रोवाच वयो मे दत्तमीश्वरौ ॥ ११ ॥

Text 12

ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपो: ।
क्रियतां मे वयो रूपं प्रमदानां यदीप्सितम् ॥ १२ ॥

Text 13

बाढमित्यूचतुर्विप्रमभिनन्द्य भिषक्तमौ ।
निमज्जतां भवानस्मिन् ह्रदे सिद्धविनिर्मिते ॥ १३ ॥

Text 14

इत्युक्तो जरया ग्रस्तदेहो धमनिसन्तत: ।
ह्रदं प्रवेशितोऽश्विभ्यां वलीपलितविग्रह: ॥ १४ ॥

Text 15

पुरुषास्त्रय उत्तस्थुरपीव्या वनिताप्रिया: ।
पद्मस्रज: कुण्डलिनस्तुल्यरूपा: सुवासस: ॥ १५ ॥

Text 16

तान् निरीक्ष्य वरारोहा सरूपान् सूर्यवर्चस: ।
अजानती पतिं साध्वी अश्विनौ शरणं ययौ ॥ १६ ॥

Text 17

दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ ।
ऋषिमामन्‍त्र्य ययतुर्विमानेन त्रिविष्टपम् ॥ १७ ॥

Text 18

यक्ष्यमाणोऽथ शर्यातिश्‍च्यवनस्याश्रमं गत: ।
ददर्श दुहितु: पार्श्वे पुरुषं सूर्यवर्चसम् ॥ १८ ॥

Text 19

राजा दुहितरं प्राह कृतपादाभिवन्दनाम् ।
आशिषश्चाप्रयुञ्जानो नातिप्रीतिमना इव ॥ १९ ॥

Text 20

चिकीर्षितं ते किमिदं पतिस्त्वया
प्रलम्भितो लोकनमस्कृतो मुनि: ।
यत् त्वं जराग्रस्तमसत्यसम्मतं
विहाय जारं भजसेऽमुमध्वगम् ॥ २० ॥

Text 21

कथं मतिस्तेऽवगतान्यथा सतां
कुलप्रसूते कुलदूषणं त्विदम् ।
बिभर्षि जारं यदपत्रपा कुलं
पितुश्च भर्तुश्च नयस्यधस्तम: ॥ २१ ॥

Text 22

एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता ।
उवाच तात जामाता तवैष भृगुनन्दन: ॥ २२ ॥

Text 23

शशंस पित्रे तत् सर्वं वयोरूपाभिलम्भनम् ।
विस्मित: परमप्रीतस्तनयां परिषस्वजे ॥ २३ ॥

Text 24

सोमेन याजयन् वीरं ग्रहं सोमस्य चाग्रहीत् ।
असोमपोरप्यश्विनोश्‍च्यवन: स्वेन तेजसा ॥ २४ ॥

Text 25

हन्तुं तमाददे वज्रं सद्योमन्युरमर्षित: ।
सवज्रं स्तम्भयामास भुजमिन्द्रस्य भार्गव: ॥ २५ ॥

Text 26

अन्वजानंस्तत: सर्वे ग्रहं सोमस्य चाश्विनो: ।
भिषजाविति यत् पूर्वं सोमाहुत्या बहिष्कृतौ ॥ २६ ॥

Text 27

उत्तानबर्हिरानर्तो भूरिषेण इति त्रय: ।
शर्यातेरभवन् पुत्रा आनर्ताद् रेवतोऽभवत् ॥ २७ ॥

Text 28

सोऽन्त:समुद्रे नगरीं विनिर्माय कुशस्थलीम् ।
आस्थितोऽभुङ्क्त विषयानानर्तादीनरिन्दम ।
तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् ॥ २८ ॥

Text 29

ककुद्मी रेवतीं कन्यां स्वामादाय विभुं गत: ।
पुत्र्यावरं परिप्रष्टुं ब्रह्मलोकमपावृतम् ॥ २९ ॥

Text 30

आवर्तमाने गान्धर्वे स्थितोऽलब्धक्षण: क्षणम् ।
तदन्त आद्यमानम्य स्वाभिप्रायं न्यवेदयत् ॥ ३० ॥

Text 31

तच्छ्रुत्वा भगवान् ब्रह्मा प्रहस्य तमुवाच ह ।
अहो राजन् निरुद्धास्ते कालेन हृदि ये कृता: ॥ ३१ ॥

Text 32

तत्पुत्रपौत्रनप्तृणां गोत्राणि च न श‍ृण्महे ।
कालोऽभियातस्त्रिणवचतुर्युगविकल्पित: ॥ ३२ ॥

Text 33

तद् गच्छ देवदेवांशो बलदेवो महाबल: ।
कन्यारत्नमिदं राजन् नररत्नाय देहि भो: ॥ ३३ ॥

Text 34

भुवो भारावताराय भगवान् भूतभावन: ।
अवतीर्णो निजांशेन पुण्यश्रवणकीर्तन: ॥ ३४ ॥

Text 35

इत्यादिष्टोऽभिवन्द्याजं नृप: स्वपुरमागत: ।
त्यक्तं पुण्यजनत्रासाद् भ्रातृभिर्दिक्ष्ववस्थितै: ॥ ३५ ॥

Text 36

सुतां दत्त्वानवद्याङ्गीं बलाय बलशालिने ।
बदर्याख्यं गतो राजा तप्तुं नारायणाश्रमम् ॥ ३६ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here