Prahlāda, the Best Among Exalted Devotees
Text 1
श्रीनारद उवाच
भक्तियोगस्य तत्सर्वमन्तरायतयार्भक: ।
मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥ १ ॥
Text 2
श्रीप्रह्राद उवाच
मा मां प्रलोभयोत्पत्त्या सक्तं कामेषु तैर्वरै: ।
तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रित: ॥ २ ॥
Text 3
भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् ।
भवान् संसारबीजेषु हृदयग्रन्थिषु प्रभो ॥ ३ ॥
Text 4
नान्यथा तेऽखिलगुरो घटेत करुणात्मन: ।
यस्त आशिष आशास्ते न स भृत्य: स वै वणिक् ॥ ४ ॥
Text 5
आशासानो न वै भृत्य: स्वामिन्याशिष आत्मन: ।
न स्वामी भृत्यत: स्वाम्यमिच्छन्यो राति चाशिष: ॥ ५ ॥
Text 6
अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रय: ।
नान्यथेहावयोरर्थो राजसेवकयोरिव ॥ ६ ॥
Text 7
यदि दास्यसि मे कामान्वरांस्त्वं वरदर्षभ ।
कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् ॥ ७ ॥
Text 8
इन्द्रियाणि मन: प्राण आत्मा धर्मो धृतिर्मति: ।
ह्री: श्रीस्तेज: स्मृति: सत्यं यस्य नश्यन्ति जन्मना ॥ ८ ॥
Text 9
विमुञ्चति यदा कामान्मानवो मनसि स्थितान् ।
तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥ ९ ॥
Text 10
ॐ नमो भगवते तुभ्यं पुरुषाय महात्मने ।
हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने ॥ १० ॥
Text 11
श्रीभगवानुवाच
नैकान्तिनो मे मयि जात्विहाशिष
आशासतेऽमुत्र च ये भवद्विधा: ।
तथापि मन्वन्तरमेतदत्र
दैत्येश्वराणामनुभुङ्क्ष्व भोगान् ॥ ११ ॥
Text 12
कथा मदीया जुषमाण: प्रियास्त्व-
मावेश्य मामात्मनि सन्तमेकम् ।
सर्वेषु भूतेष्वधियज्ञमीशं
यजस्व योगेन च कर्म हिन्वन् ॥ १२ ॥
Text 13
भोगेन पुण्यं कुशलेन पापं
कलेवरं कालजवेन हित्वा ।
कीर्तिं विशुद्धां सुरलोकगीतां
विताय मामेष्यसि मुक्तबन्ध: ॥ १३ ॥
Text 14
य एतत्कीर्तयेन्मह्यं त्वया गीतमिदं नर: ।
त्वां च मां च स्मरन्काले कर्मबन्धात्प्रमुच्यते ॥ १४ ॥
Texts 15-17
श्रीप्रह्राद उवाच
वरं वरय एतत्ते वरदेशान्महेश्वर ।
यदनिन्दत्पिता मे त्वामविद्वांस्तेज ऐश्वरम् ॥ १५ ॥
विद्धामर्षाशय: साक्षात्सर्वलोकगुरुं प्रभुम् ।
भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् ॥ १६ ॥
तस्मात्पिता मे पूयेत दुरन्ताद् दुस्तरादघात् ।
पूतस्तेऽपाङ्गसंदृष्टस्तदा कृपणवत्सल ॥ १७ ॥
Text 18
श्रीभगवानुवाच
त्रि:सप्तभि: पिता पूत: पितृभि: सह तेऽनघ ।
यत्साधोऽस्य कुले जातो भवान्वै कुलपावन: ॥ १८ ॥
Text 19
यत्र यत्र च मद्भक्ता: प्रशान्ता: समदर्शिन: ।
साधव: समुदाचारास्ते पूयन्तेऽपि कीकटा: ॥ १९ ॥
Text 20
सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन ।
उच्चावचेषु दैत्येन्द्र मद्भावविगतस्पृहा: ॥ २० ॥
Text 21
भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रता: ।
भवान्मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥ २१ ॥
Text 22
कुरु त्वं प्रेतकृत्यानि पितु: पूतस्य सर्वश: ।
मदङ्गस्पर्शनेनाङ्ग लोकान्यास्यति सुप्रजा: ॥ २२ ॥
Text 23
पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभि: ।
मय्यावेश्य मनस्तात कुरु कर्माणि मत्पर: ॥ २३ ॥
Text 24
श्रीनारद उवाच
प्रह्रादोऽपि तथा चक्रे पितुर्यत्साम्परायिकम् ।
यथाह भगवान् राजन्नभिषिक्तो द्विजातिभि: ॥ २४ ॥
Text 25
प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् ।
स्तुत्वा वाग्भि: पवित्राभि: प्राह देवादिभिर्वृत: ॥ २५ ॥
Text 26
श्रीब्रह्मोवाच
देवदेवाखिलाध्यक्ष भूतभावन पूर्वज ।
दिष्टया ते निहत: पापो लोकसन्तापनोऽसुर: ॥ २६ ॥
Text 27
योऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभि: ।
तपोयोगबलोन्नद्ध: समस्तनिगमानहन् ॥ २७ ॥
Text 28
दिष्टया तत्तनय: साधुर्महाभागवतोऽर्भक: ।
त्वया विमोचितो मृत्योर्दिष्टया त्वां समितोऽधुना ॥ २८ ॥
Text 29
एतद् वपुस्ते भगवन्ध्यायत: परमात्मन: ।
सर्वतो गोप्तृ सन्त्रासान्मृत्योरपि जिघांसत: ॥ २९ ॥
Text 30
श्रीभगवानुवाच
मैवं विभोऽसुराणां ते प्रदेय: पद्मसम्भव ।
वर: क्रूरनिसर्गाणामहीनाममृतं यथा ॥ ३० ॥
Text 31
श्रीनारद उवाच
इत्युक्त्वा भगवान् राजंस्ततश्चान्तर्दधे हरि: ।
अदृश्य: सर्वभूतानां पूजित: परमेष्ठिना ॥ ३१ ॥
Text 32
तत: सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् ।
भवं प्रजापतीन्देवान्प्रह्रादो भगवत्कला: ॥ ३२ ॥
Text 33
तत: काव्यादिभि: सार्धं मुनिभि: कमलासन: ।
दैत्यानां दानवानां च प्रह्रादमकरोत्पतिम् ॥ ३३ ॥
Text 34
प्रतिनन्द्य ततो देवा: प्रयुज्य परमाशिष: ।
स्वधामानि ययू राजन्ब्रह्माद्या: प्रतिपूजिता: ॥ ३४ ॥
Text 35
एवं च पार्षदौ विष्णो: पुत्रत्वं प्रापितौ दिते: ।
हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ॥ ३५ ॥
Text 36
पुनश्च विप्रशापेन राक्षसौ तौ बभूवतु: ।
कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमै: ॥ ३६ ॥
Text 37
शयानौ युधि निर्भिन्नहृदयौ रामशायकै: ।
तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि ॥ ३७ ॥
Text 38
ताविहाथ पुनर्जातौ शिशुपालकरूषजौ ।
हरौ वैरानुबन्धेन पश्यतस्ते समीयतु: ॥ ३८ ॥
Text 39
एन: पूर्वकृतं यत् तद् राजान: कृष्णवैरिण: ।
जहुस्तेऽन्ते तदात्मान: कीट: पेशस्कृतो यथा ॥ ३९ ॥
Text 40
यथा यथा भगवतो भक्त्या परमयाभिदा ।
नृपाश्चैद्यादय: सात्म्यं हरेस्तच्चिन्तया ययु: ॥ ४० ॥
Text 41
आख्यातं सर्वमेतत्ते यन्मां त्वं परिपृष्टवान् ।
दमघोषसुतादीनां हरे: सात्म्यमपि द्विषाम् ॥ ४१ ॥
Text 42
एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मन: ।
अवतारकथा पुण्या वधो यत्रादिदैत्ययो: ॥ ४२ ॥
Texts 43-44
प्रह्रादस्यानुचरितं महाभागवतस्य च ।
भक्तिर्ज्ञानं विरक्तिश्च याथार्थ्यं चास्य वै हरे: ॥ ४३ ॥
सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् ।
परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥ ४४ ॥
Text 45
धर्मो भागवतानां च भगवान्येन गम्यते ।
आख्यानेऽस्मिन्समाम्नातमाध्यात्मिकमशेषत: ॥ ४५ ॥
Text 46
य एतत्पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम् ।
कीर्तयेच्छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते ॥ ४६ ॥
Text 47
एतद्य आदिपुरुषस्य मृगेन्द्रलीलां
दैत्येन्द्रयूथपवधं प्रयत: पठेत ।
दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं
श्रुत्वानुभावमकुतोभयमेति लोकम् ॥ ४७ ॥
Text 48
यूयं नृलोके बत भूरिभागा
लोकं पुनाना मुनयोऽभियन्ति ।
येषां गृहानावसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्यलिङ्गम् ॥ ४८ ॥
Text 49
स वा अयं ब्रह्म महद्विमृग्य-
कैवल्यनिर्वाणसुखानुभूति: ।
प्रिय: सुहृद् व: खलु मातुलेय
आत्मार्हणीयो विधिकृद्गुरुश्च ॥ ४९ ॥
Text 50
न यस्य साक्षाद्भवपद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम् ।
मौनेन भक्त्योपशमेन पूजित:
प्रसीदतामेष स सात्वतां पति: ॥ ५० ॥
Text 51
स एष भगवान् राजन्व्यतनोद्विहतं यश: ।
पुरा रुद्रस्य देवस्य मयेनानन्तमायिना ॥ ५१ ॥
Text 52
राजोवाच
कस्मिन्कर्मणि देवस्य मयोऽहञ्जगदीशितु: ।
यथा चोपचिता कीर्ति: कृष्णेनानेन कथ्यताम् ॥ ५२ ॥
Text 53
श्रीनारद उवाच
निर्जिता असुरा देवैर्युध्यनेनोपबृंहितै: ।
मायिनां परमाचार्यं मयं शरणमाययु: ॥ ५३ ॥
Texts 54-55
स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभु: ।
दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदा: ॥ ५४ ॥
ताभिस्तेऽसुरसेनान्यो लोकांस्त्रीन् सेश्वरान्नृप ।
स्मरन्तो नाशयां चक्रु: पूर्ववैरमलक्षिता: ॥ ५५ ॥
Text 56
ततस्ते सेश्वरा लोका उपासाद्येश्वरं नता: ।
त्राहि नस्तावकान्देव विनष्टांस्त्रिपुरालयै: ॥ ५६ ॥
Text 57
अथानुगृह्य भगवान्मा भैष्टेति सुरान्विभु: ।
शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत ॥ ५७ ॥
Text 58
ततोऽग्निवर्णा इषव उत्पेतु: सूर्यमण्डलात् ।
यथा मयूखसन्दोहा नादृश्यन्त पुरो यत: ॥ ५८ ॥
Text 59
तै: स्पृष्टा व्यसव: सर्वे निपेतु: स्म पुरौकस: ।
तानानीय महायोगी मय: कूपरसेऽक्षिपत् ॥ ५९ ॥
Text 60
सिद्धामृतरसस्पृष्टा वज्रसारा महौजस: ।
उत्तस्थुर्मेघदलना वैद्युता इव वह्नय: ॥ ६० ॥
Text 61
विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् ।
तदायं भगवान्विष्णुस्तत्रोपायमकल्पयत् ॥ ६१ ॥
Text 62
वत्सश्चासीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौ: ।
प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥ ६२ ॥
Text 63
तेऽसुरा ह्यपि पश्यन्तो न न्यषेधन्विमोहिता: ।
तद्विज्ञाय महायोगी रसपालानिदं जगौ ।
स्मयन्विशोक: शोकार्तान्स्मरन्दैवगतिं च ताम् ॥ ६३ ॥
Text 64
देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ।
आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयो: ॥ ६४ ॥
Texts 65-66
अथासौ शक्तिभि: स्वाभि: शम्भो: प्राधानिकं व्यधात् ।
धर्मज्ञानविरक्त्यृद्धितपोविद्याक्रियादिभि: ॥ ६५ ॥
रथं सूतं ध्वजं वाहान्धनुर्वर्मशरादि यत् ।
सन्नद्धो रथमास्थाय शरं धनुरुपाददे ॥ ६६ ॥
Text 67
शरं धनुषि सन्धाय मुहूर्तेऽभिजितीश्वर: ।
ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप ॥ ६७ ॥
Text 68
दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुला: ।
देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करै: ।
अवाकिरञ्जगुर्हृष्टा ननृतुश्चाप्सरोगणा: ॥ ६८ ॥
Text 69
एवं दग्ध्वा पुरस्तिस्रो भगवान्पुरहा नृप ।
ब्रह्मादिभि: स्तूयमान: स्वं धाम प्रत्यपद्यत ॥ ६९ ॥
Text 70
एवं विधान्यस्य हरे: स्वमायया
विडम्बमानस्य नृलोकमात्मन: ।
वीर्याणि गीतान्यृषिभिर्जगद्गुरो-
र्लोकं पुनानान्यपरं वदामि किम् ॥ ७० ॥



