Srimad Bhagavatam | Canto 7 | Chapter 9 | Verses

0
3

Prahlāda Pacifies Lord Nṛsiṁhadeva with Prayers

Text 1

श्रीनारद उवाच
एवं सुरादय: सर्वे ब्रह्मरुद्रपुर: सरा: ।
नोपैतुमशकन्मन्युसंरम्भं सुदुरासदम् ॥ १ ॥

Text 2

साक्षात् श्री: प्रेषिता देवैर्द‍ृष्ट्वा तं महदद्भ‍ुतम् ।
अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता ॥ २ ॥

Text 3

प्रह्रादं प्रेषयामास ब्रह्मावस्थितमन्तिके ।
तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥ ३ ॥

Text 4

तथेति शनकै राजन्महाभागवतोऽर्भक: ।
उपेत्य भुवि कायेन ननाम विधृताञ्जलि: ॥ ४ ॥

Text 5

स्वपादमूले पतितं तमर्भकं
विलोक्य देव: कृपया परिप्लुत: ।
उत्थाप्य तच्छीर्ष्ण्यदधात्कराम्बुजं
कालाहिवित्रस्तधियां कृताभयम् ॥ ५ ॥

Text 6

स तत्करस्पर्शधुताखिलाशुभ:
सपद्यभिव्यक्तपरात्मदर्शन: ।
तत्पादपद्मं हृदि निर्वृतो दधौ
हृष्यत्तनु: क्लिन्नहृदश्रुलोचन: ॥ ६ ॥

Text 7

अस्तौषीद्धरिमेकाग्रमनसा सुसमाहित: ।
प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्षण: ॥ ७ ॥

Text 8

श्रीप्रह्राद उवाच
ब्रह्मादय: सुरगणा मुनयोऽथ सिद्धा:
सत्त्वैकतानगतयो वचसां प्रवाहै: ।
नाराधितुं पुरुगुणैरधुनापि पिप्रु:
किं तोष्टुमर्हति स मे हरिरुग्रजाते: ॥ ८ ॥

Text 9

मन्ये धनाभिजनरूपतप:श्रुतौज-
स्तेज:प्रभावबलपौरुषबुद्धियोगा: ।
नाराधनाय हि भवन्ति परस्य पुंसो
भक्त्या तुतोष भगवान्गजयूथपाय ॥ ९ ॥

Text 10

विप्राद् द्विषड्‌गुणयुतादरविन्दनाभ-
पादारविन्दविमुखात् श्वपचं वरिष्ठम् ।
मन्ये तदर्पितमनोवचनेहितार्थ-
प्राणं पुनाति स कुलं न तु भूरिमान: ॥ १० ॥

Text 11

नैवात्मन: प्रभुरयं निजलाभपूर्णो
मानं जनादविदुष: करुणो वृणीते ।
यद् यज्जनो भगवते विदधीत मानं
तच्चात्मने प्रतिमुखस्य यथा मुखश्री: ॥ ११ ॥

Text 12

तस्मादहं विगतविक्लव ईश्वरस्य
सर्वात्मना महि गृणामि यथा मनीषम् ।
नीचोऽजया गुणविसर्गमनुप्रविष्ट:
पूयेत येन हि पुमाननुवर्णितेन ॥ १२ ॥

Text 13

सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो
ब्रह्मादयो वयमिवेश न चोद्विजन्त: ।
क्षेमाय भूतय उतात्मसुखाय चास्य
विक्रीडितं भगवतो रुचिरावतारै: ॥ १३ ॥

Text 14

तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य
मोदेत साधुरपि वृश्चिकसर्पहत्या ।
लोकाश्च निर्वृतिमिता: प्रतियन्ति सर्वे
रूपं नृसिंह विभयाय जना: स्मरन्ति ॥ १४ ॥

Text 15

नाहं बिभेम्यजित तेऽतिभयानकास्य-
जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् ।
आन्त्रस्रज: क्षतजकेशरशङ्कुकर्णा-
न्निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥ १५ ॥

Text 16

त्रस्तोऽस्म्यहं कृपणवत्सल दु:सहोग्र-
संसारचक्रकदनाद् ग्रसतां प्रणीत: ।
बद्ध: स्वकर्मभिरुशत्तम तेऽङ्‌घ्रिमूलं
प्रीतोऽपवर्गशरणं ह्वयसे कदा नु ॥ १६ ॥

Text 17

यस्मात् प्रियाप्रियवियोगसंयोगजन्म-
शोकाग्निना सकलयोनिषु दह्यमान: ।
दु:खौषधं तदपि दु:खमतद्धियाहं
भूमन्भ्रमामि वद मे तव दास्ययोगम् ॥ १७ ॥

Text 18

सोऽहं प्रियस्य सुहृद: परदेवताया
लीलाकथास्तव नृसिंह विरिञ्चगीता: ।
अञ्जस्तितर्म्यनुगृणन्गुणविप्रमुक्तो
दुर्गाणि ते पदयुगालयहंससङ्ग: ॥ १८ ॥

Text 19

बालस्य नेह शरणं पितरौ नृसिंह
नार्तस्य चागदमुदन्वति मज्जतो नौ: ।
तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्ट-
स्तावद्विभो तनुभृतां त्वदुपेक्षितानाम् ॥ १९ ॥

Text 20

यस्मिन्यतो यर्हि येन च यस्य यस्माद्
यस्मै यथा यदुत यस्त्वपर: परो वा ।
भाव: करोति विकरोति पृथक्स्वभाव:
सञ्चोदितस्तदखिलं भवत: स्वरूपम् ॥ २० ॥

Text 21

माया मन: सृजति कर्ममयं बलीय:
कालेन चोदितगुणानुमतेन पुंस: ।
छन्दोमयं यदजयार्पितषोडशारं
संसारचक्रमज कोऽतितरेत् त्वदन्य: ॥ २१ ॥

Text 22

स त्वं हि नित्यविजितात्मगुण: स्वधाम्ना
कालो वशीकृतविसृज्यविसर्गशक्ति: ।
चक्रे विसृष्टमजयेश्वर षोडशारे
निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् ॥ २२ ॥

Text 23

द‍ृष्टा मया दिवि विभोऽखिलधिष्ण्यपाना-
मायु: श्रियो विभव इच्छति याञ्जनोऽयम् ।
येऽस्मत्पितु: कुपितहासविजृम्भितभ्रू-
विस्फूर्जितेन लुलिता: स तु ते निरस्त: ॥ २३ ॥

Text 24

तस्मादमूस्तनुभृतामहमाशिषोऽज्ञ
आयु: श्रियं विभवमैन्द्रियमाविरिञ्‍च्यात् ।
नेच्छामि ते विलुलितानुरुविक्रमेण
कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥ २४ ॥

Text 25

कुत्राशिष: श्रुतिसुखा मृगतृष्णिरूपा:
क्‍वेदं कलेवरमशेषरुजां विरोह: ।
निर्विद्यते न तु जनो यदपीति विद्वान्
कामानलं मधुलवै: शमयन्दुरापै: ॥ २५ ॥

Text 26

क्व‍ाहं रज:प्रभव ईश तमोऽधिकेऽस्मिन्
जात: सुरेतरकुले क्व‍ तवानुकम्पा ।
न ब्रह्मणो न तु भवस्य न वै रमाया
यन्मेऽर्पित: शिरसि पद्मकर: प्रसाद: ॥ २६ ॥

Text 27

नैषा परावरमतिर्भवतो ननु स्या-
ज्जन्तोर्यथात्मसुहृदो जगतस्तथापि ।
संसेवया सुरतरोरिव ते प्रसाद:
सेवानुरूपमुदयो न परावरत्वम् ॥ २७ ॥

Text 28

एवं जनं निपतितं प्रभवाहिकूपे
कामाभिकाममनु य: प्रपतन्प्रसङ्गात् ।
कृत्वात्मसात् सुरर्षिणा भगवन्गृहीत:
सोऽहं कथं नु विसृजे तव भृत्यसेवाम् ॥ २८ ॥

Text 29

मत्प्राणरक्षणमनन्त पितुर्वधश्च
मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् ।
खड्‌गं प्रगृह्य यदवोचदसद्विधित्सु-
स्त्वामीश्वरो मदपरोऽवतु कं हरामि ॥ २९ ॥

Text 30

एकस्त्वमेव जगदेतममुष्य यत्त्व-
माद्यन्तयो: पृथगवस्यसि मध्यतश्च ।
सृष्ट्वा गुणव्यतिकरं निजमाययेदं
नानेव तैरवसितस्तदनुप्रविष्ट: ॥ ३० ॥

Text 31

त्वं वा इदं सदसदीश भवांस्ततोऽन्यो
माया यदात्मपरबुद्धिरियं ह्यपार्था ।
यद्यस्य जन्म निधनं स्थितिरीक्षणं च
तद्वैतदेव वसुकालवदष्टितर्वो: ॥ ३१ ॥

Text 32

न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये
शेषेत्मना निजसुखानुभवो निरीह: ।
योगेन मीलितद‍ृगात्मनिपीतनिद्र-
स्तुर्ये स्थितो न तु तमो न गुणांश्च युङ्‌क्षे ॥ ३२ ॥

Text 33

तस्यैव ते वपुरिदं निजकालशक्त्या
सञ्चोदितप्रकृतिधर्मण आत्मगूढम् ।
अम्भस्यनन्तशयनाद्विरमत्समाधे-
र्नाभेरभूत् स्वकणिकावटवन्महाब्जम् ॥ ३३ ॥

Text 34

तत्सम्भव: कविरतोऽन्यदपश्यमान-
स्त्वां बीजमात्मनि ततं स बहिर्विचिन्त्य ।
नाविन्ददब्दशतमप्सु निमज्जमानो
जातेऽङ्कुरे कथमुहोपलभेत बीजम् ॥ ३४ ॥

Text 35

स त्वात्मयोनिरतिविस्मित आश्रितोऽब्जं
कालेन तीव्रतपसा परिशुद्धभाव: ।
त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं
भूतेन्द्रियाशयमये विततं ददर्श ॥ ३५ ॥

Text 36

एवं सहस्रवदनाङ्‌घ्रिशिर:करोरु-
नासाद्यकर्णनयनाभरणायुधाढ्यम् ।
मायामयं सदुपलक्षितसन्निवेशं
द‍ृष्ट्वा महापुरुषमाप मुदं विरिञ्च: ॥ ३६ ॥

Text 37

तस्मै भवान्हयशिरस्तनुवं हि बिभ्रद्
वेदद्रुहावतिबलौ मधुकैटभाख्यौ ।
हत्वानयच्छ्रुतिगणांश्च रजस्तमश्च
सत्त्वं तव प्रियतमां तनुमामनन्ति ॥ ३७ ॥

Text 38

इत्थं नृतिर्यगृषिदेवझषावतारै-
र्लोकान् विभावयसि हंसि जगत्प्रतीपान् ।
धर्मं महापुरुष पासि युगानुवृत्तं
छन्न: कलौ यदभवस्त्रियुगोऽथ स त्वम् ॥ ३८ ॥

Text 39

नैतन्मनस्तव कथासु विकुण्ठनाथ
सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् ।
कामातुरं हर्षशोकभयैषणार्तं
तस्मिन्कथं तव गतिं विमृशामि दीन: ॥ ३९ ॥

Text 40

जिह्वैकतोऽच्युत विकर्षति मावितृप्ता
शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।
घ्राणोऽन्यतश्चपलद‍ृक् क्व‍ च कर्मशक्ति-
र्बह्व्य: सपत्‍न्य इव गेहपतिं लुनन्ति ॥ ४० ॥

Text 41

एवं स्वकर्मपतितं भववैतरण्या-
मन्योन्यजन्ममरणाशनभीतभीतम् ।
पश्यञ्जनं स्वपरविग्रहवैरमैत्रं
हन्तेति पारचर पीपृहि मूढमद्य ॥ ४१ ॥

Text 42

को न्वत्र तेऽखिलगुरो भगवन्प्रयास
उत्तारणेऽस्य भवसम्भवलोपहेतो: ।
मूढेषु वै महदनुग्रह आर्तबन्धो
किं तेन ते प्रियजनाननुसेवतां न: ॥ ४२ ॥

Text 43

नैवोद्विजे पर दुरत्ययवैतरण्या-
स्त्वद्वीर्यगायनमहामृतमग्नचित्त: ।
शोचे ततो विमुखचेतस इन्द्रियार्थ
मायासुखाय भरमुद्वहतो विमूढान् ॥ ४३ ॥

Text 44

प्रायेण देव मुनय: स्वविमुक्तिकामा
मौनं चरन्ति विजने न परार्थनिष्ठा: ।
नैतान्विहाय कृपणान्विमुमुक्ष एको
नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ॥ ४४ ॥

Text 45

यन्मैथुनादिगृहमेधिसुखं हि तुच्छं
कण्डूयनेन करयोरिव दु:खदु:खम् ।
तृप्यन्ति नेह कृपणा बहुदु:खभाज:
कण्डूतिवन्मनसिजं विषहेत धीर: ॥ ४५ ॥

Text 46

मौनव्रतश्रुततपोऽध्ययनस्वधर्म-
व्याख्यारहोजपसमाधय आपवर्ग्या: ।
प्राय: परं पुरुष ते त्वजितेन्द्रियाणां
वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् ॥ ४६ ॥

Text 47

रूपे इमे सदसती तव वेदसृष्टे
बीजाङ्कुराविव न चान्यदरूपकस्य ।
युक्ता: समक्षमुभयत्र विचक्षन्ते त्वां
योगेन वह्निमिव दारुषु नान्यत: स्यात् ॥ ४७ ॥

Text 48

त्वं वायुरग्निरवनिर्वियदम्बु मात्रा:
प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च ।
सर्वं त्वमेव सगुणो विगुणश्च भूमन्
नान्यत् त्वदस्त्यपि मनोवचसा निरुक्तम् ॥ ४८ ॥

Text 49

नैते गुणा न गुणिनो महदादयो ये
सर्वे मन: प्रभृतय: सहदेवमर्त्या: ।
आद्यन्तवन्त उरुगाय विदन्ति हि त्वा-
मेवं विमृश्य सुधियो विरमन्ति शब्दात् ॥ ४९ ॥

Text 50

तत्तेऽर्हत्तम नम: स्तुतिकर्मपूजा:
कर्म स्मृतिश्चरणयो: श्रवणं कथायाम् ।
संसेवया त्वयि विनेति षडङ्गया किं
भक्तिं जन: परमहंसगतौ लभेत ॥ ५० ॥

Text 51

श्रीनारद उवाच
एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुण: ।
प्रह्रादं प्रणतं प्रीतो यतमन्युरभाषत ॥ ५१ ॥

Text 52

श्रीभगवानुवाच
प्रह्राद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम ।
वरं वृणीष्वाभिमतं कामपूरोऽस्म्यहं नृणाम् ॥ ५२ ॥

Text 53

मामप्रीणत आयुष्मन्दर्शनं दुर्लभं हि मे ।
द‍ृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ॥ ५३ ॥

Text 54

प्रीणन्ति ह्यथ मां धीरा: सर्वभावेन साधव: ।
श्रेयस्कामा महाभाग सर्वासामाशिषां पतिम् ॥ ५४ ॥

Text 55

श्रीनारद उवाच
एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनै: ।
एकान्तित्वाद् भगवति नैच्छत्तानसुरोत्तम: ॥ ५५ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here