Srimad Bhagavatam | Canto 7 | Chapter 3 | Verses

0
3

Hiraṇyakaśipu’s Plan to Become Immortal

Text 1

श्रीनारद उवाच
हिरण्यकशिपू राजन्नजेयमजरामरम् ।
आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥ १ ॥

Text 2

स तेपे मन्दरद्रोण्यां तप: परमदारुणम् ।
ऊर्ध्वबाहुर्नभोद‍ृष्टि: पादाङ्गुष्ठाश्रितावनि: ॥ २ ॥

Text 3

जटादीधितिभी रेजे संवर्तार्क इवांशुभि: ।
तस्मिंस्तपस्तप्यमाने देवा: स्थानानि भेजिरे ॥ ३ ॥

Text 4

तस्य मूर्ध्न: समुद्भ‍ूत: सधूमोऽग्निस्तपोमय: ।
तीर्यगूर्ध्वमधोलोकान् प्रातपद्विष्वगीरित: ॥ ४ ॥

Text 5

चुक्षुभुर्नद्युदन्वन्त: सद्वीपाद्रिश्चचाल भू: ।
निपेतु: सग्रहास्तारा जज्वलुश्च दिशो दश ॥ ५ ॥

Text 6

तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययु: सुरा: ।
धात्रे विज्ञापयामासुर्देवदेव जगत्पते ।
दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुम: ॥ ६ ॥

Text 7

तस्य चोपशमं भूमन् विधेहि यदि मन्यसे ।
लोका न यावन्नङ्‌‌क्ष्यन्ति बलिहारास्तवाभिभू: ॥ ७ ॥

Text 8

तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तप: ।
श्रूयतां किं न विदितस्तवाथापि निवेदितम् ॥ ८ ॥

Texts 9-10

सृष्ट्वा चराचरमिदं तपोयोगसमाधिना ।
अध्यास्ते सर्वधिष्ण्येभ्य: परमेष्ठी निजासनम् ॥ ९ ॥
तदहं वर्धमानेन तपोयोगसमाधिना ।
कालात्मनोश्च नित्यत्वात्साधयिष्ये तथात्मन: ॥ १० ॥

Text 11

अन्यथेदं विधास्येऽहमयथा पूर्वमोजसा ।
किमन्यै: कालनिर्धूतै: कल्पान्ते वैष्णवादिभि: ॥ ११ ॥

Text 12

इति शुश्रुम निर्बन्धं तप: परममास्थित: ।
विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर ॥ १२ ॥

Text 13

तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते ।
भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ १३ ॥

Text 14

इति विज्ञापितो देवैर्भगवानात्मभूर्नृप ।
परितो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् ॥ १४ ॥

Texts 15-16

न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकै: ।
पिपीलिकाभिराचीर्णं मेदस्त्वङ्‌मांसशोणितम् ॥ १५ ॥
तपन्तं तपसा लोकान् यथाभ्रापिहितं रविम् ।
विलक्ष्य विस्मित: प्राह हसंस्तं हंसवाहन: ॥ १६ ॥

Text 17

श्रीब्रह्मोवाच
उत्तिष्ठोत्तिष्ठ भद्रं ते तप:सिद्धोऽसि काश्यप ।
वरदोऽहमनुप्राप्तो व्रियतामीप्सितो वर: ॥ १७ ॥

Text 18

अद्राक्षमहमेतं ते हृत्सारं महदद्भ‍ुतम् । दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते ॥ १८ ॥

Text 19

नैतत्पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे ।
निरम्बुर्धारयेत्प्राणान् को वै दिव्यसमा: शतम् ॥ १९ ॥

Text 20

व्यवसायेन तेऽनेन दुष्करेण मनस्विनाम् । तपोनिष्ठेन भवता जितोऽहं दितिनन्दन ॥ २० ॥

Text 21

ततस्त आशिष: सर्वा ददाम्यसुरपुङ्गव ।
मर्तस्य ते ह्यमर्तस्य दर्शनं नाफलं मम ॥ २१ ॥

Text 22

श्रीनारद उवाच
इत्युक्त्वादिभवो देवो भक्षिताङ्गं पिपीलिकै: ।
कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा ॥ २२ ॥

Text 23

स तत्कीचकवल्मीकात् सहओजोबलान्वित: ।
सर्वावयवसम्पन्नो वज्रसंहननो युवा ।
उत्थितस्तप्तहेमाभो विभावसुरिवैधस: ॥ २३ ॥

Text 24

स निरीक्ष्याम्बरे देवं हंसवाहमुपस्थितम् ।
ननाम शिरसा भूमौ तद्दर्शनमहोत्सव: ॥ २४ ॥

Text 25

उत्थाय प्राञ्जलि: प्रह्व ईक्षमाणो द‍ृशा विभुम् ।
हर्षाश्रुपुलकोद्भ‍ेदो गिरा गद्गदयागृणात् ॥ २५ ॥

Texts 26-27

श्रीहिरण्यकशिपुरुवाच
कल्पान्ते कालसृष्टेन योऽन्धेन तमसावृतम् ।
अभिव्यनग्जगदिदं स्वयञ्‍ज्योति: स्वरोचिषा ॥ २६ ॥
आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति ।
रज:सत्त्वतमोधाम्ने पराय महते नम: ॥ २७ ॥

Text 28

नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये ।
प्राणेन्द्रियमनोबुद्धिविकारैर्व्यक्तिमीयुषे ॥ २८ ॥

Text 29

त्वमीशिषे जगतस्तस्थुषश्च
प्राणेन मुख्येन पति: प्रजानाम् ।
चित्तस्य चित्तैर्मनइन्द्रियाणां
पतिर्महान् भूतगुणाशयेश: ॥ २९ ॥

Text 30

त्वं सप्ततन्तून् वितनोषि तन्वा
त्रय्या चतुर्होत्रकविद्यया च ।
त्वमेक आत्मात्मवतामनादि-
रनन्तपार: कविरन्तरात्मा ॥ ३० ॥

Text 31

त्वमेव कालोऽनिमिषो जनाना-
मायुर्लवाद्यवयवै: क्षिणोषि ।
कूटस्थ आत्मा परमेष्ठ्यजो महां-
स्त्वं जीवलोकस्य च जीव आत्मा ॥ ३१ ॥

Text 32

त्वत्त: परं नापरमप्यनेज-
देजच्च किञ्चिद्‌‌व्यतिरिक्तमस्ति ।
विद्या: कलास्ते तनवश्च सर्वा
हिरण्यगर्भोऽसि बृहत्‍त्रिपृष्ठ: ॥ ३२ ॥

Text 33

व्यक्तं विभो स्थूलमिदं शरीरं
येनेन्द्रियप्राणमनोगुणांस्त्वम् ।
भुङ्‌क्षे स्थितो धामनि पारमेष्ठ्ये
अव्यक्त आत्मा पुरुष: पुराण: ॥ ३३ ॥

Text 34

अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् ।
चिदचिच्छक्तियुक्ताय तस्मै भगवते नम: ॥ ३४ ॥

Text 35

यदि दास्यस्यभिमतान् वरान्मे वरदोत्तम ।
भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून्मम प्रभो ॥ ३५ ॥

Text 36

नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधै: ।
न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥ ३६ ॥

Texts 37-38

व्यसुभिर्वासुमद्भ‍िर्वा सुरासुरमहोरगै: ।
अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम् ॥ ३७ ॥
सर्वेषां लोकपालानां महिमानं यथात्मन: ।
तपोयोगप्रभावाणां यन्न रिष्यति कर्हिचित् ॥ ३८ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here