Hiraṇyakaśipu, King of the Demons
Text 1
श्रीनारद उवाच
भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना ।
हिरण्यकशिपू राजन् पर्यतप्यद्रुषा शुचा ॥ १ ॥
Text 2
आह चेदं रुषा पूर्ण: सन्दष्टदशनच्छद: ।
कोपोज्ज्वलद्भ्यां चक्षुर्भ्यां निरीक्षन् धूम्रमम्बरम् ॥ २ ॥
Text 3
करालदंष्ट्रोग्रदृष्टया दुष्प्रेक्ष्यभ्रुकुटीमुख: ।
शूलमुद्यम्य सदसि दानवानिदमब्रवीत् ॥ ३ ॥
Texts 4-5
भो भो दानवदैतेया द्विमूर्धंस्त्र्यक्ष शम्बर ।
शतबाहो हयग्रीव नमुचे पाक इल्वल ॥ ४ ॥
विप्रचित्ते मम वच: पुलोमन् शकुनादय: ।
शृणुतानन्तरं सर्वे क्रियतामाशु मा चिरम् ॥ ५ ॥
Text 6
सपत्नैर्घातित: क्षुद्रैर्भ्राता मे दयित: सुहृत् ।
पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनै: ॥ ६ ॥
Texts 7-8
तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकस: ।
भजन्तं भजमानस्य बालस्येवास्थिरात्मन: ॥ ७ ॥
मच्छूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै ।
असृक्प्रियं तर्पयिष्ये भ्रातरं मे गतव्यथ: ॥ ८ ॥
Text 9
तस्मिन् कूटेऽहिते नष्टे कृत्तमूले वनस्पतौ ।
विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकस: ॥ ९ ॥
Text 10
तावद्यात भुवं यूयं ब्रह्मक्षत्रसमेधिताम् ।
सूदयध्वं तपोयज्ञस्वाध्यायव्रतदानिन: ॥ १० ॥
Text 11
विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममय: पुमान् ।
देवर्षिपितृभूतानां धर्मस्य च परायणम् ॥ ११ ॥
Text 12
यत्र यत्र द्विजा गावो वेदा वर्णाश्रमक्रिया: ।
तं तं जनपदं यात सन्दीपयत वृश्चत ॥ १२ ॥
Text 13
इति ते भर्तृनिर्देशमादाय शिरसादृता: ।
तथा प्रजानां कदनं विदधु: कदनप्रिया: ॥ १३ ॥
Text 14
पुरग्रामव्रजोद्यानक्षेत्रारामाश्रमाकरान् ।
खेटखर्वटघोषांश्च ददहु: पत्तनानि च ॥ १४ ॥
Text 15
केचित्खनित्रैर्बिभिदु: सेतुप्राकारगोपुरान् ।
आजीव्यांश्चिच्छिदुर्वृक्षान् केचित्परशुपाणय: ।
प्रादहन् शरणान्येके प्रजानां ज्वलितोल्मुकै: ॥ १५ ॥
Text 16
एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहु: ।
दिवं देवा: परित्यज्य भुवि चेरुरलक्षिता: ॥ १६ ॥
Text 17
हिरण्यकशिपुर्भ्रातु: सम्परेतस्य दु:खित: ।
कृत्वा कटोदकादीनि भ्रातृपुत्रानसान्त्वयत् ॥ १७ ॥
Texts 18-19
शकुनिं शम्बरं धृष्टिं भूतसन्तापनं वृकम् ।
कालनाभं महानाभं हरिश्मश्रुमथोत्कचम् ॥ १८ ॥
तन्मातरं रुषाभानुं दितिं च जननीं गिरा ।
श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वर ॥ १९ ॥
Text 20
श्रीहिरण्यकशिपुरुवाच
अम्बाम्ब हे वधू: पुत्रा वीरं मार्हथ शोचितुम् ।
रिपोरभिमुखे श्लाघ्य: शूराणां वध ईप्सित: ॥ २० ॥
Text 21
भूतानामिह संवास: प्रपायामिव सुव्रते ।
दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभि: ॥ २१ ॥
Text 22
नित्य आत्माव्यय: शुद्ध: सर्वग: सर्ववित्पर: ।
धत्तेऽसावात्मनो लिङ्गं मायया विसृजन्गुणान् ॥ २२ ॥
Text 23
यथाम्भसा प्रचलता तरवोऽपि चला इव ।
चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भू: ॥ २३ ॥
Text 24
एवं गुणैर्भ्राम्यमाणे मनस्यविकल: पुमान् ।
याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवानिव ॥ २४ ॥
Texts 25-26
एष आत्मविपर्यासो ह्यलिङ्गे लिङ्गभावना ।
एष प्रियाप्रियैर्योगो वियोग: कर्मसंसृति: ॥ २५ ॥
सम्भवश्च विनाशश्च शोकश्च विविध: स्मृत: ।
अविवेकश्च चिन्ता च विवेकास्मृतिरेव च ॥ २६ ॥
Text 27
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यमस्य प्रेतबन्धूनां संवादं तं निबोधत ॥ २७ ॥
Text 28
उशीनरेष्वभूद्राजा सुयज्ञ इति विश्रुत: ।
सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत ॥ २८ ॥
Texts 29-31
विशीर्णरत्नकवचं विभ्रष्टाभरणस्रजम् ।
शरनिर्भिन्नहृदयं शयानमसृगाविलम् ॥ २९ ॥
प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम् ।
रज:कुण्ठमुखाम्भोजं छिन्नायुधभुजं मृधे ॥ ३० ॥
उशीनरेन्द्रं विधिना तथा कृतं
पतिं महिष्य: प्रसमीक्ष्य दु:खिता: ।
हता: स्म नाथेति करैरुरो भृशं
घ्नन्त्यो मुहुस्तत्पदयोरुपापतन् ॥ ३१ ॥
Text 32
रुदत्य उच्चैर्दयिताङ्घ्रिपङ्कजं
सिञ्चन्त्य अस्रै: कुचकुङ्कुमारुणै: ।
विस्रस्तकेशाभरणा: शुचं नृणां
सृजन्त्य आक्रन्दनया विलेपिरे ॥ ३२ ॥
Text 33
अहो विधात्राकरुणेन न: प्रभो
भवान् प्रणीतो दृगगोचरां दशाम् ।
उशीनराणामसि वृत्तिद: पुरा
कृतोऽधुना येन शुचां विवर्धन: ॥ ३३ ॥
Text 34
त्वया कृतज्ञेन वयं महीपते
कथं विना स्याम सुहृत्तमेन ते ।
तत्रानुयानं तव वीर पादयो:
शुश्रूषतीनां दिश यत्र यास्यसि ॥ ३४ ॥
Text 35
एवं विलपतीनां वै परिगृह्य मृतं पतिम् ।
अनिच्छतीनां निर्हारमर्कोऽस्तं सन्न्यवर्तत ॥ ३५ ॥
Text 36
तत्र ह प्रेतबन्धूनामाश्रुत्य परिदेवितम् ।
आह तान् बालको भूत्वा यम: स्वयमुपागत: ॥ ३६ ॥
Text 37
श्रीयम उवाच
अहो अमीषां वयसाधिकानां
विपश्यतां लोकविधिं विमोह: ।
यत्रागतस्तत्र गतं मनुष्यं
स्वयं सधर्मा अपि शोचन्त्यपार्थम् ॥ ३७ ॥
Text 38
अहो वयं धन्यतमा यदत्र
त्यक्ता: पितृभ्यां न विचिन्तयाम: ।
अभक्ष्यमाणा अबला वृकादिभि:
स रक्षिता रक्षति यो हि गर्भे ॥ ३८ ॥
Text 39
य इच्छयेश: सृजतीदमव्ययो
य एव रक्षत्यवलुम्पते च य: ।
तस्याबला: क्रीडनमाहुरीशितु-
श्चराचरं निग्रहसङ्ग्रहे प्रभु: ॥ ३९ ॥
Text 40
पथि च्युतं तिष्ठति दिष्टरक्षितं
गृहे स्थितं तद्विहतं विनश्यति ।
जीवत्यनाथोऽपि तदीक्षितो वने
गृहेऽभिगुप्तोऽस्य हतो न जीवति ॥ ४० ॥
Text 41
भूतानि तैस्तैर्निजयोनिकर्मभि-
र्भवन्ति काले न भवन्ति सर्वश: ।
न तत्र हात्मा प्रकृतावपि स्थित-
स्तस्या गुणैरन्यतमो हि बध्यते ॥ ४१ ॥
Text 42
इदं शरीरं पुरुषस्य मोहजं
यथा पृथग्भौतिकमीयते गृहम् ।
यथौदकै: पार्थिवतैजसैर्जन:
कालेन जातो विकृतो विनश्यति ॥ ४२ ॥
Text 43
यथानलो दारुषु भिन्न ईयते
यथानिलो देहगत: पृथक् स्थित: ।
यथा नभ: सर्वगतं न सज्जते
तथा पुमान् सर्वगुणाश्रय: पर: ॥ ४३ ॥
Text 44
सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ ।
य: श्रोता योऽनुवक्तेह स न दृश्येत कर्हिचित् ॥ ४४ ॥
Text 45
न श्रोता नानुवक्तायं मुख्योऽप्यत्र महानसु: ।
यस्त्विहेन्द्रियवानात्मा स चान्य: प्राणदेहयो: ॥ ४५ ॥
Text 46
भूतेन्द्रियमनोलिङ्गान् देहानुच्चावचान् विभु: ।
भजत्युत्सृजति ह्यन्यस्तच्चापि स्वेन तेजसा ॥ ४६ ॥
Text 47
यावल्लिङ्गान्वितो ह्यात्मा तावत्कर्मनिबन्धनम् ।
ततो विपर्यय: क्लेशो मायायोगोऽनुवर्तते ॥ ४७ ॥
Text 48
वितथाभिनिवेशोऽयं यद्गुणेष्वर्थदृग्वच: ।
यथा मनोरथ: स्वप्न: सर्वमैन्द्रियकं मृषा ॥ ४८ ॥
Text 49
अथ नित्यमनित्यं वा नेह शोचन्ति तद्विद: ।
नान्यथा शक्यते कर्तुं स्वभाव: शोचतामिति ॥ ४९ ॥
Text 50
लुब्धको विपिने कश्चित्पक्षिणां निर्मितोऽन्तक: ।
वितत्य जालं विदधे तत्र तत्र प्रलोभयन् ॥ ५० ॥
Text 51
कुलिङ्गमिथुनं तत्र विचरत्समदृश्यत ।
तयो: कुलिङ्गी सहसा लुब्धकेन प्रलोभिता ॥ ५१ ॥
Text 52
सासज्जत सिचस्तन्त्र्यां महिष्य: कालयन्त्रिता ।
कुलिङ्गस्तां तथापन्नां निरीक्ष्य भृशदु:खित: ।
स्नेहादकल्प: कृपण: कृपणां पर्यदेवयत् ॥ ५२ ॥
Text 53
अहो अकरुणो देव: स्त्रियाकरुणया विभु: ।
कृपणं मामनुशोचन्त्या दीनया किं करिष्यति ॥ ५३ ॥
Text 54
कामं नयतु मां देव: किमर्धेनात्मनो हि मे ।
दीनेन जीवता दु:खमनेन विधुरायुषा ॥ ५४ ॥
Text 55
कथं त्वजातपक्षांस्तान् मातृहीनान् बिभर्म्यहम् ।
मन्दभाग्या: प्रतीक्षन्ते नीडे मे मातरं प्रजा: ॥ ५५ ॥
Text 56
एवं कुलिङ्गं विलपन्तमारात्
प्रियावियोगातुरमश्रुकण्ठम् ।
स एव तं शाकुनिक: शरेण
विव्याध कालप्रहितो विलीन: ॥ ५६ ॥
Text 57
एवं यूयमपश्यन्त्य आत्मापायमबुद्धय: ।
नैनं प्राप्स्यथ शोचन्त्य: पतिं वर्षशतैरपि ॥ ५७ ॥
Text 58
श्रीहिरण्यकशिपुरुवाच
बाल एवं प्रवदति सर्वे विस्मितचेतस: ।
ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम् ॥ ५८ ॥
Text 59
यम एतदुपाख्याय तत्रैवान्तरधीयत ।
ज्ञातयोऽहि सुयज्ञस्य चक्रुर्यत्साम्परायिकम् ॥ ५९ ॥
Text 60
अत: शोचत मा यूयं परं चात्मानमेव वा ।
क आत्मा क: परो वात्र स्वीय: पारक्य एव वा ।
स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम् ॥ ६० ॥
Text 61
श्रीनारद उवाच
इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा ।
पुत्रशोकं क्षणात्त्यक्त्वा तत्त्वे चित्तमधारयत् ॥ ६१ ॥



