Srimad Bhagavatam | Canto 7 | Chapter 1 | Verses

0
3

The Supreme Lord Is Equal to Everyone

Text 1

श्रीराजोवाच
सम: प्रिय: सुहृद्ब्रह्मन् भूतानां भगवान् स्वयम् ।
इन्द्रस्यार्थे कथं दैत्यानवधीद्विषमो यथा ॥ १ ॥

Text 2

न ह्यस्यार्थ: सुरगणै: साक्षान्नि:श्रेयसात्मन: ।
नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि ॥ २ ॥

Text 3

इति न: सुमहाभाग नारायणगुणान् प्रति ।
संशय: सुमहाञ्जातस्तद्भ‍वांश्छेत्तुमर्हति ॥ ३ ॥

Texts 4-5

श्रीऋषिरुवाच
साधु पृष्टं महाराज हरेश्चरितमद्भ‍ुतम् ।
यद् भागवतमाहात्म्यं भगवद्भ‍क्तिवर्धनम् ॥ ४ ॥
गीयते परमं पुण्यमृषिभिर्नारदादिभि: ।
नत्वा कृष्णाय मुनये कथयिष्ये हरे: कथाम् ॥ ५ ॥

Text 6

निर्गुणोऽपि ह्यजोऽव्यक्तो भगवान्प्रकृते: पर: ।
स्वमायागुणमाविश्य बाध्यबाधकतां गत: ॥ ६ ॥

Text 7

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणा: ।
न तेषां युगपद्राजन् ह्रास उल्लास एव वा ॥ ७ ॥

Text 8

जयकाले तु सत्त्वस्य देवर्षीन् रजसोऽसुरान् ।
तमसो यक्षरक्षांसि तत्कालानुगुणोऽभजत् ॥ ८ ॥

Text 9

ज्योतिरादिरिवाभाति सङ्घातान्न विविच्यते ।
विदन्त्यात्मानमात्मस्थं मथित्वा कवयोऽन्तत: ॥ ९ ॥

Text 10

यदा सिसृक्षु: पुर आत्मन: परो
रज: सृजत्येष पृथक् स्वमायया ।
सत्त्वं विचित्रासु रिरंसुरीश्वर:
शयिष्यमाणस्तम ईरयत्यसौ ॥ १० ॥

Text 11

कालं चरन्तं सृजतीश आश्रयं ।
प्रधानपुम्भ्यां नरदेव सत्यकृत् ॥ ११ ॥

Text 12

य एष राजन्नपि काल ईशिता
सत्त्वं सुरानीकमिवैधयत्यत: ।
तत्प्रत्यनीकानसुरान् सुरप्रियो
रजस्तमस्कान् प्रमिणोत्युरुश्रवा: ॥ १२ ॥

Text 13

अत्रैवोदाहृत: पूर्वमितिहास: सुरर्षिणा ।
प्रीत्या महाक्रतौ राजन् पृच्छतेऽजातशत्रवे ॥ १३ ॥

Texts 14-15

द‍ृष्ट्वा महाद्भ‍ुतं राजा राजसूये महाक्रतौ ।
वासुदेवे भगवति सायुज्यं चेदिभूभुज: ॥ १४ ॥
तत्रासीनं सुरऋषिं राजा पाण्डुसुत: क्रतौ ।
पप्रच्छ विस्मितमना मुनीनां श‍ृण्वतामिदम् ॥ १५ ॥

Text 16

श्रीयुधिष्ठिर उवाच
अहो अत्यद्भ‍ुतं ह्येतद्दुर्लभैकान्तिनामपि ।
वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विष: ॥ १६ ॥

Text 17

एतद्वेदितुमिच्छाम: सर्व एव वयं मुने ।
भगवन्निन्दया वेनो द्विजैस्तमसि पातित: ॥ १७ ॥

Text 18

दमघोषसुत: पाप आरभ्य कलभाषणात् ।
सम्प्रत्यमर्षी गोविन्दे दन्तवक्रश्च दुर्मति: ॥ १८ ॥

Text 19

शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् ।
श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तम: ॥ १९ ॥

Text 20

कथं तस्मिन् भगवति दुरवग्राह्यधामनि ।
पश्यतां सर्वलोकानां लयमीयतुरञ्जसा ॥ २० ॥

Text 21

एतद्भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना ।
ब्रूह्येतदद्भ‍ुततमं भगवान्ह्यत्र कारणम् ॥ २१ ॥

Text 22

श्रीबादरायणिरुवाच
राज्ञस्तद्वच आकर्ण्य नारदो भगवानृषि: ।
तुष्ट: प्राह तमाभाष्य श‍ृण्वत्यास्तत्सद: कथा: ॥ २२ ॥

Text 23

श्रीनारद उवाच
निन्दनस्तवसत्कारन्यक्कारार्थं कलेवरम् ।
प्रधानपरयो राजन्नविवेकेन कल्पितम् ॥ २३ ॥

Text 24

हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा ।
वैषम्यमिह भूतानां ममाहमिति पार्थिव ॥ २४ ॥

Text 25

यन्निबद्धोऽभिमानोऽयं तद्वधात्प्राणिनां वध: ।
तथा न यस्य कैवल्यादभिमानोऽखिलात्मन: ।
परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥ २५ ॥

Text 26

तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा ।
स्‍नेहात्कामेन वा युञ्‍ज्यात् कथञ्चिन्नेक्षते पृथक् ॥ २६ ॥

Text 27

यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् ।
न तथा भक्तियोगेन इति मे निश्चिता मति: ॥ २७ ॥

Texts 28-29

कीट: पेशस्कृता रुद्ध: कुड्यायां तमनुस्मरन् ।
संरम्भभययोगेन विन्दते तत्स्वरूपताम् ॥ २८ ॥
एवं कृष्णे भगवति मायामनुज ईश्वरे ।
वैरेण पूतपाप्मानस्तमापुरनुचिन्तया ॥ २९ ॥

Text 30

कामाद् द्वेषाद्भ‍यात्स्‍नेहाद्यथा भक्त्येश्वरे मन: ।
आवेश्य तदघं हित्वा बहवस्तद्गतिं गता: ॥ ३० ॥

Text 31

गोप्य: कामाद्भ‍यात्कंसो द्वेषाच्चैद्यादयो नृपा: ।
सम्बन्धाद् वृष्णय: स्‍नेहाद्यूयं भक्त्या वयं विभो ॥ ३१ ॥

Text 32

कतमोऽपि न वेन: स्यात्पञ्चानां पुरुषं प्रति ।
तस्मात् केनाप्युपायेन मन: कृष्णे निवेशयेत् ॥ ३२ ॥

Text 33

मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पाण्डव ।
पार्षदप्रवरौ विष्णोर्विप्रशापात्पदच्युतौ ॥ ३३ ॥

Text 34

श्रीयुधिष्ठिर उवाच
कीद‍ृश: कस्य वा शापो हरिदासाभिमर्शन: ।
अश्रद्धेय इवाभाति हरेरेकान्तिनां भव: ॥ ३४ ॥

Text 35

देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् ।
देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि ॥ ३५ ॥

Text 36

श्रीनारद उवाच
एकदा ब्रह्मण: पुत्रा विष्णुलोकं यद‍ृच्छया ।
सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् ॥ ३६ ॥

Text 37

पञ्चषड्ढायनार्भाभा: पूर्वेषामपि पूर्वजा: ।
दिग्वासस: शिशून् मत्वा द्वा:स्थौ तान् प्रत्यषेधताम् ॥ ३७ ॥

Text 38

अशपन् कुपिता एवं युवां वासं न चार्हथ: ।
रजस्तमोभ्यां रहिते पादमूले मधुद्विष: ।
पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वत: ॥ ३८ ॥

Text 39

एवं शप्तौ स्वभवनात् पतन्तौ तौ कृपालुभि: ।
प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पताम् ॥ ३९ ॥

Text 40

जज्ञाते तौ दिते: पुत्रौ दैत्यदानववन्दितौ ।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षोऽनुजस्तत: ॥ ४० ॥

Text 41

हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा ।
हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपु: ॥ ४१ ॥

Text 42

हिरण्यकशिपु: पुत्रं प्रह्लादं केशवप्रियम् ।
जिघांसुरकरोन्नाना यातना मृत्युहेतवे ॥ ४२ ॥

Text 43

तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम् ।
भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमै: ॥ ४३ ॥

Text 44

ततस्तौ राक्षसौ जातौ केशिन्यां विश्रव:सुतौ ।
रावण: कुम्भकर्णश्च सर्वलोकोपतापनौ ॥ ४४ ॥

Text 45

तत्रापि राघवो भूत्वा न्यहनच्छापमुक्तये ।
रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात्प्रभो ॥ ४५ ॥

Text 46

तावत्र क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव ।
अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥ ४६ ॥

Text 47

वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम् ।
नीतौ पुनर्हरे: पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥ ४७ ॥

Text 48

श्रीयुधिष्ठिर उवाच
विद्वेषो दयिते पुत्रे कथमासीन्महात्मनि ।
ब्रूहि मे भगवन्येन प्रह्लादस्याच्युतात्मता ॥ ४८ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here