The Battle Between the Demigods and Vṛtrāsura
Text 1
श्रीबादरायणिरुवाच
इन्द्रमेवं समादिश्य भगवान् विश्वभावन: ।
पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरि: ॥ १ ॥
Text 2
तथाभियाचितो देवैर्ऋषिराथर्वणो महान् ।
मोदमान उवाचेदं प्रहसन्निव भारत ॥ २ ॥
Text 3
अपि वृन्दारका यूयं न जानीथ शरीरिणाम् ।
संस्थायां यस्त्वभिद्रोहो दु:सहश्चेतनापह: ॥ ३ ॥
Text 4
जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सित: ।
क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥ ४ ॥
Text 5
श्रीदेवा ऊचु:
किं नु तद् दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् ।
भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ॥ ५ ॥
Text 6
नूनं स्वार्थपरो लोको न वेद परसङ्कटम् ।
यदि वेद न याचेत नेति नाह यदीश्वर: ॥ ६ ॥
Text 7
श्रीऋषिरुवाच
धर्मं व: श्रोतुकामेन यूयं मे प्रत्युदाहृता: ।
एष व: प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम् ॥ ७ ॥
Text 8
योऽध्रुवेणात्मना नाथा न धर्मं न यश: पुमान् ।
ईहेत भूतदयया स शोच्य: स्थावरैरपि ॥ ८ ॥
Text 9
एतावानव्ययो धर्म: पुण्यश्लोकैरुपासित: ।
यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति ॥ ९ ॥
Text 10
अहो दैन्यमहो कष्टं पारक्यै: क्षणभङ्गुरै: ।
यन्नोपकुर्यादस्वार्थैर्मर्त्य: स्वज्ञातिविग्रहै: ॥ १० ॥
Text 11
श्रीबादरायणिरुवाच
एवं कृतव्यवसितो दध्यङ्ङाथर्वणस्तनुम् ।
परे भगवति ब्रह्मण्यात्मानं सन्नयञ्जहौ ॥ ११ ॥
Text 12
यताक्षासुमनोबुद्धिस्तत्त्वदृग् ध्वस्तबन्धन: ।
आस्थित: परमं योगं न देहं बुबुधे गतम् ॥ १२ ॥
Texts 13-14
अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा ।
मुने: शक्तिभिरुत्सिक्तो भगवत्तेजसान्वित: ॥ १३ ॥
वृतो देवगणै: सर्वैर्गजेन्द्रोपर्यशोभत ।
स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव ॥ १४ ॥
Text 15
वृत्रमभ्यद्रवच्छत्रुमसुरानीकयूथपै: ।
पर्यस्तमोजसा
राजन् क्रुद्धो रुद्र इवान्तकम् ॥ १५ ॥
Text 16
तत: सुराणामसुरै रण: परमदारुण: ।
त्रेतामुखे
नर्मदायामभवत्प्रथमे युगे ॥ १६ ॥
Texts 17-18
रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभि: ।
मरुद्भिर्ऋभुभि: साध्यैर्विश्वेदेवैर्मरुत्पतिम् ॥ १७ ॥
दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया ।
नामृष्यन्नसुरा राजन्मृधे वृत्रपुर:सरा: ॥ १८ ॥
Texts 19-22
नमुचि: शम्बरोऽनर्वा द्विमूर्धा ऋषभोऽसुर: ।
हयग्रीव: शङ्कुशिरा विप्रचित्तिरयोमुख: ॥ १९ ॥
पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कल: ।
दैतेया दानवा यक्षा रक्षांसि च सहस्रश: ॥ २० ॥
सुमालिमालिप्रमुखा: कार्तस्वरपरिच्छदा: ।
प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥ २१ ॥
अभ्यर्दयन्नसम्भ्रान्ता: सिंहनादेन दुर्मदा: ।
गदाभि: परिघैर्बाणै: प्रासमुद्गरतोमरै: ॥ २२ ॥
Text 23
शूलै: परश्वधै: खड्गै: शतघ्नीभिर्भुशुण्डिभि: ।
सर्वतोऽवाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान् ॥ २३ ॥
Text 24
न तेऽदृश्यन्त सञ्छन्ना: शरजालै: समन्तत: ।
पुङ्खानुपुङ्खपतितैर्ज्योतींषीव नभोघनै: ॥ २४ ॥
Text 25
न ते शस्त्रास्त्रवर्षौघा ह्यासेदु: सुरसैनिकान् ।
छिन्ना: सिद्धपथे देवैर्लघुहस्तै: सहस्रधा ॥ २५ ॥
Text 26
अथ क्षीणास्त्रशस्त्रौघा गिरिशृङ्गद्रुमोपलै: ।
अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ॥ २६ ॥
Text 27
तानक्षतान् स्वस्तिमतो निशाम्य
शस्त्रास्त्रपूगैरथ वृत्रनाथा: ।
द्रुमैर्दृषद्भिर्विविधाद्रिशृङ्गै
रविक्षतांस्तत्रसुरिन्द्रसैनिकान् ॥ २७ ॥
Text 28
सर्वे प्रयासा अभवन् विमोघा:
कृता: कृता देवगणेषु दैत्यै: ।
कृष्णानुकूलेषु यथा महत्सु
क्षुद्रै: प्रयुक्ता ऊषती रूक्षवाच: ॥ २८ ॥
Text 29
ते स्वप्रयासं वितथं निरीक्ष्य
हरावभक्ता हतयुद्धदर्पा: ।
पलायनायाजिमुखे विसृज्य
पतिं मनस्ते दधुरात्तसारा: ॥ २९ ॥
Text 30
वृत्रोऽसुरांस्ताननुगान् मनस्वी
प्रधावत: प्रेक्ष्य बभाष एतत् ।
पलायितं प्रेक्ष्य बलं च भग्नं
भयेन तीव्रेण विहस्य वीर: ॥ ३० ॥
Text 31
कालोपपन्नां रुचिरां मनस्विनां
जगाद वाचं पुरुषप्रवीर: ।
हे विप्रचित्ते नमुचे पुलोमन्
मयानर्वञ्छम्बर मे शृणुध्वम् ॥ ३१ ॥
Text 32
जातस्य मृत्युर्ध्रुव एव सर्वत:
प्रतिक्रिया यस्य न चेह क्लृप्ता ।
लोको यशश्चाथ ततो यदि ह्यमुं
को नाम मृत्युं न वृणीत युक्तम् ॥ ३२ ॥
Text 33
द्वौ सम्मताविह मृत्यू दुरापौ
यद् ब्रह्मसन्धारणया जितासु: ।
कलेवरं योगरतो विजह्याद्
यदग्रणीर्वीरशयेऽनिवृत्त: ॥ ३३ ॥



