Appearance of the Demon Vṛtrāsura
Text 1
श्रीशुक उवाच
तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत ।
सोमपीथं सुरापीथमन्नादमिति शुश्रुम ॥ १ ॥
Text 2
स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकै: ।
अददद्यस्य पितरो देवा: सप्रश्रयं नृप ॥ २ ॥
Text 3
स एव हि ददौ भागं परोक्षमसुरान् प्रति ।
यजमानोऽवहद् भागं मातृस्नेहवशानुग: ॥ ३ ॥
Text 4
तद्देवहेलनं तस्य धर्मालीकं सुरेश्वर: ।
आलक्ष्य तरसा भीतस्तच्छीर्षाण्यच्छिनद् रुषा ॥ ४ ॥
Text 5
सोमपीथं तु यत्तस्य शिर आसीत् कपिञ्जल: ।
कलविङ्क: सुरापीथमन्नादं यत् स तित्तिरि: ॥ ५ ॥
Text 6
ब्रह्महत्यामञ्जलिना जग्राह
यदपीश्वर: ।
संवत्सरान्ते तदघं भूतानां स
विशुद्धये ।
भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरि: ॥ ६ ॥
Text 7
भूमिस्तुरीयं जग्राह खातपूरवरेण
वै ।
ईरिणं
ब्रह्महत्याया रूपं भूमौ प्रदृश्यते ॥ ७ ॥
Text 8
तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमा: ।
तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते ॥ ८ ॥
Text 9
शश्वत्कामवरेणांहस्तुरीयं जगृहु: स्त्रिय: ।
रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते ॥ ९ ॥
Text 10
द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम् ।
तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् ॥ १० ॥
Text 11
हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे ।
इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम् ॥ ११ ॥
Text 12
अथान्वाहार्यपचनादुत्थितो घोरदर्शन: ।
कृतान्त इव लोकानां युगान्तसमये यथा ॥ १२ ॥
Texts 13-17
विष्वग्विवर्धमानं तमिषुमात्रं दिने दिने ।
दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् ॥ १३ ॥
तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् ॥ १४ ॥
देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी ।
नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् ॥ १५ ॥
दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् ।
लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् ॥ १६ ॥
महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहु: ।
वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥ १७ ॥
Text 18
येनावृता इमे लोकास्तपसा त्वाष्ट्रमूर्तिना ।
स वै वृत्र इति प्रोक्त: पाप: परमदारुण: ॥ १८ ॥
Text 19
तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभा: ।
स्वै: स्वैर्दिव्यास्त्रशस्त्रौघै: सोऽग्रसत्तानि कृत्स्नश: ॥ १९ ॥
Text 20
ततस्ते विस्मिता: सर्वे विषण्णा ग्रस्ततेजस: ।
प्रत्यञ्चमादिपुरुषमुपतस्थु: समाहिता: ॥ २० ॥
Text 21
श्रीदेवा ऊचु:
वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका
ब्रह्मादयो ये वयमुद्विजन्त: ।
हराम यस्मै बलिमन्तकोऽसौ
बिभेति यस्मादरणं ततो न: ॥ २१ ॥
Text 22
अविस्मितं तं परिपूर्णकामं
स्वेनैव लाभेन समं प्रशान्तम् ।
विनोपसर्पत्यपरं हि बालिश:
श्वलाङ्गुलेनातितितर्ति सिन्धुम् ॥ २२ ॥
Text 23
यस्योरुशृङ्गे जगतीं स्वनावं
मनुर्यथाबध्य ततार दुर्गम् ।
स एव नस्त्वाष्ट्रभयाद्दुरन्तात्
त्राताश्रितान्वारिचरोऽपि नूनम् ॥ २३ ॥
Text 24
पुरा स्वयम्भूरपि संयमाम्भ-
स्युदीर्णवातोर्मिरवै: कराले ।
एकोऽरविन्दात् पतितस्ततार
तस्माद् भयाद्येन स नोऽस्तु पार: ॥ २४ ॥
Text 25
य एक ईशो निजमायया न:
ससर्ज येनानुसृजाम
विश्वम् ।
Texts 26-27
यो न: सपत्नैर्भृशमर्द्यमानान्
देवर्षितिर्यङ्नृषु नित्य एव ।
कृतावतारस्तनुभि: स्वमायया
कृत्वात्मसात् पाति युगे युगे च ॥ २६ ॥
तमेव देवं वयमात्मदैवतं
परं प्रधानं पुरुषं विश्वमन्यम् ।
व्रजाम सर्वे शरणं शरण्यं
स्वानां स नो धास्यति शं महात्मा ॥ २७ ॥
Text 28
श्रीशुक उवाच
इति तेषां महाराज सुराणामुपतिष्ठताम् ।
प्रतीच्यां दिश्यभूदावि: शङ्खचक्रगदाधर: ॥ २८ ॥
Texts 29-30
आत्मतुल्यै: षोडशभिर्विना श्रीवत्सकौस्तुभौ ।
पर्युपासितमुन्निद्रशरदम्बुरुहेक्षणम् ॥ २९ ॥
दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवा: ।
दण्डवत् पतिता राजञ्छनैरुत्थाय तुष्टुवु: ॥ ३० ॥
Text 31
श्रीदेवा ऊचु:
नमस्ते यज्ञवीर्याय वयसे उत ते नम: ।
नमस्ते ह्यस्तचक्राय नम: सुपुरुहूतये ॥ ३१ ॥
Text 32
यत्ते गतीनां तिसृणामीशितु: परमं पदम् ।
नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥ ३२ ॥
Text 33
ॐ नमस्तेऽस्तु भगवन्नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकै: परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्घाटिततम:कपाट द्वारे चित्तेऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान् ॥ ३३ ॥
Text 34
दुरवबोध इव तवायं विहारयोगो यदशरणोऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुण: सृजसि पासि हरसि ॥ ३४ ॥
Text 35
अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतित: पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददात्याहोस्विदात्माराम उपशमशील: समञ्जसदर्शन उदास्त इति ह वाव न विदाम: ॥ ३५ ॥
Text 36
न हि विरोध उभयं भगवत्यपरिमितगुणगण ईश्वरेऽनवगाह्यमाहात्म्येऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्त:करणाश्रयदुरवग्रहवादिनां विवादानवसर उपरत समस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् ॥ ३६ ॥
Text 37
Text 38
स एव हि पुन: सर्ववस्तुनि वस्तुस्वरूप: सर्वेश्वर: सकलजगत्कारणकारणभूत: सर्व प्रत्यगात्मत्वात् सर्वगुणाभासोपलक्षित एक एव पर्यवशेषित: ॥ ३८ ॥
Text 39
अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा सकृदवलीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतविषयसुखलेशाभासा: परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनस: कथमु ह वा एते मधुमथन पुन: स्वार्थकुशला ह्यात्मप्रियसुहृद: साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्त: ॥ ३९ ॥
Text 40
त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामुपक्रमसमयोऽयमिति स्वात्ममायया सुरनरमृगमिश्रित जलचराकृतिभिर्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि भगवञ्जहि त्वाष्ट्रमुत यदि मन्यसे ॥ ४० ॥
Text 41
अस्माकं तावकानां तततत नतानां हरे तव चरणनलिनयुगल ध्यानानुबद्धहृदयनिगडानां स्वलिङ्गविवरणेनात्मसात्कृतानामनुकम्पानुरञ्जितविशदरुचिरशिशिरस्मितावलोकेन विगलित मधुरमुख रसामृत कलया चान्तस्तापमनघार्हसि शमयितुम् ॥ ४१ ॥
Text 42
अथ भगवंस्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवत: सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात्परब्रह्मण: परमात्मन: कियानिह वार्थविशेषो विज्ञापनीय: स्याद्विस्फुलिङ्गादिभिरिव हिरण्यरेतस: ॥ ४२ ॥
Text 43
अत एव स्वयं तदुपकल्पयास्माकं भगवत: परमगुरोस्तव चरणशतपलाशच्छायां विविधवृजिन संसारपरिश्रमोपशमनीमुपसृतानां वयं यत्कामेनोपसादिता: ॥ ४३ ॥
Text 44
अथो ईश जहि त्वाष्ट्रं ग्रसन्तं भुवनत्रयम् ।
ग्रस्तानि येन न: कृष्ण तेजांस्यस्त्रायुधानि च ॥ ४४ ॥
Text 45
हंसाय दह्रनिलयाय निरीक्षकाय
कृष्णाय मृष्टयशसे निरुपक्रमाय ।
सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्ता-
वन्ते परीष्टगतये हरये नमस्ते ॥ ४५ ॥
Text 46
श्रीशुक उवाच
अथैवमीडितो राजन् सादरं त्रिदशैर्हरि: ।
स्वमुपस्थानमाकर्ण्य प्राह तानभिनन्दित: ॥ ४६ ॥
Text 47
श्रीभगवानुवाच
प्रीतोऽहं व: सुरश्रेष्ठा मदुपस्थानविद्यया ।
आत्मैश्वर्यस्मृति: पुंसां भक्तिश्चैव यया मयि ॥ ४७ ॥
Text 48
किं दुरापं मयि प्रीते तथापि विबुधर्षभा: ।
मय्येकान्तमतिर्नान्यन्मत्तो वाञ्छति तत्त्ववित् ॥ ४८ ॥
Text 49
न वेद कृपण: श्रेय आत्मनो गुणवस्तुदृक् ।
तस्य तानिच्छतो यच्छेद्यदि सोऽपि तथाविध: ॥ ४९ ॥
Text 50
स्वयं नि:श्रेयसं विद्वान् न वक्त्यज्ञाय कर्म हि ।
न राति रोगिणोऽपथ्यं वाञ्छतोऽपि भिषक्तम: ॥ ५० ॥
Text 51
मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् ।
विद्याव्रततप:सारं गात्रं याचत मा चिरम् ॥ ५१ ॥ H
Text 52
स वा अधिगतो दध्यङ्ङश्विभ्यां ब्रह्म निष्कलम् ।
यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् ॥ ५२ ॥
Text 53
दध्यङ्ङाथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् ।
विश्वरूपाय यत्प्रादात् त्वष्टा यत्त्वमधास्तत: ॥ ५३ ॥
Text 54
युष्मभ्यं याचितोऽश्विभ्यां धर्मज्ञोऽङ्गानि दास्यति ।
ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मित: ।
येन वृत्रशिरो हर्ता मत्तेजउपबृंहित: ॥ ५४ ॥
Text 55
तस्मिन् विनिहते यूयं तेजोऽस्त्रायुधसम्पद: ।
भूय: प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ॥ ५५ ॥



