Srimad Bhagavatam | Canto 5 | Chapter 20 | Verses

0
5

Studying the Structure of the Universe

Text 1

श्रीशुक उवाच
अत: परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते ॥ १ ॥

Text 2

जम्बूद्वीपोऽयं यावत्प्रमाणविस्तारस्तावता क्षारोदधिना परिवेष्टितो यथा मेरुर्जम्ब्वाख्येन लवणोदधिरपि ततो द्विगुणविशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन । प्लक्षो जम्बूप्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निरुपास्ते सप्तजिह्वस्तस्याधिपति: प्रियव्रतात्मज इध्मजिह्व: स्वं द्वीपं सप्तवर्षाणि विभज्य सप्तवर्षनामभ्य आत्मजेभ्य आकलय्य स्वयमात्मयोगेनोपरराम ॥ २ ॥

Texts 3-4

शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाता: ॥ ३ ॥ मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतुशैला: । अरुणा नृम्णाऽऽङ्गिरसी सावित्री सुप्तभाता ऋतम्भरा सत्यम्भरा इति महानद्य: । यासां जलोपस्पर्शनविधूतरजस्तमसो हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णा: सहस्रायुषो विबुधोपमसन्दर्शनप्रजनना: स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते ॥ ४ ॥

Text 5

प्रत्नस्य विष्णो रूपं यत्सत्यस्यर्तस्य ब्रह्मण: ।
अमृतस्य च मृत्योश्च सूर्यमात्मानमीमहीति ॥ ५ ॥

Text 6

प्लक्षादिषु पञ्चसु पुरुषाणामायुरिन्द्रियमोज: सहो बलं बुद्धिर्विक्रम इति च सर्वेषामौत्पत्तिकी सिद्धिरविशेषेण वर्तते ॥ ६ ॥

Text 7

प्लक्ष: स्वसमानेनेक्षुरसोदेनावृतो यथा तथा द्वीपोऽपि शाल्मलो द्विगुणविशाल: समानेन सुरोदेनावृत: परिवृङ्क्ते ॥ ७ ॥

Text 8

यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयमाहुर्भगवतश्छन्द: स्तुत: पतत्‍त्रिराजस्य सा द्वीपहूतये उपलक्ष्यते ॥ ८ ॥

Text 9

तद्‌द्वीपाधिपति: प्रियव्रतात्मजो यज्ञबाहु: स्वसुतेभ्य: सप्तभ्यस्तन्नामानि सप्तवर्षाणि व्यभजत्सुरोचनं सौमनस्यं रमणकं देववर्षं पारिभद्रमाप्यायनमविज्ञातमिति ॥ ९ ॥

Text 10

तेषु वर्षाद्रयो नद्यश्च सप्तैवाभिज्ञाता: स्वरस: शतश‍ृङ्गो वामदेव: कुन्दो मुकुन्द: पुष्पवर्ष: सहस्रश्रुतिरिति । अनुमति: सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥ १० ॥

Text 11

तद्वर्षपुरुषा: श्रुतधरवीर्यधरवसुन्धरेषन्धरसंज्ञा भगवन्तं वेदमयं सोममात्मानं वेदेन यजन्ते ॥ ११ ॥

Text 12

स्वगोभि: पितृदेवेभ्यो विभजन् कृष्णशुक्लयो: ।
प्रजानां सर्वासां राजान्ध: सोमो न आस्त्विति ॥ १२ ॥

Text 13

एवं सुरोदाद्ब‍‌हिस्तद्‌‌द्विगुण: समानेनावृतो घृतोदेन यथापूर्व: कुशद्वीपो यस्मिन् कुशस्तम्बो देवकृतस्तद्‌द्वीपाख्याकरो ज्वलन इवापर: स्वशष्परोचिषा दिशो विराजयति ॥ १३ ॥

Text 14

तद्‌द्वीपपति: प्रैयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्य: स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं तप आतिष्ठत वसुवसुदानद‍ृढरुचिनाभिगुप्तस्तुत्यव्रतविविक्तवामदेवनामभ्य: ॥ १४ ॥

Text 15

तेषां वर्षेषु सीमागिरयो नद्यश्चाभिज्ञाता: सप्त सप्तैव चक्रश्चतु:श‍ृङ्ग: कपिलश्चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति ॥ १५ ॥

Text 16

यासां पयोभि: कुशद्वीपौकस: कुशलकोविदाभियुक्तकुलकसंज्ञा भगवन्तं जातवेदसरूपिणं कर्मकौशलेन यजन्ते ॥ १६ ॥

Text 17

परस्य ब्रह्मण: साक्षाज्जातवेदोऽसि हव्यवाट् ।
देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति ॥ १७ ॥

Text 18

तथा घृतोदाद्ब‍‌हि: क्रौञ्चद्वीपो द्विगुण: स्वमानेन क्षीरोदेन परित उपक्‍ल‍ृप्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वतराजो द्वीपनामनिर्वर्तक आस्ते ॥ १८ ॥

Text 19

योऽसौ गुहप्रहरणोन्मथितनितम्बकुञ्जोऽपि क्षीरोदेनासिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव ॥ १९ ॥

Text 20

तस्मिन्नपि प्रैयव्रतो घृतपृष्ठो नामाधिपति: स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्रनामसु सप्त रिक्थादान् वर्षपान्निवेश्य स्वयं भगवान् भगवत: परमकल्याणयशस आत्मभूतस्य हरेश्चरणारविन्दमुपजगाम ॥ २० ॥

Text 21

आमो मधुरुहो मेघपृष्ठ: सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां वर्षगिरय: सप्त सप्तैव नद्यश्चाभिख्याता: शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दन: सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति ॥ २१ ॥

Text 22

यासामम्भ: पवित्रममलमुपयुञ्जाना: पुरुषऋषभद्रविणदेवकसंज्ञा वर्षपुरुषा आपोमयं देवमपां पूर्णेनाञ्जलिना यजन्ते ॥ २२ ॥

Text 23

आप: पुरुषवीर्या: स्थ पुनन्तीर्भूर्भुव:सुव: ।
ता न: पुनीतामीवघ्नी: स्पृशतामात्मना भुव इति ॥ २३ ॥

Text 24

एवं पुरस्तात्क्षीरोदात्परित उपवेशित: शाकद्वीपो द्वात्रिंशल्लक्षयोजनायाम: समानेन च दधिमण्डोदेन परीतो यस्मिन् शाको नाम महीरुह: स्वक्षेत्रव्यपदेशको यस्य ह महासुरभिगन्धस्तं द्वीपमनुवासयति ॥ २४ ॥

Text 25

तस्यापि प्रैयव्रत एवाधिपतिर्नाम्ना मेधातिथि: सोऽपि विभज्य सप्त वर्षाणि पुत्रनामानि तेषु स्वात्मजान् पुरोजवमनोजवपवमानधूम्रानीकचित्ररेफबहुरूपविश्वधारसंज्ञान्निधाप्याधिपतीन् स्वयं भगवत्यनन्त आवेशितमतिस्तपोवनं प्रविवेश ॥ २५ ॥

Text 26

एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव ईशान उरुश‍ृङ्गो बलभद्र: शतकेसर: सहस्रस्रोतो देवपालो महानस इति अनघाऽऽयुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति ॥ २६ ॥

Text 27

तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं प्राणायामविधूतरजस्तमस: परमसमाधिना यजन्ते ॥ २७ ॥

Text 28

अन्त:प्रविश्य भूतानि यो बिभर्त्यात्मकेतुभि: ।
अन्तर्यामीश्वर: साक्षात्पातु नो यद्वशे स्फुटम् ॥ २८ ॥

Text 29

एवमेव दधिमण्डोदात्परत: पुष्करद्वीपस्ततो द्विगुणायाम: समन्तत उपकल्पित: समानेन स्वादूदकेन समुद्रेण बहिरावृतो यस्मिन् बृहत्पुष्करं ज्वलनशिखामलकनकपत्रायुतायुतं भगवत: कमलासनस्याध्यासनं परिकल्पितम् ॥ २९ ॥

Text 30

तद्‌द्वीपमध्ये मानसोत्तरनामैक एवार्वाचीनपराचीनवर्षयोर्मर्यादाचलोऽयुतयोजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोकपालानामिन्द्रादीनां यदुपरिष्टात्सूर्यरथस्य मेरुं परिभ्रमत: संवत्सरात्मकं चक्रं देवानामहोरात्राभ्यां परिभ्रमति ॥ ३० ॥

Text 31

तद्‌द्वीपस्याप्यधिपति: प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणकधातकिनामानौ वर्षपती नियुज्य स स्वयं पूर्वजवद्भ‍गवत्कर्मशील एवास्ते ॥ ३१ ॥

Text 32

तद्वर्षपुरुषा भगवन्तं ब्रह्मरूपिणं सकर्मकेण कर्मणाऽऽराधयन्तीदं चोदाहरन्ति ॥ ३२ ॥

Text 33

यत्तत्कर्ममयं लिङ्गं ब्रह्मलिङ्गं जनोऽर्चयेत् ।
एकान्तमद्वयं शान्तं तस्मै भगवते नम इति ॥ ३३ ॥

Text 34

ऋषिरुवाच
तत: परस्ताल्लोकालोकनामाचलो लोकालोकयोरन्तराले परित उपक्षिप्त: ॥ ३४ ॥

Text 35

यावन्मानसोत्तरमेर्वोरन्तरं तावती भूमि: काञ्चन्यन्याऽऽदर्शतलोपमा यस्यां प्रहित: पदार्थो न
कथञ्चित्पुन:
प्रत्युपलभ्यते तस्मात्सर्वसत्त्वपरिहृतासीत् ॥ ३५ ॥

Text 36

लोकालोक इति समाख्या यदनेनाचलेन लोकालोकस्यान्तर्वर्तिनावस्थाप्यते ॥ ३६ ॥

Text 37

स लोकत्रयान्ते परित ईश्वरेण विहितो यस्मात्सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्गणानां गभस्तयोऽर्वाचीनांस्त्रींल्लोकानावितन्वाना न कदाचित्पराचीना भवितुमुत्सहन्ते तावदुन्नहनायाम: ॥ ३७ ॥

Text 38

एतावाँल्लोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तित: कविभि: स तु पञ्चाशत्कोटिगणितस्य भूगोलस्य तुरीयभागोऽयं लोकालोकाचल: ॥ ३८ ॥

Text 39

तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिलजगद्गुरुणाधिनिवेशिता ये द्विरदपतय ऋषभ: पुष्करचूडो वामनोऽपराजित इति सकललोकस्थितिहेतव: ॥ ३९ ॥

Text 40

तेषां स्वविभूतीनां लोकपालानां च विविधवीर्योपबृंहणाय भगवान् परममहापुरुषो महाविभूतिपतिरन्तर्याम्यात्मनो विशुद्धसत्त्वं धर्मज्ञानवैराग्यैश्वर्याद्यष्टमहासिद्ध्युपलक्षणं विष्वक्सेनादिभि: स्वपार्षदप्रवरै: परिवारितो निजवरायुधोपशोभितैर्निजभुजदण्डै: सन्धारय-माणस्तस्मिन् गिरिवरे समन्तात्सकललोकस्वस्तय आस्ते ॥ ४० ॥

Text 41

आकल्पमेवं वेषं गत एष भगवानात्मयोगमायया विरचितविविधलोकयात्रागोपीयायेत्यर्थ: ॥ ४१ ॥

Text 42

योऽन्तर्विस्तार एतेन ह्यलोकपरिमाणं च व्याख्यातं यद्ब‍‌हिर्लोकालोकाचलात् । तत: परस्ताद्योगेश्वरगतिं विशुद्धामुदाहरन्ति ॥ ४२ ॥

Text 43

अण्डमध्यगत: सूर्यो द्यावाभूम्योर्यदन्तरम् ।
सूर्याण्डगोलयोर्मध्ये कोट्य: स्यु: पञ्चविंशति: ॥ ४३ ॥

Text 44

मृतेऽण्ड एष एतस्मिन् यदभूत्ततो मार्तण्ड इति व्यपदेश: ।
हिरण्यगर्भ इति यद्धिरण्याण्डसमुद्भ‍व: ॥ ४४ ॥

Text 45

सूर्येण हि विभज्यन्ते दिश: खं द्यौर्मही भिदा ।
स्वर्गापवर्गौ नरका रसौकांसि
च सर्वश: ॥ ४५ ॥

Text 46

देवतिर्यङ्‍मनुष्याणां सरीसृपसवीरुधाम् ।
सर्वजीवनिकायानां सूर्य आत्मा
द‍ृगीश्वर: ॥ ४६ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here