Srimad Bhagavatam | Canto 5 | Chapter 11 | Verses

0
2

Jaḍa Bharata Instructs King Rahūgaṇa

Text 1

ब्राह्मण उवाच
अकोविद: कोविदवादवादान्वदस्यथो नातिविदां वरिष्ठ: । न सूरयो हि व्यवहारमेनंतत्त्वावमर्शेन सहामनन्ति ॥ १ ॥

Text 2

तथैव राजन्नुरुगार्हमेध-वितानविद्योरुविजृम्भितेषु । न वेदवादेषु हि तत्त्ववाद:प्रायेण शुद्धो नु चकास्ति साधु: ॥ २ ॥

Text 3

न तस्य तत्त्वग्रहणाय साक्षाद्वरीयसीरपि वाच: समासन् । स्वप्ने निरुक्त्या गृहमेधिसौख्यंन यस्य हेयानुमितं स्वयं स्यात् ॥ ३ ॥

Text 4

यावन्मनो रजसा पूरुषस्यसत्त्वेन वा तमसा वानुरुद्धम् । चेतोभिराकूतिभिरातनोतिनिरङ्कुशं कुशलं चेतरं वा ॥ ४ ॥

Text 5

स वासनात्मा विषयोपरक्तोगुणप्रवाहो विकृत: षोडशात्मा । बिभ्रत्पृथङ्‌नामभि रूपभेद-मन्तर्बहिष्ट्वं च पुरैस्तनोति ॥ ५ ॥

Text 6

दु:खं सुखं व्यतिरिक्तं च तीव्रंकालोपपन्नं फलमाव्यनक्ति । आलिङ्‌ग्य मायारचितान्तरात्मास्वदेहिनं संसृतिचक्रकूट: ॥ ६ ॥

Text 7

तावानयं व्यवहार: सदावि:क्षेत्रज्ञसाक्ष्यो भवति स्थूलसूक्ष्म: । तस्मान्मनो लिङ्गमदो वदन्तिगुणागुणत्वस्य परावरस्य ॥ ७ ॥

Text 8

गुणानुरक्तं व्यसनाय जन्तो:
क्षेमाय नैर्गुण्यमथो मन: स्यात् ।
यथा प्रदीपो घृतवर्तिमश्नन्
शिखा: सधूमा भजति ह्यन्यदा स्वम् ।
पदं तथा गुणकर्मानुबद्धं
वृत्तीर्मन: श्रयतेऽन्यत्र तत्त्वम् ॥ ८ ॥

Text 9

एकादशासन्मनसो हि वृत्तय
आकूतय: पञ्च धियोऽभिमान: ।
मात्राणि कर्माणि पुरं च तासां
वदन्ति हैकादश वीर भूमी: ॥ ९ ॥

Text 10

गन्धाकृतिस्पर्शरसश्रवांसि
विसर्गरत्यर्त्यभिजल्पशिल्पा: ।
एकादशं स्वीकरणं ममेति
शय्यामहं द्वादशमेक आहु: ॥ १० ॥

Text 11

द्रव्यस्वभावाशयकर्मकालै-
रेकादशामी मनसो विकारा: ।
सहस्रश: शतश: कोटिशश्च
क्षेत्रज्ञतो न मिथो न स्वत: स्यु: ॥ ११ ॥

Text 12

क्षेत्रज्ञ एता मनसो विभूती-
र्जीवस्य मायारचितस्य नित्या: ।
आविर्हिता: क्‍वापि तिरोहिताश्च
शुद्धो विचष्टे ह्यविशुद्धकर्तु: ॥ १२ ॥

Texts 13-14

क्षेत्रज्ञ आत्मा पुरुष: पुराण:
साक्षात्स्वयंज्योतिरज: परेश: ।
नारायणो भगवान् वासुदेव:
स्वमाययाऽऽत्मन्यवधीयमान: ॥ १३ ॥
यथानिल: स्थावरजङ्गमाना-
मात्मस्वरूपेण निविष्ट ईशेत् ।
एवं परो भगवान् वासुदेव:
क्षेत्रज्ञ आत्मेदमनुप्रविष्ट: ॥ १४ ॥

Text 15

न यावदेतां तनुभृन्नरेन्द्र
विधूय मायां वयुनोदयेन ।
विमुक्तसङ्गो जितषट्‌सपत्नो
वेदात्मतत्त्वं भ्रमतीह तावत् ॥ १५ ॥

Text 16

न यावदेतन्मन आत्मलिङ्गं
संसारतापावपनं जनस्य ।
यच्छोकमोहामयरागलोभ-
वैरानुबन्धं ममतां विधत्ते ॥ १६ ॥

Text 17

भ्रातृव्यमेनं तददभ्रवीर्य-
मुपेक्षयाध्येधितमप्रमत्त: ।
गुरोर्हरेश्चरणोपासनास्त्रो
जहि व्यलीकं स्वयमात्ममोषम् ॥ १७ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here