Nārada Instructs the Pracetās
Text 1
मैत्रेय उवाच
तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम् ।
स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ॥ १ ॥
Text 2
दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा ।
प्रतीच्यां दिशि वेलायां सिद्धोऽभूद्यत्र जाजलि: ॥ २ ॥
Text 3
तान्निर्जितप्राणमनोवचोदृशो
जितासनान् शान्तसमानविग्रहान् ।
परेऽमले ब्रह्मणि योजितात्मन:
सुरासुरेड्यो ददृशे स्म नारद: ॥ ३ ॥
Text 4
तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च ।
पूजयित्वा यथादेशं सुखासीनमथाब्रुवन् ॥ ४ ॥
Text 5
प्रचेतस ऊचु:
स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गत: ।
तव चङ्क्रमणं ब्रह्मन्नभयाय यथा रवे: ॥ ५ ॥
Text 6
यदादिष्टं भगवता शिवेनाधोक्षजेन च ।
तद् गृहेषु प्रसक्तानां प्रायश: क्षपितं प्रभो ॥ ६ ॥
Text 7
तन्न: प्रद्योतयाध्यात्मज्ञानं तत्त्वार्थदर्शनम् ।
येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम् ॥ ७ ॥
Text 8
मैत्रेय उवाच
इति प्रचेतसां पृष्टो भगवान्नारदो मुनि: ।
भगवत्युत्तमश्लोक आविष्टात्माब्रवीन्नृपान् ॥ ८ ॥
Text 9
नारद उवाच
तज्जन्म तानि कर्माणि तदायुस्तन्मनो वच: ।
नृणां येन हि विश्वात्मा सेव्यते हरिरीश्वर: ॥ ९ ॥
Text 10
किं जन्मभिस्त्रिभिर्वेह शौक्रसावित्रयाज्ञिकै: ।
कर्मभिर्वा त्रयीप्रोक्तै: पुंसोऽपि विबुधायुषा ॥ १० ॥
Text 11
श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभि: ।
बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा ॥ ११ ॥
Text 12
किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोरपि ।
किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरि: ॥ १२ ॥
Text 13
श्रेयसामपि सर्वेषामात्मा ह्यवधिरर्थत: ।
सर्वेषामपि भूतानां हरिरात्मात्मद: प्रिय: ॥ १३ ॥
Text 14
यथा तरोर्मूलनिषेचनेन
तृप्यन्ति तत्स्कन्धभुजोपशाखा: ।
प्राणोपहाराच्च यथेन्द्रियाणां
तथैव सर्वार्हणमच्युतेज्या ॥ १४ ॥
Text 15
यथैव सूर्यात्प्रभवन्ति वार:
पुनश्च तस्मिन्प्रविशन्ति काले ।
भूतानि भूमौ स्थिरजङ्गमानि
तथा हरावेव गुणप्रवाह: ॥ १५ ॥
Text 16
एतत्पदं तज्जगदात्मन: परं
सकृद्विभातं सवितुर्यथा प्रभा ।
यथासवो जाग्रति सुप्तशक्तयो
द्रव्यक्रियाज्ञानभिदाभ्रमात्यय: ॥ १६ ॥
Text 17
यथा नभस्यभ्रतम:प्रकाशा
भवन्ति भूपा न भवन्त्यनुक्रमात् ।
एवं परे ब्रह्मणि शक्तयस्त्वमू
रजस्तम:सत्त्वमिति प्रवाह: ॥ १७ ॥
Text 18
तेनैकमात्मानमशेषदेहिनां
कालं प्रधानं पुरुषं परेशम् ।
स्वतेजसा ध्वस्तगुणप्रवाह-
मात्मैकभावेन भजध्वमद्धा ॥ १८ ॥
Text 19
दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा ।
सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दन: ॥ १९ ॥
Text 20
अपहतसकलैषणामलात्म-
न्यविरतमेधितभावनोपहूत: ।
निजजनवशगत्वमात्मनोऽय-
न्न सरति छिद्रवदक्षर: सतां हि ॥ २० ॥
Text 21
न भजति कुमनीषिणां स इज्यां
हरिरधनात्मधनप्रियो रसज्ञ: ।
श्रुतधनकुलकर्मणां मदैर्ये
विदधति पापमकिञ्चनेषु सत्सु ॥ २१ ॥
Text 22
श्रियमनुचरतीं तदर्थिनश्च
द्विपदपतीन् विबुधांश्च यत्स्वपूर्ण: ।
न भजति निजभृत्यवर्गतन्त्र:
कथममुमुद्विसृजेत्पुमान् कृतज्ञ: ॥ २२ ॥
Text 23
मैत्रेय उवाच
इति प्रचेतसो राजन्नन्याश्च भगवत्कथा: ।
श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनि: ॥ २३ ॥
Text 24
तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम् ।
हरेर्निशम्य तत्पादं ध्यायन्तस्तद्गतिं ययु: ॥ २४ ॥
Text 25
एतत्तेऽभिहितं क्षत्तर्यन्मां त्वं परिपृष्टवान् ।
प्रचेतसां नारदस्य संवादं हरिकीर्तनम् ॥ २५ ॥
Text 26
श्रीशुक उवाच
य एष उत्तानपदो मानवस्यानुवर्णित: ।
वंश: प्रियव्रतस्यापि निबोध नृपसत्तम ॥ २६ ॥
Text 27
यो नारदादात्मविद्यामधिगम्य पुनर्महीम् ।
भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम् ॥ २७ ॥
Text 28
इमां तु कौषारविणोपवर्णितां
क्षत्ता निशम्याजितवादसत्कथाम् ।
प्रवृद्धभावोऽश्रुकलाकुलो मुने-
र्दधार मूर्ध्ना चरणं हृदा हरे: ॥ २८ ॥
Text 29
विदुर उवाच
सोऽयमद्य महायोगिन् भवता करुणात्मना ।
दर्शितस्तमस: पारो यत्राकिञ्चनगो हरि: ॥ २९ ॥
Text 30
श्रीशुक उवाच
इत्यानम्य तमामन्त्र्य विदुरो गजसाह्वयम् ।
स्वानां दिदृक्षु: प्रययौ ज्ञातीनां निर्वृताशय: ॥ ३० ॥
Text 31
एतद्य: शृणुयाद्राजन् राज्ञां हर्यर्पितात्मनाम् ।
आयुर्धनं यश: स्वस्ति गतिमैश्वर्यमाप्नुयात् ॥ ३१ ॥
ऋषभ उवाच
नायं देहो देहभाजां नृलोके
कष्टान् कामानर्हते विड्भुजां ये ।
तपो दिव्यं पुत्रका येन सत्त्वं
शुद्ध्येद्यस्माद् ब्रह्मसौख्यं त्वनन्तम् ॥ १ ॥






