The Activities of the Pracetās
Text 1
विदुर उवाच
ये त्वयाभिहिता ब्रह्मन् सुता: प्राचीनबर्हिष: ।
ते रुद्रगीतेन हरिं सिद्धिमापु: प्रतोष्य काम् ॥ १ ॥
Text 2
किं बार्हस्पत्येह परत्र वाथ
कैवल्यनाथप्रियपार्श्ववर्तिन: ।
आसाद्य देवं गिरिशं यदृच्छया
प्रापु: परं नूनमथ प्रचेतस: ॥ २ ॥
Text 3
मैत्रेय उवाच
प्रचेतसोऽन्तरुदधौ पितुरादेशकारिण: ।
जपयज्ञेन तपसा पुरञ्जनमतोषयन् ॥ ३ ॥
Text 4
दशवर्षसहस्रान्ते पुरुषस्तु सनातन: ।
तेषामाविरभूत्कृच्छ्रं शान्तेन शमयन् रुचा ॥ ४ ॥
Text 5
सुपर्णस्कन्धमारूढो मेरुशृङ्गमिवाम्बुद: ।
पीतवासा मणिग्रीव: कुर्वन्वितिमिरा दिश: ॥ ५ ॥
Text 6
काशिष्णुना कनकवर्णविभूषणेन
भ्राजत्कपोलवदनो विलसत्किरीट: ।
अष्टायुधैरनुचरैर्मुनिभि: सुरेन्द्रै-
रासेवितो गरुडकिन्नरगीतकीर्ति: ॥ ६ ॥
Text 7
पीनायताष्टभुजमण्डलमध्यलक्ष्म्या
स्पर्धच्छ्रिया परिवृतो वनमालयाद्य: ।
बर्हिष्मत: पुरुष आह सुतान् प्रपन्नान्
पर्जन्यनादरुतया सघृणावलोक: ॥ ७ ॥
Text 8
श्रीभगवानुवाच
वरं वृणीध्वं भद्रं वो यूयं मे नृपनन्दना: ।
सौहार्देनापृथग्धर्मास्तुष्टोऽहं सौहृदेन व: ॥ ८ ॥
Text 9
योऽनुस्मरति सन्ध्यायां युष्माननुदिनं नर: ।
तस्य भ्रातृष्वात्मसाम्यं तथा भूतेषु सौहृदम् ॥ ९ ॥
Text 10
ये तु मां रुद्रगीतेन सायं प्रात: समाहिता: ।
स्तुवन्त्यहं कामवरान्दास्ये प्रज्ञां च शोभनाम् ॥ १० ॥
Text 11
यद्यूयं पितुरादेशमग्रहीष्ट मुदान्विता: ।
अथो व उशती कीर्तिर्लोकाननु भविष्यति ॥ ११ ॥
Text 12
भविता विश्रुत: पुत्रोऽनवमो ब्रह्मणो गुणै: ।
य एतामात्मवीर्येण त्रिलोकीं पूरयिष्यति ॥ १२ ॥
Text 13
कण्डो: प्रम्लोचया लब्धा कन्या कमललोचना ।
तां चापविद्धां जगृहुर्भूरुहा नृपनन्दना: ॥ १३ ॥
Text 14
क्षुत्क्षामाया मुखे राजा सोम: पीयूषवर्षिणीम् ।
देशिनीं रोदमानाया निदधे स दयान्वित: ॥ १४ ॥
Text 15
प्रजाविसर्ग आदिष्टा: पित्रा मामनुवर्तता ।
तत्र कन्यां वरारोहां तामुद्वहत मा चिरम् ॥ १५ ॥
Text 16
अपृथग्धर्मशीलानां सर्वेषां व: सुमध्यमा ।
अपृथग्धर्मशीलेयं भूयात्पत्न्यर्पिताशया ॥ १६ ॥
Text 17
दिव्यवर्षसहस्राणां सहस्रमहतौजस: ।
भौमान् भोक्ष्यथ भोगान् वै दिव्यांश्चानुग्रहान्मम ॥ १७ ॥
Text 18
अथ मय्यनपायिन्या भक्त्या पक्वगुणाशया: ।
उपयास्यथ मद्धाम निर्विद्य निरयादत: ॥ १८ ॥
Text 19
गृहेष्वाविशतां चापि पुंसां कुशलकर्मणाम् ।
मद्वार्तायातयामानां न बन्धाय गृहा मता: ॥ १९ ॥
Text 20
नव्यवद्धृदये यज्ज्ञो ब्रह्मैतद्ब्रह्मवादिभि: ।
न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गता: ॥ २० ॥
Text 21
मैत्रेय उवाच
एवं ब्रुवाणं पुरुषार्थभाजनं
जनार्दनं प्राञ्जलय: प्रचेतस: ।
तद्दर्शनध्वस्ततमोरजोमला
गिरागृणन् गद्गदया सुहृत्तमम् ॥ २१ ॥
Text 22
Text 23
शुद्धाय शान्ताय नम: स्वनिष्ठया
मनस्यपार्थं विलसद्द्वयाय ।
नमो जगत्स्थानलयोदयेषु
गृहीतमायागुणविग्रहाय ॥ २३ ॥
Text 24
नमो विशुद्धसत्त्वाय हरये हरिमेधसे ।
वासुदेवाय कृष्णाय प्रभवे सर्वसात्वताम् ॥ २४ ॥
Text 25
नम: कमलनाभाय नम: कमलमालिने ।
नम: कमलपादाय नमस्ते कमलेक्षण ॥ २५ ॥
Text 26
नम: कमलकिञ्जल्कपिशङ्गामलवाससे ।
सर्वभूतनिवासाय नमोऽयुङ्क्ष्महि साक्षिणे ॥ २६ ॥
Text 27
रूपं भगवता त्वेतदशेषक्लेशसङ्क्षयम् ।
आविष्कृतं न: क्लिष्टानां किमन्यदनुकम्पितम् ॥ २७ ॥
Text 28
एतावत्त्वं हि विभुभिर्भाव्यं दीनेषु वत्सलै: ।
यदनुस्मर्यते काले स्वबुद्ध्याभद्ररन्धन ॥ २८ ॥
Text 29
येनोपशान्तिर्भूतानां क्षुल्लकानामपीहताम् । अन्तर्हितोऽन्तर्हृदये कस्मान्नो वेद नाशिष: ॥ २९ ॥
Text 30
असावेव वरोऽस्माकमीप्सितो जगत: पते ।
प्रसन्नो भगवान् येषामपवर्गगुरुर्गति: ॥ ३० ॥
Text 31
वरं वृणीमहेऽथापि नाथ त्वत्परत: परात् ।
न ह्यन्तस्त्वद्विभूतीनां सोऽनन्त इति गीयसे ॥ ३१ ॥
Text 32
पारिजातेऽञ्जसा लब्धे सारङ्गोऽन्यन्न सेवते ।
त्वदङ्घ्रिमूलमासाद्य साक्षात्किं किं वृणीमहि ॥ ३२ ॥
Text 33
यावत्ते मायया स्पृष्टा भ्रमाम इह कर्मभि: ।
तावद्भवत्प्रसङ्गानां सङ्ग: स्यान्नो भवे भवे ॥ ३३ ॥
Text 34
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ ३४ ॥
Text 35
यत्रेड्यन्ते कथा मृष्टास्तृष्णाया: प्रशमो यत: ।
निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ ३५ ॥
Text 36
यत्र नारायण: साक्षाद्भगवान्न्यासिनां गति: ।
संस्तूयते सत्कथासु मुक्तसङ्गै: पुन: पुन: ॥ ३६ ॥
Text 37
तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया ।
भीतस्य किं न रोचेत तावकानां समागम: ॥ ३७ ॥
Text 38
वयं तु साक्षाद्भगवन् भवस्य
प्रियस्य सख्यु: क्षणसङ्गमेन ।
सुदुश्चिकित्स्यस्य भवस्य मृत्यो-
र्भिषक्तमं त्वाद्य गतिं गता: स्म ॥ ३८ ॥
Texts 39-40
यन्न: स्वधीतं गुरव: प्रसादिता
विप्राश्च वृद्धाश्च सदानुवृत्त्या ।
आर्या नता: सुहृदो भ्रातरश्च
सर्वाणि भूतान्यनसूययैव ॥ ३९ ॥
यन्न: सुतप्तं तप एतदीश
निरन्धसां कालमदभ्रमप्सु ।
सर्वं तदेतत्पुरुषस्य भूम्नो
वृणीमहे ते परितोषणाय ॥ ४० ॥
Text 41
मनु: स्वयम्भूर्भगवान् भवश्च
येऽन्ये तपोज्ञानविशुद्धसत्त्वा: ।
अदृष्टपारा अपि यन्महिम्न:
स्तुवन्त्यथो त्वात्मसमं गृणीम: ॥ ४१ ॥
Text 42
नम: समाय शुद्धाय पुरुषाय पराय च ।
वासुदेवाय सत्त्वाय तुभ्यं भगवते नम: ॥ ४२ ॥
Text 43
मैत्रेय उवाच
इति प्रचेतोभिरभिष्टुतो हरि:
प्रीतस्तथेत्याह शरण्यवत्सल: ।
अनिच्छतां यानमतृप्तचक्षुषां
ययौ स्वधामानपवर्गवीर्य: ॥ ४३ ॥
Text 44
अथ निर्याय सलिलात्प्रचेतस उदन्वत: ।
वीक्ष्याकुप्यन्द्रुमैश्छन्नां गां गां रोद्धुमिवोच्छ्रितै: ॥ ४४ ॥
Text 45
ततोऽग्निमारुतौ राजन्नमुञ्चन्मुखतो रुषा ।
महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥ ४५ ॥
Text 46
भस्मसात्क्रियमाणांस्तान् द्रुमान्वीक्ष्य पितामह: ।
आगत: शमयामास पुत्रान् बर्हिष्मतो नयै: ॥ ४६ ॥
Text 47
तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा ।
उज्जह्रुस्ते प्रचेतोभ्य उपदिष्टा: स्वयम्भुवा ॥ ४७ ॥
Text 48
ते च ब्रह्मण आदेशान्मारिषामुपयेमिरे ।
यस्यां महदवज्ञानादजन्यजनयोनिज: ॥ ४८ ॥
Text 49
चाक्षुषे त्वन्तरे प्राप्ते प्राक्सर्गे कालविद्रुते ।
य: ससर्ज प्रजा इष्टा: स दक्षो दैवचोदित: ॥ ४९ ॥
Texts 50-51
यो जायमान: सर्वेषां तेजस्तेजस्विनां रुचा ।
स्वयोपादत्त दाक्ष्याच्च कर्मणां दक्षमब्रुवन् ॥ ५० ॥
तं प्रजासर्गरक्षायामनादिरभिषिच्य च ।
युयोज युयुजेऽन्यांश्च स वै सर्वप्रजापतीन् ॥ ५१ ॥






