Srimad Bhagavatam | Canto 4 | Chapter 29 | Verses

Text 1 प्राचीनबर्हिरुवाच भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते । कवयस्तद्विजानन्ति न वयं कर्ममोहिता: ॥ १ ॥

0
35

Talks Between Nārada and King Prācīnabarhi

Text 1

प्राचीनबर्हिरुवाच
भगवंस्ते वचोऽस्माभिर्न सम्यगवगम्यते ।
कवयस्तद्विजानन्ति न वयं कर्ममोहिता: ॥ १ ॥

Text 2

नारद उवाच
पुरुषं पुरञ्जनं विद्याद्यद् व्यनक्त्यात्मन: पुरम् ।
एकद्वित्रिचतुष्पादं बहुपादमपादकम् ॥ २ ॥

Text 3

योऽविज्ञाताहृतस्तस्य पुरुषस्य सखेश्वर: ।
यन्न विज्ञायते पुम्भिर्नामभिर्वा क्रियागुणै: ॥ ३ ॥

Text 4

यदा जिघृक्षन् पुरुष: कार्त्स्‍न्येन प्रकृतेर्गुणान् ।
नवद्वारं द्विहस्ताङ्‌घ्रि तत्रामनुत साध्विति ॥ ४ ॥

Text 5

बुद्धिं तु प्रमदां विद्यान्ममाहमिति यत्कृतम् ।
यामधिष्ठाय देहेऽस्मिन् पुमान् भुङ्क्तेऽक्षभिर्गुणान् ॥ ५ ॥

Text 6

सखाय इन्द्रियगणा ज्ञानं कर्म च यत्कृतम् ।
सख्यस्तद्वृत्तय: प्राण: पञ्चवृत्तिर्यथोरग: ॥ ६ ॥

Text 7

बृहद्बलं मनो विद्यादुभयेन्द्रियनायकम् ।
पञ्चाला: पञ्च विषया यन्मध्ये नवखं पुरम् ॥ ७ ॥

Text 8

अक्षिणी नासिके कर्णौ मुखं शिश्नगुदाविति ।
द्वे द्वे द्वारौ बहिर्याति यस्तदिन्द्रियसंयुत: ॥ ८ ॥

Text 9

अक्षिणी नासिके आस्यमिति पञ्चपुर: कृता: ।
दक्षिणा दक्षिण: कर्ण उत्तरा चोत्तर: स्मृत: ।
पश्चिमे इत्यधोद्वारौ गुदं शिश्नमिहोच्यते ॥ ९ ॥

Text 10

खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते ।
रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वर: ॥ १० ॥

Text 11

नलिनी नालिनी नासे गन्ध: सौरभ उच्यते ।
घ्राणोऽवधूतो मुख्यास्यं विपणो वाग्रसविद्रस: ॥ ११ ॥

Text 12

आपणो व्यवहारोऽत्र चित्रमन्धो बहूदनम् ।
पितृहूर्दक्षिण: कर्ण उत्तरो देवहू: स्मृत: ॥ १२ ॥

Text 13

प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चालसंज्ञितम् ।
पितृयानं देवयानं श्रोत्राच्छ्रुतधराद्‌व्रजेत् ॥ १३ ॥

Text 14

आसुरी मेढ्रमर्वाग्द्वार्व्यवायो ग्रामिणां रति: ।
उपस्थो दुर्मद: प्रोक्तो निऋर्तिर्गुद उच्यते ॥ १४ ॥

Text 15

वैशसं नरकं पायुर्लुब्धकोऽन्धौ तु मे श‍ृणु ।
हस्तपादौ पुमांस्ताभ्यां युक्तो याति करोति च ॥ १५ ॥

Text 16

अन्त:पुरं च हृदयं विषूचिर्मन उच्यते ।
तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्गुणै: ॥ १६ ॥

Text 17

यथा यथा विक्रियते गुणाक्तो विकरोति वा ।
तथा तथोपद्रष्टात्मा तद्वृत्तीरनुकार्यते ॥ १७ ॥

Texts 18-20

देहो रथस्त्विन्द्रियाश्व: संवत्सररयोऽगति: ।
द्विकर्मचक्रस्त्रिगुणध्वज: पञ्चासुबन्धुर: ॥ १८ ॥
मनोरश्मिर्बुद्धिसूतो हृन्नीडो द्वन्द्वकूबर: ।
पञ्चेन्द्रियार्थप्रक्षेप: सप्तधातुवरूथक: ॥ १९ ॥
आकूतिर्विक्रमो बाह्यो मृगतृष्णां प्रधावति ।
एकादशेन्द्रियचमू: पञ्चसूनाविनोदकृत् ॥ २० ॥

Text 21

संवत्सरश्चण्डवेग: कालो येनोपलक्षित: ।
तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रय: स्मृता: ।
हरन्त्यायु: परिक्रान्त्या षष्ट्युत्तरशतत्रयम् ॥ २१ ॥

Text 22

कालकन्या जरा साक्षाल्लोकस्तां नाभिनन्दति ।
स्वसारं जगृहे मृत्यु: क्षयाय यवनेश्वर: ॥ २२ ॥

Texts 23-25

आधयो व्याधयस्तस्य सैनिका यवनाश्चरा: ।
भूतोपसर्गाशुरय: प्रज्वारो द्विविधो ज्वर: ॥ २३ ॥
एवं बहुविधैर्दु:खैर्दैवभूतात्मसम्भवै: ।
क्लिश्यमान: शतं वर्षं देहे देही तमोवृत: ॥ २४ ॥
प्राणेन्द्रियमनोधर्मानात्मन्यध्यस्य निर्गुण: ।
शेते कामलवान्ध्यायन्ममाहमिति कर्मकृत् ॥ २५ ॥

Texts 26-27

यदात्मानमविज्ञाय भगवन्तं परं गुरुम् ।
पुरुषस्तु विषज्जेत गुणेषु प्रकृते: स्वद‍ृक् ॥ २६ ॥
गुणाभिमानी स तदा कर्माणि कुरुतेऽवश: ।
शुक्लं कृष्णं लोहितं वा यथाकर्माभिजायते ॥ २७ ॥

Text 28

शुक्लात्प्रकाशभूयिष्ठाँल्लोकानाप्नोति कर्हिचित् ।
दु:खोदर्कान् क्रियायासांस्तम:शोकोत्कटान् क्‍वचित् ॥ २८ ॥

Text 29

क्‍वचित्पुमान् क्‍वचिच्च स्त्री क्‍वचिन्नोभयमन्धधी: ।
देवो मनुष्यस्तिर्यग्वा यथाकर्मगुणं भव: ॥ २९ ॥

Texts 30-31

क्षुत्परीतो यथा दीन: सारमेयो गृहं गृहम् ।
चरन्विन्दति यद्दिष्टं दण्डमोदनमेव वा ॥ ३० ॥
तथा कामाशयो जीव उच्चावचपथा भ्रमन् ।
उपर्यधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् ॥ ३१ ॥

Text 32

दु:खेष्वेकतरेणापि दैवभूतात्महेतुषु ।
जीवस्य न व्यवच्छेद: स्याच्चेत्तत्तत्प्रतिक्रिया ॥ ३२ ॥

Text 33

यथा हि पुरुषो भारं शिरसा गुरुमुद्वहन् ।
तं स्कन्धेन स आधत्ते तथा सर्वा: प्रतिक्रिया: ॥ ३३ ॥

Text 34

नैकान्तत: प्रतीकार: कर्मणां कर्म केवलम् ।
द्वयं ह्यविद्योपसृतं स्वप्ने स्वप्न इवानघ ॥ ३४ ॥

Text 35

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।
मनसा लिङ्गरूपेण स्वप्ने विचरतो यथा ॥ ३५ ॥

Texts 36-37

अथात्मनोऽर्थभूतस्य यतोऽनर्थपरम्परा ।
संसृतिस्तद्वय‍वच्छेदो भक्त्या परमया गुरौ ॥ ३६ ॥
वासुदेवे भगवति भक्तियोग: समाहित: ।
सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥ ३७ ॥

Text 38

सोऽचिरादेव राजर्षे स्यादच्युतकथाश्रय: ।
श‍ृण्वत: श्रद्दधानस्य नित्यदा स्यादधीयत: ॥ ३८ ॥

Texts 39-40

यत्र भागवता राजन् साधवो विशदाशया: ।
भगवद्गुणानुकथनश्रवणव्यग्रचेतस: ॥ ३९ ॥
तस्मिन्महन्मुखरिता मधुभिच्चरित्र-
पीयूषशेषसरित: परित: स्रवन्ति ।
ता ये पिबन्त्यवितृषो नृप गाढकर्णै-
स्तान्न स्पृशन्त्यशनतृड्भयशोकमोहा: ॥ ४० ॥

Text 41

एतैरुपद्रुतो नित्यं जीवलोक: स्वभावजै: ।
न करोति हरेर्नूनं कथामृतनिधौ रतिम् ॥ ४१ ॥

Texts 42-44

प्रजापतिपति: साक्षाद्भगवान् गिरिशो मनु: ।
दक्षादय: प्रजाध्यक्षा नैष्ठिका: सनकादय: ॥ ४२ ॥
मरीचिरत्र्यङ्गिरसौ पुलस्त्य: पुलह: क्रतु: ।
भृगुर्वसिष्ठ इत्येते मदन्ता ब्रह्मवादिन: ॥ ४३ ॥
अद्यापि वाचस्पतयस्तपोविद्यासमाधिभि: ।
पश्यन्तोऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् ॥ ४४ ॥

Text 45

शब्दब्रह्मणि दुष्पारे चरन्त उरुविस्तरे ।
मन्त्रलिङ्गैर्व्यवच्छिन्नं भजन्तो न विदु: परम् ॥ ४५ ॥

Text 46

यदा यस्यानुगृह्णाति भगवानात्मभावित: ।
स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ ४६ ॥

Text 47

तस्मात्कर्मसु बर्हिष्मन्नज्ञानादर्थकाशिषु ।
मार्थद‍ृष्टिं कृथा: श्रोत्रस्पर्शिष्वस्पृष्टवस्तुषु ॥ ४७ ॥

Text 48

स्वं लोकं न विदुस्ते वै यत्र देवो जनार्दन: ।
आहुर्धूम्रधियो वेदं सकर्मकमतद्विद: ॥ ४८ ॥

Text 49

आस्तीर्य दर्भै: प्रागग्रै: कार्त्स्‍न्येन क्षितिमण्डलम् ।
स्तब्धो बृहद्वधान्मानी कर्म नावैषि यत्परम् ।
तत्कर्म हरितोषं यत्सा विद्या तन्मतिर्यया ॥ ४९ ॥

Text 50

हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वर: ।
तत्पादमूलं शरणं यत: क्षेमो नृणामिह ॥ ५० ॥

Text 51

स वै प्रियतमश्चात्मा यतो न भयमण्वपि ।
इति वेद स वै विद्वान्यो विद्वान्स गुरुर्हरि: ॥ ५१ ॥

Text 52

नारद उवाच
प्रश्न एवं हि सञ्छिन्नो भवत: पुरुषर्षभ ।
अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् ॥ ५२ ॥

Text 53

क्षुद्रं चरं सुमनसां शरणे मिथित्वा
रक्तं षडङ्‌घ्रिगणसामसु लुब्धकर्णम् ।
अग्रे वृकानसुतृपोऽविगणय्य यान्तं
पृष्ठे मृगं मृगय लुब्धकबाणभिन्नम् ॥ ५३ ॥

Text 54

सुमन:समधर्मणां स्‍त्रीणां शरण आश्रमे पुष्पमधुगन्धवत्क्षुद्रतमं काम्यकर्मविपाकजं कामसुखलवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनीभूय तदभिनिवेशितमनसंषडङ्‌घ्रिगणसामगीत वदतिमनोहरवनितादिजनालापेष्वतितरामतिप्रलोभितकर्णमग्रे वृकयूथवदात्मन आयुर्हरतोऽहोरात्रान्तान् काललवविशेषानविगणय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षमनुप्रवृत्तो लुब्धक: कृतान्तोऽन्त:शरेण यमिह पराविध्यति तमिममात्मानमहो राजन् भिन्नहृदयं द्रष्टुमर्हसीति ॥ ५४ ॥

Text 55

स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्त-
श्चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते ।
जह्यङ्गनाश्रममसत्तमयूथगाथं
प्रीणीहि हंसशरणं विरम क्रमेण ॥ ५५ ॥

Text 56

राजोवाच
श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषत ।
नैतज्जानन्त्युपाध्याया: किं न ब्रूयुर्विदुर्यदि ॥ ५६ ॥

Text 57

संशयोऽत्र तु मे विप्र सञ्छिन्नस्तत्कृतो महान् ।
ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तय: ॥ ५७ ॥

Text 58

कर्माण्यारभते येन पुमानिह विहाय तम् ।
अमुत्रान्येन देहेन जुष्टानि स यदश्नुते ॥ ५८ ॥

Text 59

इति वेदविदां वाद: श्रूयते तत्र तत्र ह ।
कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकाशते ॥ ५९ ॥

Text 60

नारद उवाच
येनैवारभते कर्म तेनैवामुत्र तत्पुमान् ।
भुङ्क्ते ह्यव्यवधानेन लिङ्गेन मनसा स्वयम् ॥ ६० ॥

Text 61

शयानमिममुत्सृज्य श्वसन्तं पुरुषो यथा ।
कर्मात्मन्याहितं भुङ्क्ते ताद‍ृशेनेतरेण वा ॥ ६१ ॥

Text 62

ममैते मनसा यद्यदसावहमिति ब्रुवन् ।
गृह्णीयात्तत्पुमान् राद्धं कर्म येन पुनर्भव: ॥ ६२ ॥

Text 63

यथानुमीयते चित्तमुभयैरिन्द्रियेहितै: ।
एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभि: ॥ ६३ ॥

Text 64

नानुभूतं क्‍व चानेन देहेनाद‍ृष्टमश्रुतम् ।
कदाचिदुपलभ्येत यद्रूपं याद‍ृगात्मनि ॥ ६४ ॥

Text 65

तेनास्य ताद‍ृशं राजँल्लिङ्गिनो देहसम्भवम् ।
श्रद्धत्स्वाननुभूतोऽर्थो न मन: स्प्रष्टुमर्हति ॥ ६५ ॥

Text 66

मन एव मनुष्यस्य पूर्वरूपाणि शंसति ।
भविष्यतश्च भद्रं ते तथैव न भविष्यत: ॥ ६६ ॥

Text 67

अद‍ृष्टमश्रुतं चात्र क्‍वचिन्मनसि द‍ृश्यते ।
यथा तथानुमन्तव्यं देशकालक्रियाश्रयम् ॥ ६७ ॥

Text 68

सर्वे क्रमानुरोधेन मनसीन्द्रियगोचरा: ।
आयान्ति बहुशो यान्ति सर्वे समनसो जना: ॥ ६८ ॥

Text 69

सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि ।
तमश्चन्द्रमसीवेदमुपरज्यावभासते ॥ ६९ ॥

Text 70

नाहं ममेति भावोऽयं पुरुषे व्यवधीयते ।
यावद् बुद्धिमनोऽक्षार्थगुणव्यूहो ह्यनादिमान् ॥ ७० ॥

Text 71

सुप्तिमूर्च्छोपतापेषु प्राणायनविघातत: ।
नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि ॥ ७१ ॥

Text 72

गर्भे बाल्येऽप्यपौष्कल्यादेकादशविधं तदा ।
लिङ्गं न द‍ृश्यते यून: कुह्वां चन्द्रमसो यथा ॥ ७२ ॥

Text 73

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ७३ ॥

Text 74

एवं पञ्चविधं लिङ्गं त्रिवृत् षोडश विस्तृतम् ।
एष चेतनया युक्तो जीव इत्यभिधीयते ॥ ७४ ॥

Text 75

अनेन पुरुषो देहानुपादत्ते विमुञ्चति ।
हर्षं शोकं भयं दु:खं सुखं चानेन विन्दति ॥ ७५ ॥

Texts 76-77

यथा तृणजलूकेयं नापयात्यपयाति च ।
न त्यजेन्म्रियमाणोऽपि प्राग्देहाभिमतिं जन: ॥ ७६ ॥
यावदन्यं न विन्देत व्यवधानेन कर्मणाम् ।
मन एव मनुष्येन्द्र भूतानां भवभावनम् ॥ ७७ ॥

Text 78

यदाक्षैश्चरितान् ध्यायन् कर्माण्याचिनुतेऽसकृत् ।
सति कर्मण्यविद्यायां बन्ध: कर्मण्यनात्मन: ॥ ७८ ॥

Text 79

अतस्तदपवादार्थं भज सर्वात्मना हरिम् ।
पश्यंस्तदात्मकं विश्वं स्थित्युत्पत्त्यप्यया यत: ॥ ७९ ॥

Text 80

मैत्रेय उवाच
भागवतमुख्यो भगवान्नारदो हंसयोर्गतिम् ।
प्रदर्श्य ह्यमुमामन्‍त्र्य सिद्धलोकं ततोऽगमत् ॥ ८० ॥

Text 81

प्राचीनबर्ही राजर्षि: प्रजासर्गाभिरक्षणे ।
आदिश्य पुत्रानगमत्तपसे कपिलाश्रमम् ॥ ८१ ॥

Text 82

तत्रैकाग्रमना धीरो गोविन्दचरणाम्बुजम् ।
विमुक्तसङ्गोऽनुभजन् भक्त्या तत्साम्यतामगात् ॥ ८२ ॥

Text 83

एतदध्यात्मपारोक्ष्यं गीतं देवर्षिणानघ ।
य: श्रावयेद्य: श‍ृणुयात्स लिङ्गेन विमुच्यते ॥ ८३ ॥

Text 84

एतन्मुकुन्दयशसा भुवनं पुनानं
देवर्षिवर्यमुखनि:सृतमात्मशौचम् ।
य: कीर्त्यमानमधिगच्छति पारमेष्ठ्यं
नास्मिन् भवे भ्रमति मुक्तसमस्तबन्ध: ॥ ८४ ॥

Text 85

अध्यात्मपारोक्ष्यमिदं मयाधिगतमद्भुतम् ।
एवं स्त्रियाश्रम: पुंसश्छिन्नोऽमुत्र च संशय: ॥ ८५ ॥

Texts 29.1a-2a

सर्वेषामेव जन्तूनां सततं देहपोषणे ।
अस्ति प्रज्ञा समायत्ता को विशेषस्तदा नृणाम् ॥ १अ ॥
लब्ध्वेहान्ते मनुष्यत्वं हित्वा देहाद्यसद्ग्रहम् ।
आत्मसृत्या विहायेदं जीवात्मा स विशिष्यते ॥ २अ ॥

Text 29.1b

भक्ति: कृष्णे दया जीवेष्वकुण्ठज्ञानमात्मनि ।
यदि स्यादात्मनो भूयादपवर्गस्तु संसृते: ॥ १ब ॥

Text 29.2b

श्लोक २ब
अद‍ृष्टं द‍ृष्टवन्नङ्‌क्षेद्भूतं स्वप्नवदन्यथा ।
भूतं भवद्भविष्यच्च सुप्तं सर्वरहोरह: ॥ २ब ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here