Srimad Bhagavatam | Canto 4 | Chapter 25 | Verses

Text 1 मैत्रेय उवाच इति सन्दिश्य भगवान् बार्हिषदैरभिपूजित: । पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हर: ॥ १ ॥

0
53

The Descriptions of the Characteristics of King Purañjana

Text 1

मैत्रेय उवाच
इति सन्दिश्य भगवान् बार्हिषदैरभिपूजित: ।
पश्यतां राजपुत्राणां तत्रैवान्तर्दधे हर: ॥ १ ॥

Text 2

रुद्रगीतं भगवत: स्तोत्रं सर्वे प्रचेतस: ।
जपन्तस्ते तपस्तेपुर्वर्षाणामयुतं जले ॥ २ ॥

Text 3

प्राचीनबर्हिषं क्षत्त: कर्मस्वासक्तमानसम् ।
नारदोऽध्यात्मतत्त्वज्ञ: कृपालु: प्रत्यबोधयत् ॥ ३ ॥

Text 4

श्रेयस्त्वं कतमद्राजन् कर्मणात्मन ईहसे । दु:खहानि: सुखावाप्ति: श्रेयस्तन्नेह चेष्यते ॥ ४ ॥

Text 5

राजोवाच
न जानामि महाभाग परं कर्मापविद्धधी: ।
ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभि: ॥ ५ ॥

Text 6

गृहेषु कूटधर्मेषु पुत्रदारधनार्थधी: ।
न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु ॥ ६ ॥

Text 7

नारद उवाच
भो भो: प्रजापते राजन् पशून् पश्य
त्वयाध्वरे ।
संज्ञापिताञ्जीवसङ्घान्निर्घृणेन सहस्रश: ॥ ७ ॥

Text 8

एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं
तव ।
सम्परेतम् अय:कूटैश्छिन्दन्त्युत्थितमन्यव: ॥ ८ ॥

Text 9

अत्र ते कथयिष्येऽमुमितिहासं पुरातनम् ।
पुरञ्जनस्य चरितं निबोध गदतो मम ॥ ९ ॥

Text 10

आसीत्पुरञ्जनो नाम राजा राजन् बृहच्छ्रवा: ।
तस्याविज्ञातनामासीत्सखाविज्ञातचेष्टित: ॥ १० ॥

Text 11

सोऽन्वेषमाण: शरणं बभ्राम पृथिवीं प्रभु: ।
नानुरूपं यदाविन्ददभूत्स विमना इव ॥ ११ ॥

Text 12

न साधु मेने ता: सर्वा भूतले यावती:
पुर: ।
कामान् कामयमानोऽसौ तस्य तस्योपपत्तये ॥ १२ ॥

Text 13

स एकदा हिमवतो दक्षिणेष्वथ सानुषु ।
ददर्श नवभिर्द्वार्भि: पुरं लक्षितलक्षणाम् ॥ १३ ॥

Text 14

प्राकारोपवनाट्टालपरिखैरक्षतोरणै: ।
स्वर्णरौप्यायसै: श‍ृङ्गै: सङ्कुलां सर्वतो गृहै: ॥ १४ ॥

Text 15

नीलस्फटिकवैदूर्यमुक्तामरकतारुणै: ।
क्लृप्तहर्म्यस्थलीं दीप्तां श्रिया भोगवतीमिव ॥ १५ ॥

Text 16

सभाचत्वररथ्याभिराक्रीडायतनापणै: ।
चैत्यध्वजपताकाभिर्युक्तां विद्रुमवेदिभि: ॥ १६ ॥

Text 17

पुर्यास्तु बाह्योपवने दिव्यद्रुमलताकुले ।
नदद्विहङ्गालिकुलकोलाहलजलाशये ॥ १७ ॥

Text 18

हिमनिर्झरविप्रुष्मत्कुसुमाकरवायुना ।
चलत्प्रवालविटपनलिनीतटसम्पदि ॥ १८ ॥

Text 19

नानारण्यमृगव्रातैरनाबाधे मुनिव्रतै: ।
आहूतं मन्यते पान्थो यत्र कोकिलकूजितै: ॥ १९ ॥

Text 20

यद‍ृच्छयागतां तत्र ददर्श प्रमदोत्तमाम् ।
भृत्यैर्दशभिरायान्तीमेकैकशतनायकै: ॥ २० ॥

Text 21

पञ्चशीर्षाहिना गुप्तां प्रतीहारेण सर्वत: ।
अन्वेषमाणामृषभमप्रौढां कामरूपिणीम् ॥ २१ ॥

Text 22

सुनासां सुदतीं बालां सुकपोलां वराननाम् ।
समविन्यस्तकर्णाभ्यां बिभ्रतीं कुण्डलश्रियम् ॥ २२ ॥

Text 23

पिशङ्गनीवीं सुश्रोणीं श्यामां कनकमेखलाम् ।
पद्‌भ्यां क्‍वणद्‌भ्यां चलन्तीं नूपुरैर्देवतामिव ॥ २३ ॥

Text 24

स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ ।
वस्त्रान्तेन निगूहन्तीं व्रीडया गजगामिनीम् ॥ २४ ॥

Text 25

तामाह ललितं वीर: सव्रीडस्मितशोभनाम् ।
स्‍निग्धेनापाङ्गपुङ्खेन स्पृष्ट: प्रेमोद्भ्रमद्भ्रुवा ॥ २५ ॥

Text 26

का त्वं कञ्जपलाशाक्षि कस्यासीह कुत: सति ।
इमामुप पुरीं भीरु किं चिकीर्षसि शंस मे ॥ २६ ॥

Text 27

क एतेऽनुपथा ये त एकादश महाभटा: ।
एता वा ललना: सुभ्रु कोऽयं तेऽहि: पुर:सर: ॥ २७ ॥

Text 28

त्वं ह्रीर्भवान्यस्यथ वाग्रमा पतिं
विचिन्वती किं मुनिवद्रहो वने ।
त्वदङ्‌घ्रिकामाप्तसमस्तकामं
क्‍व पद्मकोश: पतित: कराग्रात् ॥ २८ ॥

Text 29

नासां वरोर्वन्यतमा भुविस्पृक्
पुरीमिमां वीरवरेण साकम् ।
अर्हस्यलङ्कर्तुमदभ्रकर्मणा
लोकं परं श्रीरिव यज्ञपुंसा ॥ २९ ॥

Text 30

यदेष मापाङ्गविखण्डितेन्द्रियं
सव्रीडभावस्मितविभ्रमद्भ्रुवा ।
त्वयोपसृष्टो भगवान्मनोभव:
प्रबाधतेऽथानुगृहाण शोभने ॥ ३० ॥

Text 31

त्वदाननं सुभ्रु सुतारलोचनं
व्यालम्बिनीलालकवृन्दसंवृतम् ।
उन्नीय मे दर्शय वल्गुवाचकं
यद्‌व्रीडया नाभिमुखं शुचिस्मिते ॥ ३१ ॥

Text 32

नारद उवाच
इत्थं पुरञ्जनं नारी याचमानमधीरवत् ।
अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता ॥ ३२ ॥

Text 33

न विदाम वयं सम्यक्‍कर्तारं पुरुषर्षभ ।
आत्मनश्च परस्यापि गोत्रं नाम च यत्कृतम् ॥ ३३ ॥

Text 34

इहाद्य सन्तमात्मानं विदाम न तत: परम् ।
येनेयं निर्मिता वीर पुरी शरणमात्मन: ॥ ३४ ॥

Text 35

एते सखाय: सख्यो मे नरा नार्यश्च मानद ।
सुप्तायां मयि जागर्ति नागोऽयं पालयन् पुरीम् ॥ ३५ ॥

Text 36

दिष्ट्यागतोऽसि भद्रं ते ग्राम्यान् कामानभीप्ससे ।
उद्वहिष्यामि तांस्तेऽहं स्वबन्धुभिररिन्दम ॥ ३६ ॥

Text 37

इमां त्वमधितिष्ठस्व पुरीं नवमुखीं विभो ।
मयोपनीतान् गृह्णान: कामभोगान् शतं समा: ॥ ३७ ॥

Text 38

कं नु त्वदन्यं रमये ह्यरतिज्ञमकोविदम् ।
असम्परायाभिमुखमश्वस्तनविदं पशुम् ॥ ३८ ॥

Text 39

धर्मो ह्यत्रार्थकामौ च प्रजानन्दोऽमृतं यश: ।
लोका विशोका विरजा यान्न केवलिनो विदु: ॥ ३९ ॥

Text 40

पितृदेवर्षिमर्त्यानां भूतानामात्मनश्च ह ।
क्षेम्यं वदन्ति शरणं भवेऽस्मिन् यद्गृहाश्रम: ॥ ४० ॥

Text 41

का नाम वीर विख्यातं वदान्यं प्रियदर्शनम् ।
न वृणीत प्रियं प्राप्तं माद‍ृशी त्वाद‍ृशं पतिम् ॥ ४१ ॥

Text 42

कस्या मनस्ते भुवि भोगिभोगयो:
स्त्रिया न सज्जेद्भुजयोर्महाभुज ।
योऽनाथवर्गाधिमलं घृणोद्धत
स्मितावलोकेन चरत्यपोहितुम् ॥ ४२ ॥

Text 43

नारद उवाच
इति तौ दम्पती तत्र समुद्य समयं मिथ: ।
तां प्रविश्य पुरीं राजन्मुमुदाते शतं समा: ॥ ४३ ॥

Text 44

उपगीयमानो ललितं तत्र तत्र च गायकै: ।
क्रीडन् परिवृत: स्त्रीभिर्ह्रदिनीमाविशच्छुचौ ॥ ४४ ॥

Text 45

सप्तोपरि कृता द्वार: पुरस्तस्यास्तु द्वे अध: ।
पृथग्विषयगत्यर्थं तस्यां य: कश्चनेश्वर: ॥ ४५ ॥

Text 46

पञ्च द्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा ।
पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ॥ ४६ ॥

Text 47

खद्योताविर्मुखी च प्राग्द्वारावेकत्र निर्मिते ।
विभ्राजितं जनपदं याति ताभ्यां द्युमत्सख: ॥ ४७ ॥

Text 48

नलिनी नालिनी च प्राग्द्वारावेकत्र निर्मिते ।
अवधूतसखस्ताभ्यां विषयं याति सौरभम् ॥ ४८ ॥

Text 49

मुख्या नाम पुरस्ताद् द्वास्तयापणबहूदनौ ।
विषयौ याति पुरराड्रसज्ञविपणान्वित: ॥ ४९ ॥

Text 50

पितृहूर्नृप पुर्या द्वार्दक्षिणेन पुरञ्जन: ।
राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वित: ॥ ५० ॥

Text 51

देवहूर्नाम पुर्या द्वा उत्तरेण पुरञ्जन: ।
राष्ट्रमुत्तरपञ्चालं याति श्रुतधरान्वित: ॥ ५१ ॥

Text 52

आसुरी नाम पश्चाद् द्वास्तया याति पुरञ्जन: ।
ग्रामकं नाम विषयं दुर्मदेन समन्वित: ॥ ५२ ॥

Text 53

निऋर्तिर्नाम पश्चाद् द्वास्तया याति पुरञ्जन: ।
वैशसं नाम विषयं लुब्धकेन समन्वित: ॥ ५३ ॥

Text 54

अन्धावमीषां पौराणां निर्वाक्पेशस्कृतावुभौ ।
अक्षण्वतामधिपतिस्ताभ्यां याति करोति च ॥ ५४ ॥

Text 55

स यर्ह्यन्त:पुरगतो विषूचीनसमन्वित: ।
मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम् ॥ ५५ ॥

Text 56

एवं कर्मसु संसक्त: कामात्मा वञ्चितोऽबुध: ।
महिषी यद्यदीहेत तत्तदेवान्ववर्तत ॥ ५६ ॥

Texts 57-61

क्‍वचित्पिबन्त्यां पिबति मदिरां मदविह्वल: ।
अश्नन्त्यां क्‍वचिदश्नाति जक्षत्यां सह जक्षिति ॥ ५७ ॥
क्‍वचिद्गायति गायन्त्यां रुदत्यां रुदति क्‍वचित् ।
क्‍वचिद्धसन्त्यां हसति जल्पन्त्यामनु जल्पति ॥ ५८ ॥
क्‍वचिद्धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति ।
अनु शेते शयानायामन्वास्ते क्‍वचिदासतीम् ॥ ५९ ॥
क्‍वचिच्छृणोति श‍ृण्वन्त्यां पश्यन्त्यामनु पश्यति ।
क्‍वचिज्जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्‍वचित् ॥ ६० ॥
क्‍वचिच्च शोचतीं जायामनुशोचति दीनवत् ।
अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते ॥ ६१ ॥

Text 62

विप्रलब्धो महिष्यैवं सर्वप्रकृतिवञ्चित: ।
नेच्छन्ननुकरोत्यज्ञ: क्लैब्यात्क्रीडामृगो यथा ॥ ६२ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here