Srimad Bhagavatam | Canto 4 | Chapter 21 | Verses

Text 1 Text 2 चन्दनागुरुतोयार्द्ररथ्याचत्वरमार्गवत् । पुष्पाक्षतफलैस्तोक्‍मैर्लाजैरर्चिर्भिरर्चितम् ॥ २ ॥

0
47

Instructions by Mahārāja Pṛthu

Text 1

मैत्रेय उवाच

मौक्तिकैः कुसुमा-स्रग्भिर्दु कूलैः स्वर्ण-तोरणैः
महा-सुरभिभिर् धूपैर्म ण्डित्ं तत्तत्र वै

Text 2

चन्दनागुरुतोयार्द्ररथ्याचत्वरमार्गवत् ।
पुष्पाक्षतफलैस्तोक्‍मैर्लाजैरर्चिर्भिरर्चितम् ॥ २ ॥

Text 3

सवृन्दै: कदलीस्तम्भै: पूगपोतै: परिष्कृतम् ।
तरुपल्लवमालाभि: सर्वत: समलङ्‌कृतम् ॥ ३ ॥

Text 4

प्रजास्तं दीपबलिभि: सम्भृताशेषमङ्गलै: ।
अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिता: ॥ ४ ॥

Text 5

शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम् ।
विवेश भवनं वीर: स्तूयमानो गतस्मय: ॥ ५ ॥

Text 6

पूजित: पूजयामास तत्र तत्र महायशा: ।
पौराञ्जानपदांस्तांस्तान्प्रीत: प्रियवरप्रद: ॥ ६ ॥

Text 7

स एवमादीन्यनवद्यचेष्टित:
कर्माणि भूयांसि महान्महत्तम: ।
कुर्वन् शशासावनिमण्डलं यश:
स्फीतं निधायारुरुहे परं पदम् ॥ ७ ॥

Text 8

सूत उवाच
तदादिराजस्य यशो विजृम्भितं
गुणैरशेषैर्गुणवत्सभाजितम् ।
क्षत्ता महाभागवत: सदस्पते
कौषारविं प्राह गृणन्तमर्चयन् ॥ ८ ॥

Text 9

विदुर उवाच
सोऽभिषिक्त: पृथुर्विप्रैर्लब्धाशेषसुरार्हण: ।
बिभ्रत् स वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम् ॥ ९ ॥

Text 10

को न्वस्य कीर्तिं न श‍ृणोत्यभिज्ञो
यद्विक्रमोच्छिष्टमशेषभूपा: ।
लोका: सपाला उपजीवन्ति काम-
मद्यापि तन्मे वद कर्म शुद्धम् ॥ १० ॥

Text 11

मैत्रेय उवाच
गङ्गायमुनयोर्नद्योरन्तरा क्षेत्रमावसन् ।
आरब्धानेव बुभुजे भोगान् पुण्यजिहासया ॥ ११ ॥

Text 12

सर्वत्रास्खलितादेश: सप्तद्वीपैकदण्डधृक् ।
अन्यत्र ब्राह्मणकुलादन्यत्राच्युतगोत्रत: ॥ १२ ॥

Text 13

एकदासीन्महासत्रदीक्षा तत्र दिवौकसाम् ।
समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम ॥ १३ ॥

Text 14

तस्मिन्नर्हत्सु सर्वेषु स्वर्चितेषु यथार्हत: ।
उत्थित: सदसो मध्ये ताराणामुडुराडिव ॥ १४ ॥

Text 15

प्रांशु: पीनायतभुजो गौर: कञ्जारुणेक्षण: ।
सुनास: सुमुख: सौम्य: पीनांस: सुद्विजस्मित: ॥ १५ ॥

Text 16

व्यूढवक्षा बृहच्छ्रोणिर्वलिवल्गुदलोदर: ।
आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्रपात् ॥ १६ ॥

Text 17

सूक्ष्मवक्रासितस्‍निग्धमूर्धज: कम्बुकन्धर: ।
महाधने दुकूलाग्र्ये परिधायोपवीय च ॥ १७ ॥

Text 18

व्यञ्जिताशेषगात्रश्रीर्नियमे न्यस्तभूषण: ।
कृष्णाजिनधर: श्रीमान् कुशपाणि:कृतोचित: ॥ १८ ॥

Text 19

शिशिरस्‍निग्धताराक्ष: समैक्षत समन्तत: ।
ऊचिवानिदमुर्वीश: सद: संहर्षयन्निव ॥ १९ ॥

Text 20

चारु चित्रपदं श्लक्ष्णं मृष्टं गूढमविक्लवम् ।
सर्वेषामुपकारार्थं तदा अनुवदन्निव ॥ २० ॥

Text 21

राजोवाच
सभ्या: श‍ृणुत भद्रं व: साधवो य इहागता: ।
सत्सु जिज्ञासुभिर्धर्ममावेद्यं स्वमनीषितम् ॥ २१ ॥

Text 22

अहं दण्डधरो राजा प्रजानामिह योजित: ।
रक्षिता वृत्तिद: स्वेषु सेतुषु स्थापिता पृथक् ॥ २२ ॥

Text 23

तस्य मे तदनुष्ठानाद्यानाहुर्ब्रह्मवादिन: ।
लोका: स्यु: कामसन्दोहा यस्य तुष्यति दिष्टद‍ृक् ॥ २३ ॥

Text 24

य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन् ।
प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति स: ॥ २४ ॥

Text 25

तत् प्रजा भर्तृपिण्डार्थं स्वार्थमेवानसूयव: ।
कुरुताधोक्षजधियस्तर्हि मेऽनुग्रह: कृत: ॥ २५ ॥

Text 26

यूयं तदनुमोदध्वं पितृदेवर्षयोऽमला: ।
कर्तु: शास्तुरनुज्ञातुस्तुल्यं यत्प्रेत्य तत्फलम् ॥ २६ ॥

Text 27

अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमा: ।
इहामुत्र च लक्ष्यन्ते ज्योत्‍स्‍नावत्य: क्‍वचिद्भुव: ॥ २७ ॥

Texts 28-29

मनोरुत्तानपादस्य ध्रुवस्यापि महीपते: ।
प्रियव्रतस्य राजर्षेरङ्गस्यास्मत्पितु: पितु: ॥ २८ ॥
ईद‍ृशानामथान्येषामजस्य च भवस्य च ।
प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता ॥ २९ ॥

Text 30

दौहित्रादीनृते मृत्यो: शोच्यान् धर्मविमोहितान् ।
वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना ॥ ३० ॥

Text 31

यत्पादसेवाभिरुचिस्तपस्विना-
मशेषजन्मोपचितं मलं धिय: ।
सद्य: क्षिणोत्यन्वहमेधती सती
यथा पदाङ्गुष्ठविनि:सृता सरित् ॥ ३१ ॥

Text 32

विनिर्धुताशेषमनोमल: पुमा-
नसङ्गविज्ञानविशेषवीर्यवान् ।
यदङ्‌घ्रिमूले कृतकेतन: पुन-
र्न संसृतिं क्लेशवहां प्रपद्यते ॥ ३२ ॥

Text 33

तमेव यूयं भजतात्मवृत्तिभि-
र्मनोवच:कायगुणै: स्वकर्मभि: ।
अमायिन: कामदुघाङ्‌घ्रिपङ्कजं
यथाधिकारावसितार्थसिद्धय: ॥ ३३ ॥

Text 34

असाविहानेकगुणोऽगुणोऽध्वर:
पृथग्विधद्रव्यगुणक्रियोक्तिभि: ।
सम्पद्यतेऽर्थाशयलिङ्गनामभि-
र्विशुद्धविज्ञानघन: स्वरूपत: ॥ ३४ ॥

Text 35

प्रधानकालाशयधर्मसङ्ग्रहे
शरीर एष प्रतिपद्य चेतनाम् ।
क्रियाफलत्वेन विभुर्विभाव्यते
यथानलो दारुषु तद्गुणात्मक: ॥ ३५ ॥

Text 36

अहो ममामी वितरन्त्यनुग्रहं
हरिं गुरुं यज्ञभुजामधीश्वरम् ।
स्वधर्मयोगेन यजन्ति मामका
निरन्तरं क्षोणितले द‍ृढव्रता: ॥ ३६ ॥

Text 37

मा जातु तेज: प्रभवेन्महर्द्धिभि-
स्तितिक्षया तपसा विद्यया च ।
देदीप्यमानेऽजितदेवतानां
कुले स्वयं राजकुलाद् द्विजानाम् ॥ ३७ ॥

Text 38

ब्रह्मण्यदेव: पुरुष: पुरातनो
नित्यं हरिर्यच्चरणाभिवन्दनात् ।
अवाप लक्ष्मीमनपायिनीं यशो
जगत्पवित्रं च महत्तमाग्रणी: ॥ ३८ ॥

Text 39

यत्सेवयाशेषगुहाशय: स्वराड्
विप्रप्रियस्तुष्यति काममीश्वर: ।
तदेव तद्धर्मपरैर्विनीतै:
सर्वात्मना ब्रह्मकुलं निषेव्यताम् ॥ ३९ ॥

Text 40

पुमाँल्लभेतानतिवेलमात्मन:
प्रसीदतोऽत्यन्तशमं स्वत: स्वयम् ।
यन्नित्यसम्बन्धनिषेवया तत:
परं किमत्रास्ति मुखं हविर्भुजाम् ॥ ४० ॥

Text 41

अश्नात्यनन्त: खलु तत्त्वकोविदै:
श्रद्धाहुतं यन्मुख इज्यनामभि: ।
न वै तथा चेतनया बहिष्कृते
हुताशने पारमहंस्यपर्यगु: ॥ ४१ ॥

Text 42

यद्ब्रह्म नित्यं विरजं सनातनं
श्रद्धातपोमङ्गलमौनसंयमै: ।
समाधिना बिभ्रति हार्थद‍ृष्टये
यत्रेदमादर्श इवावभासते ॥ ४२ ॥

Text 43

तेषामहं पादसरोजरेणु-
मार्या वहेयाधिकिरीटमायु: ।
यं नित्यदा बिभ्रत आशु पापं
नश्यत्यमुं सर्वगुणा भजन्ति ॥ ४३ ॥

Text 44

गुणायनं शीलधनं कृतज्ञं
वृद्धाश्रयं संवृणतेऽनु सम्पद: ।
प्रसीदतां ब्रह्मकुलं गवां च
जनार्दन: सानुचरश्च मह्यम् ॥ ४४ ॥

Text 45

मैत्रेय उवाच
इति ब्रुवाणं नृपतिं पितृदेवद्विजातय: ।
तुष्टुवुर्हृष्टमनस: साधुवादेन साधव: ॥ ४५ ॥

Text 46

पुत्रेण जयते लोकानिति सत्यवती श्रुति: ।
ब्रह्मदण्डहत: पापो यद्वेनोऽत्यतरत्तम: ॥ ४६ ॥

Text 47

हिरण्यकशिपुश्चापि भगवन्निन्दया तम: ।
विविक्षुरत्यगात्सूनो: प्रह्लादस्यानुभावत: ॥ ४७ ॥

Text 48

वीरवर्य पित: पृथ्व्या: समा: सञ्जीव शाश्वती: ।
यस्येद‍ृश्यच्युते भक्ति: सर्वलोकैकभर्तरि ॥ ४८ ॥

Text 49

अहो वयं ह्यद्य पवित्रकीर्ते
त्वयैव नाथेन मुकुन्दनाथा: ।
य उत्तमश्लोकतमस्य विष्णो-
र्ब्रह्मण्यदेवस्य कथां व्यनक्ति ॥ ४९ ॥

Text 50

नात्यद्भुतमिदं नाथ तवाजीव्यानुशासनम् ।
प्रजानुरागो महतां प्रकृति: करुणात्मनाम् ॥ ५० ॥

Text 51

अद्य नस्तमस: पारस्त्वयोपासादित: प्रभो ।
भ्राम्यतां नष्टद‍ृष्टीनां कर्मभिर्दैवसंज्ञितै: ॥ ५१ ॥

Text 52

नमो विवृद्धसत्त्वाय पुरुषाय महीयसे ।
यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा ॥ ५२ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here