Pṛthu Mahārāja Milks the Earth Planet
Text 1
मैत्रेय उवाच
इत्थं पृथुमभिष्टूय रुषा प्रस्फुरिताधरम् ।
पुनराहावनिर्भीता संस्तभ्यात्मानमात्मना ॥ १ ॥
Text 2
सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे ।
सर्वत: सारमादत्ते यथा मधुकरो बुध: ॥ २ ॥
Text 3
अस्मिँल्लोकेऽथवामुष्मिन्मुनिभिस्तत्त्वदर्शिभि: ।
दृष्टा योगा: प्रयुक्ताश्च पुंसां श्रेय:प्रसिद्धये ॥ ३ ॥
Text 4
तानातिष्ठति य: सम्यगुपायान् पूर्वदर्शितान् ।
अवर: श्रद्धयोपेत उपेयान् विन्दतेऽञ्जसा ॥ ४ ॥
Text 5
ताननादृत्य योऽविद्वानर्थानारभते स्वयम् ।
तस्य व्यभिचरन्त्यर्था आरब्धाश्च पुन: पुन: ॥ ५ ॥
Text 6
पुरा सृष्टा ह्योषधयो ब्रह्मणा या विशाम्पते ।
भुज्यमाना मया दृष्टा असद्भिरधृतव्रतै: ॥ ६ ॥
Text 7
अपालितानादृता च भवद्भिर्लोकपालकै: ।
चोरीभूतेऽथ लोकेऽहं यज्ञार्थेऽग्रसमोषधी: ॥ ७ ॥
Text 8
नूनं ता वीरुध: क्षीणा मयि कालेन भूयसा ।
तत्र योगेन दृष्टेन भवानादातुमर्हति ॥ ८ ॥
Texts 9-10
वत्सं कल्पय मे वीर येनाहं वत्सला तव ।
धोक्ष्ये क्षीरमयान्कामाननुरूपं च दोहनम् ॥ ९ ॥
दोग्धारं च महाबाहो भूतानां भूतभावन ।
अन्नमीप्सितमूर्जस्वद्भगवान् वाञ्छते यदि ॥ १० ॥
Text 11
समां च कुरु मां राजन्देववृष्टं यथा पय: ।
अपर्तावपि भद्रं ते उपावर्तेत मे विभो ॥ ११ ॥
Text 12
इति प्रियं हितं वाक्यं भुव आदाय भूपति: ।
वत्सं कृत्वा मनुं पाणावदुहत्सकलौषधी: ॥ १२ ॥
Text 13
तथापरे च सर्वत्र सारमाददते बुधा: ।
ततोऽन्ये च यथाकामं दुदुहु: पृथुभाविताम् ॥ १३ ॥
Text 14
ऋषयो दुदुहुर्देवीमिन्द्रियेष्वथ सत्तम ।
वत्सं बृहस्पतिं कृत्वा पयश्छन्दोमयं शुचि ॥ १४ ॥
Text 15
कृत्वा वत्सं सुरगणा इन्द्रं सोममदूदुहन् ।
हिरण्मयेन पात्रेण वीर्यमोजो बलं पय: ॥ १५ ॥
Text 16
दैतेया दानवा वत्सं प्रह्लादमसुरर्षभम् ।
विधायादूदुहन् क्षीरमय:पात्रे सुरासवम् ॥ १६ ॥
Text 17
गन्धर्वाप्सरसोऽधुक्षन् पात्रे पद्ममये पय: ।
वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥ १७ ॥
Text 18
वत्सेन पितरोऽर्यम्णा कव्यं क्षीरमधुक्षत ।
आमपात्रे महाभागा: श्रद्धया श्राद्धदेवता: ॥ १८ ॥
Text 19
प्रकल्प्य वत्सं कपिलं सिद्धा: सङ्कल्पनामयीम् ।
सिद्धिं नभसि विद्यां च ये च विद्याधरादय: ॥ १९ ॥
Text 20
अन्ये च मायिनो मायामन्तर्धानाद्भुतात्मनाम् ।
मयं प्रकल्प्य वत्सं ते दुदुहुर्धारणामयीम् ॥ २० ॥
Text 21
यक्षरक्षांसि भूतानि पिशाचा: पिशिताशना: ।
भूतेशवत्सा दुदुहु: कपाले क्षतजासवम् ॥ २१ ॥
Text 22
तथाहयो दन्दशूका: सर्पा नागाश्च तक्षकम् ।
विधाय वत्सं दुदुहुर्बिलपात्रे विषं पय: ॥ २२ ॥
Texts 23-24
पशवो यवसं क्षीरं वत्सं कृत्वा च गोवृषम् ।
अरण्यपात्रे चाधुक्षन्मृगेन्द्रेण च दंष्ट्रिण: ॥ २३ ॥
क्रव्यादा: प्राणिन: क्रव्यं दुदुहु: स्वे कलेवरे ।
सुपर्णवत्सा विहगाश्चरं चाचरमेव च ॥ २४ ॥
Text 25
वटवत्सा वनस्पतय: पृथग्रसमयं पय: ।
गिरयो हिमवद्वत्सा नानाधातून् स्वसानुषु ॥ २५ ॥
Text 26
सर्वे स्वमुख्यवत्सेन स्वे स्वे पात्रे पृथक् पय: ।
सर्वकामदुघां पृथ्वीं दुदुहु: पृथुभाविताम् ॥ २६ ॥
Text 27
एवं पृथ्वादय: पृथ्वीमन्नादा: स्वन्नमात्मन: ।
दोहवत्सादिभेदेन क्षीरभेदं कुरूद्वह ॥ २७ ॥
Text 28
ततो महीपति: प्रीत: सर्वकामदुघां पृथु: ।
दुहितृत्वे चकारेमां प्रेम्णा दुहितृवत्सल: ॥ २८ ॥
Text 29
चूर्णयन् स्वधनुष्कोट्या गिरिकूटानि राजराट् ।
भूमण्डलमिदं वैन्य: प्रायश्चक्रे समं विभु: ॥ २९ ॥
Text 30
अथास्मिन् भगवान् वैन्य: प्रजानां वृत्तिद: पिता ।
निवासान् कल्पयां चक्रे तत्र तत्र यथार्हत: ॥ ३० ॥
Text 31
ग्रामान् पुर: पत्तनानि दुर्गाणि विविधानि च ।
घोषान् व्रजान् सशिबिरानाकरान् खेटखर्वटान् ॥ ३१ ॥
Text 32
प्राक्पृथोरिह नैवैषा पुरग्रामादिकल्पना ।
यथासुखं वसन्ति स्म तत्र तत्राकुतोभया: ॥ ३२ ॥






