Srimad Bhagavatam | Canto 4 | Chapter 17 | Verses

Text 1 मैत्रेय उवाच एवं स भगवान् वैन्य: ख्यापितो गुणकर्मभि: । छन्दयामास तान् कामै: प्रतिपूज्याभिनन्द्य च ॥ १ ॥

0
28

Mahārāja Pṛthu Becomes Angry at the Earth

Text 1

मैत्रेय उवाच
एवं स भगवान् वैन्य: ख्यापितो गुणकर्मभि: । छन्दयामास तान् कामै: प्रतिपूज्याभिनन्द्य च ॥ १ ॥

Text 2

ब्राह्मणप्रमुखान् वर्णान् भृत्यामात्यपुरोधस: । पौराञ्जानपदान् श्रेणी: प्रकृती: समपूजयत् ॥ २ ॥

Text 3

विदुर उवाच
कस्माद्दधार गोरूपं धरित्री बहुरूपिणी । यां दुदोह पृथुस्तत्र को वत्सो दोहनं च किम् ॥ ३ ॥

Text 4

प्रकृत्या विषमा देवी कृता तेन समा कथम् । तस्य मेध्यं हयं देव: कस्य हेतोरपाहरत् ॥ ४ ॥

Text 5

सनत्कुमाराद्भगवतो ब्रह्मन् ब्रह्मविदुत्तमात् । लब्ध्वा ज्ञानं सविज्ञानं राजर्षि: कां गतिं गत: ॥ ५ ॥

Texts 6-7

यच्चान्यदपि कृष्णस्य भवान् भगवत: प्रभो: । श्रव: सुश्रवस: पुण्यं पूर्वदेहकथाश्रयम् ॥ ६ ॥ भक्ताय मेऽनुरक्ताय तव चाधोक्षजस्य च । वक्तुमर्हसि योऽदुह्यद्वैन्यरूपेण गामिमाम् ॥ ७ ॥

Text 8

सूत उवाच
चोदितो विदुरेणैवं वासुदेवकथां प्रति । प्रशस्य तं प्रीतमना मैत्रेय: प्रत्यभाषत ॥ ८ ॥

Text 9

मैत्रेय उवाच
यदाभिषिक्त: पृथुरङ्ग विप्रै-रामन्त्रितो जनतायाश्च पाल: । प्रजा निरन्ने क्षितिपृष्ठ एत्यक्षुत्क्षामदेहा: पतिमभ्यवोचन् ॥ ९ ॥

Texts 10-11

वयं राजञ्जाठरेणाभितप्तायथाग्निना कोटरस्थेन वृक्षा: । त्वामद्य याता: शरणं शरण्यंय: साधितो वृत्तिकर: पतिर्न: ॥ १० ॥ तन्नो भवानीहतु रातवेऽन्नंक्षुधार्दितानां नरदेवदेव । यावन्न नङ्‍क्ष्यामह उज्झितोर्जावार्तापतिस्त्वं किल लोकपाल: ॥ ११ ॥

Text 12

मैत्रेय उवाच
पृथु: प्रजानां करुणं निशम्य परिदेवितम् । दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सोऽन्वपद्यत ॥ १२ ॥

Text 13

इति व्यवसितो बुद्ध्या प्रगृहीतशरासन: । सन्दधे विशिखं भूमे: क्रुद्धस्त्रिपुरहा यथा ॥ १३ ॥

Text 14

प्रवेपमाना धरणी निशाम्योदायुधं च तम् । गौ: सत्यपाद्रवद्भीता मृगीव मृगयुद्रुता ॥ १४ ॥

Text 15

तामन्वधावत्तद्वैन्य: कुपितोऽत्यरुणेक्षण: । शरं धनुषि सन्धाय यत्र यत्र पलायते ॥ १५ ॥

Text 16

सा दिशो विदिशो देवी रोदसी चान्तरं तयो: । धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् ॥ १६ ॥

Text 17

लोके नाविन्दत त्राणं वैन्यान्मृत्योरिव प्रजा: । त्रस्ता तदा निववृते हृदयेन विदूयता ॥ १७ ॥

Text 18

उवाच च महाभागं धर्मज्ञापन्नवत्सल । त्राहि मामपि भूतानां पालनेऽवस्थितो भवान् ॥ १८ ॥

Text 19

स त्वं जिघांससे कस्माद्दीनामकृतकिल्बिषाम् । अहनिष्यत्कथं योषां धर्मज्ञ इति यो मत: ॥ १९ ॥

Text 20

प्रहरन्ति न वै स्त्रीषु कृताग:स्वपि जन्तव: । किमुत त्वद्विधा राजन् करुणा दीनवत्सला: ॥ २० ॥

Text 21

मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् । आत्मानं च प्रजाश्चेमा: कथमम्भसि धास्यसि ॥ २१ ॥

Text 22

पृथुरुवाच
वसुधे त्वां वधिष्यामि मच्छासनपराङ्‍मुखीम् । भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु ॥ २२ ॥

Text 23

यवसं जग्ध्यनुदिनं नैव दोग्ध्यौधसं पय: । तस्यामेवं हि दुष्टायां दण्डो नात्र न शस्यते ॥ २३ ॥

Text 24

त्वं खल्वोषधिबीजानि प्राक् सृष्टानि स्वयम्भुवा । न मुञ्चस्यात्मरुद्धानि मामवज्ञाय मन्दधी: ॥ २४ ॥

Text 25

अमूषां क्षुत्परीतानामार्तानां परिदेवितम् । शमयिष्यामि मद्बाणैर्भिन्नायास्तव मेदसा ॥ २५ ॥

Text 26

पुमान् योषिदुत क्लीब आत्मसम्भावनोऽधम: । भूतेषु निरनुक्रोशो नृपाणां तद्वधोऽवध: ॥ २६ ॥

Text 27

त्वां स्तब्धां दुर्मदां नीत्वा मायागां तिलश: शरै: ।
आत्मयोगबलेनेमा धारयिष्याम्यहं प्रजा: ॥ २७ ॥

Text 28

एवं मन्युमयीं मूर्तिं कृतान्तमिव बिभ्रतम् ।
प्रणता प्राञ्जलि: प्राह मही सञ्जातवेपथु: ॥ २८ ॥

Text 29

धरोवाच
नम: परस्मै पुरुषाय मायया
विन्यस्तनानातनवे गुणात्मने ।
नम: स्वरूपानुभवेन निर्धुत
द्रव्यक्रियाकारकविभ्रमोर्मये ॥ २९ ॥

Text 30

येनाहमात्मायतनं विनिर्मिता
धात्रा यतोऽयं गुणसर्गसङ्ग्रह: ।
स एव मां हन्तुमुदायुध: स्वरा-
डुपस्थितोऽन्यं शरणं कमाश्रये ॥ ३० ॥

Text 31

य एतदादावसृजच्चराचरं
स्वमाययात्माश्रययावितर्क्यया ।
तयैव सोऽयं किल गोप्तुमुद्यत:
कथं नु मां धर्मपरो जिघांसति ॥ ३१ ॥

Text 32

नूनं बतेशस्य समीहितं जनै-
स्तन्मायया दुर्जययाकृतात्मभि: ।
न लक्ष्यते यस्त्वकरोदकारयद्
योऽनेक एक: परतश्च ईश्वर: ॥ ३२ ॥

Text 33

सर्गादि योऽस्यानुरुणद्धि शक्तिभि-
र्द्रव्यक्रियाकारकचेतनात्मभि: ।
तस्मै समुन्नद्धनिरुद्धशक्तये
नम: परस्मै पुरुषाय वेधसे ॥ ३३ ॥

Text 34

स वै भवानात्मविनिर्मितं जगद्
भूतेन्द्रियान्त:करणात्मकं विभो ।
संस्थापयिष्यन्नज मां रसातला-
दभ्युज्जहाराम्भस आदिसूकर: ॥ ३४ ॥

Text 35

अपामुपस्थे मयि नाव्यवस्थिता:
प्रजा भवानद्य रिरक्षिषु: किल ।
स वीरमूर्ति: समभूद्धराधरो
यो मां पयस्युग्रशरो जिघांससि ॥ ३५ ॥

Text 36

नूनं जनैरीहितमीश्वराणा-
मस्मद्विधैस्तद्गुणसर्गमायया ।
न ज्ञायते मोहितचित्तवर्त्मभि-
स्तेभ्यो नमो वीरयशस्करेभ्य: ॥ ३६ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here