Srimad Bhagavatam | Canto 4 | Chapter 14 | Verses

Text 1 मैत्रेय उवाच भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिन: । गोप्तर्यसति वै नृणां पश्यन्त: पशुसाम्यताम् ॥ १ ॥

0
47

The Story of King Vena

Text 1

मैत्रेय उवाच
भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिन: ।
गोप्तर्यसति वै नृणां पश्यन्त: पशुसाम्यताम् ॥ १ ॥

Text 2

वीरमातरमाहूय सुनीथां ब्रह्मवादिन: ।
प्रकृत्यसम्मतं वेनमभ्यषिञ्चन् पतिं भुव: ॥ २ ॥

Text 3

श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम् ।
निलिल्युर्दस्यव: सद्य: सर्पत्रस्ता इवाखव: ॥ ३ ॥

Text 4

स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभि: ।
अवमेने महाभागान् स्तब्ध: सम्भावित: स्वत: ॥ ४ ॥

Text 5

एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विप: ।
पर्यटन् रथमास्थाय कम्पयन्निव रोदसी ॥ ५ ॥

Text 6

न यष्टव्यं न दातव्यं न होतव्यं द्विजा: क्‍वचित् ।
इति न्यवारयद्धर्मं भेरीघोषेण सर्वश: ॥ ६ ॥

Text 7

वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् ।
विमृश्य लोकव्यसनं कृपयोचु: स्म सत्रिण: ॥ ७ ॥

Text 8

अहो उभयत: प्राप्तं लोकस्य व्यसनं महत् ।
दारुण्युभयतो दीप्ते इव तस्करपालयो: ॥ ८ ॥

Text 9

अराजकभयादेष कृतो राजातदर्हण: ।
ततोऽप्यासीद्भयं त्वद्य कथं स्यात्स्वस्ति देहिनाम् ॥ ९ ॥

Text 10

अहेरिव पय:पोष: पोषकस्याप्यनर्थभृत् ।
वेन: प्रकृत्यैव खल: सुनीथागर्भसम्भव: ॥ १० ॥

Text 11

निरूपित: प्रजापाल: स जिघांसति वै प्रजा: ।
तथापि सान्‍त्वयेमामुं नास्मांस्तत्पातकं स्पृशेत् ॥ ११ ॥

Text 12

तद्विद्वद्‌भिरसद्‍वृत्तो वेनोऽस्माभि: कृतो नृप: ।
सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ।
लोकधिक्कारसन्दग्धं दहिष्याम: स्वतेजसा ॥ १२ ॥

Text 13

एवमध्यवसायैनं मुनयो गूढमन्यव: ।
उपव्रज्याब्रुवन् वेनं सान्‍त्वयित्वा च सामभि: ॥ १३ ॥

Text 14

मुनय ऊचु:
नृपवर्य निबोधैतद्यत्ते विज्ञापयाम भो: ।
आयु:श्रीबलकीर्तीनां तव तात विवर्धनम् ॥ १४ ॥

Text 15

धर्म आचरित: पुंसां वाङ्‍मन:कायबुद्धिभि: ।
लोकान् विशोकान् वतरत्यथानन्त्यमसङ्गिनाम् ॥ १५ ॥

Text 16

स ते मा विनशेद्वीर प्रजानां क्षेमलक्षण: ।
यस्मिन् विनष्टे नृपतिरैश्वर्यादवरोहति ॥ १६ ॥

Text 17

राजन्नसाध्वमात्येभ्यश्चोरादिभ्य: प्रजा नृप: ।
रक्षन्यथा बलिं गृह्णन्निह प्रेत्य च मोदते ॥ १७ ॥

Text 18

यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुष: ।
इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितै: ॥ १८ ॥

Text 19

तस्य राज्ञो महाभाग भगवान् भूतभावन: ।
परितुष्यति विश्वात्मा तिष्ठतो निजशासने ॥ १९ ॥

Text 20

तस्मिंस्तुष्टे किमप्राप्यं जगतामीश्वरेश्वरे ।
लोका: सपाला ह्येतस्मै हरन्ति बलिमाद‍ृता: ॥ २० ॥

Text 21

तं सर्वलोकामरयज्ञसङ्ग्रहं
त्रयीमयं द्रव्यमयं तपोमयम् ।
यज्ञैर्विचित्रैर्यजतो भवाय ते
राजन् स्वदेशाननुरोद्धुमर्हसि ॥ २१ ॥

Text 22

यज्ञेन युष्मद्विषये द्विजातिभि-
र्वितायमानेन सुरा: कला हरे: ।
स्विष्टा: सुतुष्टा: प्रदिशन्ति वाञ्छितं
तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ २२ ॥

Text 23

वेन उवाच
बालिशा बत यूयं वा अधर्मे धर्ममानिन: ।
ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते ॥ २३ ॥

Text 24

अवजानन्त्यमी मूढा नृपरूपिणमीश्वरम् ।
नानुविन्दन्ति ते भद्रमिह लोके परत्र च ॥ २४ ॥

Text 25

को यज्ञपुरुषो नाम यत्र वो भक्तिरीद‍ृशी ।
भर्तृस्‍नेहविदूराणां यथा जारे कुयोषिताम् ॥ २५ ॥

Texts 26-27

विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रवि: ।
पर्जन्यो धनद: सोम: क्षितिरग्निरपाम्पति: ॥ २६ ॥
एते चान्ये च विबुधा: प्रभवो वरशापयो: ।
देहे भवन्ति नृपते: सर्वदेवमयो नृप: ॥ २७ ॥

Text 28

तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सरा: ।
बलिं च मह्यं हरत मत्तोऽन्य: कोऽग्रभुक्पुमान् ॥ २८ ॥

Text 29

मैत्रेय उवाच
इत्थं विपर्ययमति: पापीयानुत्पथं गत: ।
अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गल: ॥ २९ ॥

Text 30

इति तेऽसत्कृतास्तेन द्विजा: पण्डितमानिना ।
भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधु: ॥ ३० ॥

Text 31

हन्यतां हन्यतामेष पाप: प्रकृतिदारुण: ।
जीवञ्जगदसावाशु कुरुते भस्मसाद् ध्रुवम् ॥ ३१ ॥

Text 32

नायमर्हत्यसद्‍वृत्तो नरदेववरासनम् ।
योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रप: ॥ ३२ ॥

Text 33

को वैनं परिचक्षीत वेनमेकमृतेऽशुभम् ।
प्राप्त ईद‍ृशमैश्वर्यं यदनुग्रहभाजन: ॥ ३३ ॥

Text 34

इत्थं व्यवसिता हन्तुमृषयो रूढमन्यव: ।
निजघ्नुर्हुङ्कृतैर्वेनं हतमच्युतनिन्दया ॥ ३४ ॥

Text 35

ऋषिभि: स्वाश्रमपदं गते पुत्रकलेवरम् ।
सुनीथा पालयामास विद्यायोगेन शोचती ॥ ३५ ॥

Text 36

एकदा मुनयस्ते तु सरस्वत्सलिलाप्लुता: ।
हुत्वाग्नीन् सत्कथाश्चक्रुरुपविष्टा: सरित्तटे ॥ ३६ ॥

Text 37

वीक्ष्योत्थितांस्तदोत्पातानाहुर्लोकभयङ्करान् ।
अप्यभद्रमनाथाया दस्युभ्यो न भवेद्भुव: ॥ ३७ ॥

Text 38

एवं मृशन्त ऋषयो धावतां सर्वतोदिशम् ।
पांसु: समुत्थितो भूरिश्चोराणामभिलुम्पताम् ॥ ३८ ॥

Texts 39-40

तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम् ।
भर्तर्युपरते तस्मिन्नन्योन्यं च जिघांसताम् ॥ ३९ ॥
चोरप्रायं जनपदं हीनसत्त्वमराजकम् ।
लोकान्नावारयञ्छक्ता अपि तद्दोषदर्शिन: ॥ ४० ॥

Text 41

ब्राह्मण: समद‍ृक् शान्तो दीनानां समुपेक्षक: ।
स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा ॥ ४१ ॥

Text 42

नाङ्गस्य वंशो राजर्षेरेष संस्थातुमर्हति ।
अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रया: ॥ ४२ ॥

Text 43

विनिश्चित्यैवमृषयो विपन्नस्य महीपते: ।
ममन्थुरूरुं तरसा तत्रासीद्बाहुको नर: ॥ ४३ ॥

Text 44

काककृष्णोऽतिह्रस्वाङ्गो ह्रस्वबाहुर्महाहनु: ।
ह्रस्वपान्निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धज: ॥ ४४ ॥

Text 45

तं तु तेऽवनतं दीनं किं करोमीति वादिनम् ।
निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४५ ॥

Text 46

तस्य वंश्यास्तु नैषादा गिरिकाननगोचरा: ।
येनाहरज्जायमानो वेनकल्मषमुल्बणम् ॥ ४६ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here