Srimad Bhagavatam | Canto 3 | Chapter 32 | Verses

Text 1 कपिल उवाच अथ यो गृहमेधीयान्धर्मानेवावसन्गृहे । काममर्थं च धर्मान्स्वान्दोग्धि भूय: पिपर्ति तान् ॥ १ ॥

0
39

Entanglement in Fruitive Activities

Text 1

कपिल उवाच
अथ यो गृहमेधीयान्धर्मानेवावसन्गृहे ।
काममर्थं च धर्मान्स्वान्दोग्धि भूय: पिपर्ति तान् ॥ १ ॥

Text 2

स चापि भगवद्धर्मात्काममूढ: पराङ्‍मुख: ।
यजते क्रतुभिर्देवान्पितृंश्च श्रद्धयान्वित: ॥ २ ॥

Text 3

तच्छ्रद्धयाक्रान्तमति: पितृदेवव्रत: पुमान् ।
गत्वा चान्द्रमसं लोकं सोमपा: पुनरेष्यति ॥ ३ ॥

Text 4

यदा चाहीन्द्रशय्यायां शेतेऽनन्तासनो हरि: ।
तदा लोका लयं यान्ति त एते गृहमेधिनाम् ॥ ४ ॥

Text 5

ये स्वधर्मान्न दुह्यन्ति धीरा: कामार्थहेतवे ।
नि:सङ्गा न्यस्तकर्माण: प्रशान्ता: शुद्धचेतस: ॥ ५ ॥

Text 6

निवृत्तिधर्मनिरता निर्ममा निरहङ्कृता: ।
स्वधर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा ॥ ६ ॥

Text 7

सूर्यद्वारेण ते यान्ति पुरुषं विश्वतोमुखम् ।
परावरेशं प्रकृतिमस्योत्पत्त्यन्तभावनम् ॥ ७ ॥

Text 8

द्विपरार्धावसाने य: प्रलयो ब्रह्मणस्तु ते ।
तावदध्यासते लोकं परस्य परचिन्तका: ॥ ८ ॥

Text 9

क्ष्माम्भोऽनलानिलवियन्मनइन्द्रियार्थ-
भूतादिभि: परिवृतं प्रतिसञ्जिहीर्षु: ।
अव्याकृतं विशति यर्हि गुणत्रयात्मा
कालं पराख्यमनुभूय पर: स्वयम्भू: ॥ ९ ॥

Text 10

एवं परेत्य भगवन्तमनुप्रविष्टा
ये योगिनो जितमरुन्मनसो विरागा: ।
तेनैव साकममृतं पुरुषं पुराणं
ब्रह्म प्रधानमुपयान्त्यगताभिमाना: ॥ १० ॥

Text 11

अथ तं सर्वभूतानां हृत्पद्मेषु कृतालयम् ।
श्रुतानुभावं शरणं व्रज भावेन भामिनि ॥ ११ ॥

Texts 12-15

आद्य: स्थिरचराणां यो वेदगर्भ: सहर्षिभि: ।
योगेश्वरै: कुमाराद्यै: सिद्धैर्योगप्रवर्तकै: ॥ १२ ॥
भेदद‍ृष्टय‍ाभिमानेन नि:सङ्गेनापि कर्मणा ।
कर्तृत्वात्सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ १३ ॥
स संसृत्य पुन: काले कालेनेश्वरमूर्तिना ।
जाते गुणव्यतिकरे यथापूर्वं प्रजायते ॥ १४ ॥
ऐश्वर्यं पारमेष्ठ्यं च तेऽपि धर्मविनिर्मितम् ।
निषेव्य पुनरायान्ति गुणव्यतिकरे सति ॥ १५ ॥

Text 16

ये त्विहासक्तमनस: कर्मसु श्रद्धयान्विता: ।
कुर्वन्त्यप्रतिषिद्धानि नित्यान्यपि च कृत्स्‍नश: ॥ १६ ॥

Text 17

रजसा कुण्ठमनस: कामात्मानोऽजितेन्द्रिया: ।
पितृन् यजन्त्यनुदिनं गृहेष्वभिरताशया: ॥ १७ ॥

Text 18

त्रैवर्गिकास्ते पुरुषा विमुखा हरिमेधस: ।
कथायां कथनीयोरुविक्रमस्य मधुद्विष: ॥ १८ ॥

Text 19

नूनं दैवेन विहता ये चाच्युतकथासुधाम् ।
हित्वा श‍ृण्वन्त्यसद्गाथा: पुरीषमिव विड्भुज: ॥ १९ ॥

Text 20

दक्षिणेन पथार्यम्ण: पितृलोकं व्रजन्ति ते ।
प्रजामनु प्रजायन्ते श्मशानान्तक्रियाकृत: ॥ २० ॥

Text 21

ततस्ते क्षीणसुकृता: पुनर्लोकमिमं सति ।
पतन्ति विवशा देवै: सद्यो विभ्रंशितोदया: ॥ २१ ॥

Text 22

तस्मात्त्वं सर्वभावेन भजस्व परमेष्ठिनम् ।
तद्गुणाश्रयया भक्त्या भजनीयपदाम्बुजम् ॥ २२ ॥

Text 23

वासुदेवे भगवति भक्तियोग: प्रयोजित: ।
जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम् ॥ २३ ॥

Text 24

यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभि: ।
न विगृह्णाति वैषम्यं प्रियमप्रियमित्युत ॥ २४ ॥

Text 25

स तदैवात्मनात्मानं नि:सङ्गं समदर्शनम् ।
हेयोपादेयरहितमारूढं पदमीक्षते ॥ २५ ॥

Text 26

ज्ञानमात्रं परं ब्रह्म परमात्मेश्वर: पुमान् ।
द‍ृश्यादिभि: पृथग्भावैर्भगवानेक ईयते ॥ २६ ॥

Text 27

एतावानेव योगेन समग्रेणेह योगिन: ।
युज्यतेऽभिमतो ह्यर्थो यदसङ्गस्तु कृत्स्‍नश: ॥ २७ ॥

Text 28

ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम् ।
अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा ॥ २८ ॥

Text 29

यथा महानहंरूपस्त्रिवृत्पञ्चविध: स्वराट् ।
एकादशविधस्तस्य वपुरण्डं जगद्यत: ॥ २९ ॥

Text 30

एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यश: ।
समाहितात्मा नि:सङ्गो विरक्त्या परिपश्यति ॥ ३० ॥

Text 31

इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्म-दर्शनम् ।
येनानुबुद्ध्यते तत्त्वं प्रकृते: पुरुषस्य च ॥ ३१ ॥

Text 32

ज्ञानयोगश्च मन्निष्ठो नैर्गुण्यो भक्तिलक्षण: ।
द्वयोरप्येक एवार्थो भगवच्छब्दलक्षण: ॥ ३२ ॥

Text 33

यथेन्द्रियै: पृथग्द्वारैरर्थो बहुगुणाश्रय: ।
एको नानेयते तद्वद्भगवान्शास्त्रवर्त्मभि: ॥ ३३ ॥

Texts 34-36

क्रियया क्रतुभिर्दानैस्तप:स्वाध्यायमर्शनै: ।
आत्मेन्द्रियजयेनापि संन्यासेन च कर्मणाम् ॥ ३४ ॥
योगेन विविधाङ्गेन भक्तियोगेन चैव हि ।
धर्मेणोभयचिह्नेन य: प्रवृत्तिनिवृत्तिमान् ॥ ३५ ॥
आत्मतत्त्वावबोधेन वैराग्येण द‍ृढेन च ।
ईयते भगवानेभि: सगुणो निर्गुण: स्वद‍ृक् ॥ ३६ ॥

Text 37

प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम् ।
कालस्य चाव्यक्तगतेर्योऽन्तर्धावति जन्तुषु ॥ ३७ ॥

Text 38

जीवस्य संसृतीर्बह्वीरविद्याकर्मनिर्मिता: ।
यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मन: ॥ ३८ ॥

Text 39

नैतत्खलायोपदिशेन्नाविनीताय कर्हिचित् ।
न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च ॥ ३९ ॥

Text 40

न लोलुपायोपदिशेन्न गृहारूढचेतसे ।
नाभक्ताय च मे जातु न मद्भक्तद्विषामपि ॥ ४० ॥

Text 41

श्रद्दधानाय भक्ताय विनीतायानसूयवे ।
भूतेषु कृतमैत्राय शुश्रूषाभिरताय च ॥ ४१ ॥

Text 42

बहिर्जातविरागाय शान्तचित्ताय दीयताम् ।
निर्मत्सराय शुचये यस्याहं प्रेयसां प्रिय: ॥ ४२ ॥

Text 43

य इदं श‍ृणुयादम्ब श्रद्धया पुरुष: सकृत् ।
यो वाभिधत्ते मच्चित्त: स ह्येति पदवीं च मे ॥ ४३ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here