The Marriage of Kardama Muni and Devahūti
Text 1
मैत्रेय उवाच
एवमाविष्कृताशेषगुणकर्मोदयो मुनिम् ।
सव्रीड इव तं सम्राडुपारतमुवाच ह ॥ १ ॥
Text 2
मनुरुवाच
ब्रह्मासृजत्स्वमुखतो युष्मानात्मपरीप्सया ।
छन्दोमयस्तपोविद्यायोगयुक्तानलम्पटान् ॥ २ ॥
Text 3
तत्त्राणायासृजच्चास्मान् दो:सहस्रात्सहस्रपात् ।
हृदयं तस्य हि ब्रह्म क्षत्रमङ्गं प्रचक्षते ॥ ३ ॥
Text 4
अतो ह्यन्योन्यमात्मानं ब्रह्म क्षत्रं च रक्षत: ।
रक्षति स्माव्ययो देव: स य: सदसदात्मक: ॥ ४ ॥
Text 5
तव सन्दर्शनादेवच्छिन्ना मे सर्वसंशया: ।
यत्स्वयं भगवान् प्रीत्या धर्ममाह रिरक्षिषो: ॥ ५ ॥
Text 6
दिष्टया मे भगवान् दृष्टो दुर्दर्शो योऽकृतात्मनाम् ।
दिष्टया पादरज: स्पृष्टं शीर्ष्णा मे भवत: शिवम् ॥ ६ ॥
Text 7
दिष्टया त्वयानुशिष्टोऽहं कृतश्चानुग्रहो महान् ।
अपावृतै: कर्णरन्ध्रैर्जुष्टा दिष्ट्योशतीर्गिर: ॥ ७ ॥
Text 8
स भवान्दुहितृस्नेहपरिक्लिष्टात्मनो मम ।
श्रोतुमर्हसि दीनस्य श्रावितं कृपया मुने ॥ ८ ॥
Text 9
प्रियव्रतोत्तानपदो: स्वसेयं दुहिता मम ।
अन्विच्छति पतिं युक्तं वय: शीलगुणादिभि: ॥ ९ ॥
Text 10
यदा तु भवत: शीलश्रुतरूपवयोगुणान् ।
अशृणोन्नारदादेषा त्वय्यासीत्कृतनिश्चया ॥ १० ॥
Text 11
तत्प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया ।
सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु ॥ ११ ॥
Text 12
उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।
अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुन: ॥ १२ ॥
Text 13
य उद्यतमनादृत्य कीनाशमभियाचते ।
क्षीयते तद्यश: स्फीतं मानश्चावज्ञया हत: ॥ १३ ॥
Text 14
अहं त्वाशृणवं विद्वन् विवाहार्थं समुद्यतम् ।
अतस्त्वमुपकुर्वाण: प्रत्तां प्रतिगृहाण मे ॥ १४ ॥
Text 15
ऋषिरुवाच
बाढमुद्वोढुकामोऽहमप्रत्ता च तवात्मजा ।
आवयोरनुरूपोऽसावाद्यो वैवाहिको विधि: ॥ १५ ॥
Text 16
काम: स भूयान्नरदेव तेऽस्या:
पुत्र्या: समाम्नायविधौ प्रतीत: ।
क एव ते तनयां नाद्रियेत
स्वयैव कान्त्या क्षिपतीमिव श्रियम् ॥ १६ ॥
Text 17
यां हर्म्यपृष्ठे क्वणदङ्घ्रिशोभां
विक्रीडतीं कन्दुकविह्वलाक्षीम् ।
विश्वावसुर्न्यपतत्स्वाद्विमाना-
द्विलोक्य सम्मोहविमूढचेता: ॥ १७ ॥
Text 18
तां प्रार्थयन्तीं ललनाललाम-
मसेवितश्रीचरणैरदृष्टाम् ।
वत्सां मनोरुच्चपद: स्वसारं
को नानुमन्येत बुधोऽभियाताम् ॥ १८ ॥
Text 19
अतो भजिष्ये समयेन साध्वीं
यावत्तेजो बिभृयादात्मनो मे ।
अतो धर्मान् पारमहंस्यमुख्यान्
शुक्लप्रोक्तान् बहु मन्येऽविहिंस्रान् ॥ १९ ॥
Text 20
यतोऽभवद्विश्वमिदं विचित्रं
संस्थास्यते यत्र च वावतिष्ठते ।
प्रजापतीनां पतिरेष मह्यं
परं प्रमाणं भगवाननन्त: ॥ २० ॥
Text 21
मैत्रेय उवाच
स उग्रधन्वन्नियदेवाबभाषे
आसीच्च तूष्णीमरविन्दनाभम् ।
धियोपगृह्णन् स्मितशोभितेन
मुखेन चेतो लुलुभे देवहूत्या: ॥ २१ ॥
Text 22
सोऽनुज्ञात्वा व्यवसितं महिष्या दुहितु: स्फुटम् ।
तस्मै गुणगणाढ्याय ददौ तुल्यां प्रहर्षित: ॥ २२ ॥
Text 23
शतरूपा महाराज्ञी पारिबर्हान्महाधनान् ।
दम्पत्यो: पर्यदात्प्रीत्या भूषावास: परिच्छदान् ॥ २३ ॥
Text 24
प्रत्तां दुहितरं सम्राट् सदृक्षाय गतव्यथ: ।
उपगुह्य च बाहुभ्यामौत्कण्ठ्योन्मथिताशय: ॥ २४ ॥
Text 25
अशक्नुवंस्तद्विरहं मुञ्चन् बाष्पकलां मुहु: ।
आसिञ्चदम्ब वत्सेति नेत्रोदैर्दुहितु: शिखा: ॥ २५ ॥
Texts 26-27
आमन्त्र्य तं मुनिवरमनुज्ञात: सहानुग: ।
प्रतस्थे रथमारुह्य सभार्य: स्वपुरं नृप: ॥ २६ ॥
उभयोऋर्षिकुल्याया: सरस्वत्या: सुरोधसो: ।
ऋषीणामुपशान्तानां पश्यन्नाश्रमसम्पद: ॥ २७ ॥
Text 28
तमायान्तमभिप्रेत्य ब्रह्मावर्तात्प्रजा: पतिम् ।
गीतसंस्तुतिवादित्रै: प्रत्युदीयु: प्रहर्षिता: ॥ २८ ॥
Texts 29-30
बर्हिष्मती नाम पुरी सर्वसम्पत्समन्विता ।
न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वत: ॥ २९ ॥
कुशा: काशास्त एवासन् शश्वद्धरितवर्चस: ।
ऋषयो यै: पराभाव्य यज्ञघ्नान् यज्ञमीजिरे ॥ ३० ॥
Text 31
कुशकाशमयं बर्हिरास्तीर्य भगवान्मनु: ।
अयजद्यज्ञपुरुषं लब्धा स्थानं यतो भुवम् ॥ ३१ ॥
Text 32
बर्हिष्मतीं नाम विभुर्यां निर्विश्य समावसत् ।
तस्यां प्रविष्टो भवनं तापत्रयविनाशनम् ॥ ३२ ॥
Text 33
सभार्य: सप्रज: कामान् बुभुजेऽन्याविरोधत: ।
सङ्गीयमानसत्कीर्ति: सस्त्रीभि: सुरगायकै: ।
प्रत्यूषेष्वनुबद्धेन हृदा शृण्वन् हरे: कथा: ॥ ३३ ॥
Text 34
निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् ।
यदाभ्रंशयितुं भोगा न शेकुर्भगवत्परम् ॥ ३४ ॥
Text 35
अयातयामास्तस्यासन् यामा:स्वान्तरयापना: ।
शृण्वतो ध्यायतो विष्णो: कुर्वतो ब्रुवत: कथा: ॥ ३५ ॥
Text 36
स एवं स्वान्तरं निन्ये युगानामेकसप्ततिम् ।
वासुदेवप्रसङ्गेन परिभूतगतित्रय: ॥ ३६ ॥
Text 37
शारीरा मानसा दिव्या वैयासे ये च मानुषा: ।
भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ ३७ ॥
Text 38
य: पृष्टो मुनिभि: प्राह धर्मान्नानाविदाञ्छुभान् ।
नृणां वर्णाश्रमाणां च सर्वभूतहित: सदा ॥ ३८ ॥
Text 39
एतत्त आदिराजस्य मनोश्चरितमद्भुतम् ।
वर्णितं वर्णनीयस्य तदपत्योदयं शृणु ॥ ३९ ॥






