Divisions of the Creation
Text 1
विदुर उवाच
अन्तर्हिते भगवति ब्रह्मा लोकपितामह: ।
प्रजा: ससर्ज कतिधा दैहिकीर्मानसीर्विभु: ॥ १ ॥
Text 2
ये च मे भगवन् पृष्टास्त्वय्यर्था बहुवित्तम ।
तान् वदस्वानुपूर्व्येण छिन्धि न: सर्वसंशयान् ॥ २ ॥
Text 3
सूत उवाच
एवं सञ्चोदितस्तेन क्षत्त्रा कौषारविर्मुनि: ।
प्रीत: प्रत्याह तान् प्रश्नान् हृदिस्थानथ भार्गव ॥ ३ ॥
Text 4
मैत्रेय उवाच
विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तप: ।
आत्मन्यात्मानमावेश्य यथाह भगवानज: ॥ ४ ॥
Text 5
तद्विलोक्याब्जसम्भूतो वायुना यदधिष्ठित: ।
पद्ममम्भश्च तत्कालकृतवीर्येण कम्पितम् ॥ ५ ॥
Text 6
तपसा ह्येधमानेन विद्यया चात्मसंस्थया ।
विवृद्धविज्ञानबलो न्यपाद् वायुं सहाम्भसा ॥ ६ ॥
Text 7
तद्विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितम् ।
अनेन लोकान् प्राग्लीनान् कल्पितास्मीत्यचिन्तयत् ॥ ७ ॥
Text 8
पद्मकोशं तदाविश्य भगवत्कर्मचोदित: ।
एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्यं द्विसप्तधा ॥ ८ ॥
Text 9
एतावाञ्जीवलोकस्य संस्थाभेद: समाहृत: ।
धर्मस्य ह्यनिमित्तस्य विपाक: परमेष्ठ्यसौ ॥ ९ ॥
Text 10
विदुर उवाच
यथात्थ बहुरूपस्य हरेरद्भुतकर्मण: ।
कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय न: प्रभो ॥ १० ॥
Text 11
मैत्रेय उवाच
गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठित: ।
पुरुषस्तदुपादानमात्मानं लीलयासृजत् ॥ ११ ॥
Text 12
विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया ।
ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥
Text 13
यथेदानीं तथाग्रे च पश्चादप्येतदीदृशम् ॥ १३ ॥
Text 14
सर्गो नवविधस्तस्य प्राकृतो वैकृतस्तु य: ।
कालद्रव्यगुणैरस्य त्रिविध: प्रतिसंक्रम: ॥ १४ ॥
Text 15
आद्यस्तु महत: सर्गो गुणवैषम्यमात्मन: ।
द्वितीयस्त्वहमो यत्र द्रव्यज्ञानक्रियोदय: ॥ १५ ॥
Text 16
भूतसर्गस्तृतीयस्तु तन्मात्रो द्रव्यशक्तिमान् ।
चतुर्थ ऐन्द्रिय: सर्गो यस्तु ज्ञानक्रियात्मक: ॥ १६ ॥
Text 17
वैकारिको देवसर्ग: पञ्चमो यन्मयं मन: ।
पष्ठस्तु तमस: सर्गो यस्त्वबुद्धिकृत: प्रभो: ॥ १७ ॥
Text 18
षडिमे प्राकृता: सर्गा वैकृतानपि मे शृणु ।
रजोभाजो भगवतो लीलेयं हरिमेधस: ॥ १८ ॥
Text 19
सप्तमो मुख्यसर्गस्तु षङ्विधस्तस्थुषां च य: ।
वनस्पत्योषधिलतात्वक्सारा वीरुधो द्रुमा: ॥ १९ ॥
Text 20
उत्स्रोतसस्तम:प्राया अन्त:स्पर्शा विशेषिण: ॥ २० ॥
Text 21
तिरश्चामष्टम: सर्ग: सोऽष्टाविंशद्विधो मत: ।
अविदो भूरितमसो घ्राणज्ञा ह्यद्यवेदिन: ॥ २१ ॥
Text 22
गौरजो महिष: कृष्ण: सूकरो गवयो रुरु: ।
द्विशफा: पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २२ ॥
Text 23
खरोऽश्वोऽश्वतरो गौर: शरभश्चमरी तथा ।
एते चैकशफा: क्षत्त: शृणु पञ्चनखान् पशून् ॥ २३ ॥
Text 24
श्वा सृगालो वृको व्याघ्रो मार्जार: शशशल्लकौ ।
सिंह: कपिर्गज: कूर्मो गोधा च मकरादय: ॥ २४ ॥
Text 25
कङ्कगृधबकश्येनभासभल्लूकबर्हिण: ।
हंससारसचक्राह्वकाकोलूकादय: खगा: ॥ २५ ॥
Text 26
अर्वाक्स्रोतस्तु नवम: क्षत्तरेकविधो नृणाम् ।
रजोऽधिका: कर्मपरा दु:खे च सुखमानिन: ॥ २६ ॥
Text 27
वैकृतास्रय एवैते देवसर्गश्च सत्तम ।
वैकारिकस्तु य: प्रोक्त: कौमारस्तूभयात्मक: ॥ २७ ॥
Texts 28-29
देवसर्गश्चाष्टविधो विबुधा: पितरोऽसुरा: ।
गन्धर्वाप्सरस: सिद्धा यक्षरक्षांसि चारणा: ॥ २८ ॥
भूतप्रेतपिशाचाश्च विद्याध्रा: किन्नरादय: ।
दशैते विदुराख्याता: सर्गास्ते विश्वसृक्कृता: ॥ २९ ॥
Text 30
अत: परं प्रवक्ष्यामि वंशान्मन्वन्तराणि च ।
एवं रज:प्लुत: स्रष्टा कल्पादिष्वात्मभूर्हरि: ।
सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना ॥ ३० ॥






