Srimad Bhagavatam | Canto 3 | Chapter 3 | Verses

Text 1 उद्धव उवाच तत: स आगत्य पुरं स्वपित्रो- श्चिकीर्षया शं बलदेवसंयुत: । निपात्य तुङ्गाद्रिपुयूथनाथं हतं व्यकर्षद् व्यसुमोजसोर्व्याम् ॥ १ ॥

0
52

The Lord’s Pastimes Out of Vṛndāvana

Text 1

उद्धव उवाच
तत: स आगत्य पुरं स्वपित्रो-
श्चिकीर्षया शं बलदेवसंयुत: ।
निपात्य तुङ्गाद्रिपुयूथनाथं
हतं व्यकर्षद् व्यसुमोजसोर्व्याम् ॥ १ ॥

Text 2

सान्दीपने: सकृत्प्रोक्तं ब्रह्माधीत्य सविस्तरम् ।
तस्मै प्रादाद्वरं पुत्रं मृतं पञ्चजनोदरात् ॥ २ ॥

Text 3

समाहुता भीष्मककन्यया ये
श्रिय: सवर्णेन बुभूषयैषाम् ।
गान्धर्ववृत्त्या मिषतां स्वभागं
जह्रे पदं मूर्ध्नि दधत्सुपर्ण: ॥ ३ ॥

Text 4

ककुद्मिनोऽविद्धनसो दमित्वा
स्वयंवरे नाग्नजितीमुवाह ।
तद्भग्नमानानपि गृध्यतोऽज्ञा-
ञ्जघ्नेऽक्षत: शस्त्रभृत: स्वशस्त्रै: ॥ ४ ॥

Text 5

प्रियं प्रभुर्ग्राम्य इव प्रियाया
विधित्सुरार्च्छद् द्युतरुं यदर्थे ।
वज्र्याद्रवत्तं सगणो रुषान्ध:
क्रीडामृगो नूनमयं वधूनाम् ॥ ५ ॥

Text 6

सुतं मृधे खं वपुषा ग्रसन्तं
दृष्ट्वा सुनाभोन्मथितं धरित्र्या ।
आमन्त्रितस्तत्तनयाय शेषं
दत्त्वा तदन्त:पुरमाविवेश ॥ ६ ॥

Text 7

तत्राहृतास्ता नरदेवकन्या:
कुजेन दृष्ट्वा हरिमार्तबन्धुम् ।
उत्थाय सद्यो जगृहु: प्रहर्ष-
व्रीडानुरागप्रहितावलोकै: ॥ ७ ॥

Text 8

आसां मुहूर्त एकस्मिन्नानागारेषु योषिताम् ।
सविधं जगृहे पाणीननुरूप: स्वमायया ॥ ८ ॥

Text 9

तास्वपत्यान्यजनयदात्मतुल्यानि सर्वत: ।
एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥

Text 10

कालमागधशाल्वादीननीकै रुन्धत: पुरम् ।
अजीघनत्स्वयं दिव्यं स्वपुंसां तेज आदिशत् ॥ १० ॥

Text 11

शम्बरं द्विविदं बाणं मुरं बल्वलमेव च ।
अन्यांश्च दन्तवक्रादीनवधीत्कांश्च घातयत् ॥ ११ ॥

Text 12

अथ ते भ्रातृपुत्राणां पक्षयो: पतितान्नृपान् ।
चचाल भू: कुरुक्षेत्रं येषामापततां बलै: ॥ १२ ॥

Text 13

सकर्णदु:शासनसौबलानां
कुमन्त्रपाकेन हतश्रियायुषम् ।
सुयोधनं सानुचरं शयानं
भग्नोरुमूर्व्यां न ननन्द पश्यन् ॥ १३ ॥

Text 14

कियान् भुवोऽयं क्षपितोरुभारो
यद्‌द्रोणभीष्मार्जुनभीममूलै: ।
अष्टादशाक्षौहिणिको मदंशै-
रास्ते बलं दुर्विषहं यदूनाम् ॥ १४ ॥

Text 15

मिथो यदैषां भविता विवादो
मध्वामदाताम्रविलोचनानाम् ।
नैषां वधोपाय इयानतोऽन्यो
मय्युद्यतेऽन्तर्दधते स्वयं स्म ॥ १५ ॥

Text 16

एवं सञ्चिन्त्य भगवान् स्वराज्ये स्थाप्य धर्मजम् ।
नन्दयामास सुहृद: साधूनां वर्त्म दर्शयन् ॥ १६ ॥

Text 17

उत्तरायां धृत: पूरोर्वंश: साध्वभिमन्युना ।
स वै द्रौण्यस्त्रसंप्लुष्ट: पुनर्भगवता धृत: ॥ १७ ॥

Text 18

अयाजयद्धर्मसुतमश्वमेधैस्त्रिभिर्विभु: ।
सोऽपि क्ष्मामनुजै रक्षन् रेमे कृष्णमनुव्रत: ॥ १८ ॥

Text 19

भगवानपि विश्वात्मा लोकवेदपथानुग: ।
कामान् सिषेवे द्वार्वत्यामसक्त: सांख्यमास्थित: ॥ १९ ॥

Text 20

स्‍निग्धस्मितावलोकेन वाचा पीयूषकल्पया ।
चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥ २० ॥

Text 21

इमं लोकममुं चैव रमयन् सुतरां यदून् ।
रेमे क्षणदया दत्तक्षणस्त्रीक्षणसौहृद: ॥ २१ ॥

Text 22

तस्यैवं रममाणस्य संवत्सरगणान् बहून् ।
गृहमेधेषु योगेषु विराग: समजायत ॥ २२ ॥

Text 23

दैवाधीनेषु कामेषु दैवाधीन: स्वयं पुमान् ।
को विश्रम्भेत योगेन योगेश्वरमनुव्रत: ॥ २३ ॥

Text 24

पुर्यां कदाचित्क्रीडद्‍‌भिर्यदुभोजकुमारकै: ।
कोपिता मुनय: शेपुर्भगवन्मतकोविदा: ॥ २४ ॥

Text 25

तत: कतिपयैर्मासैर्वृष्णिभोजान्धकादय: ।
ययु: प्रभासं संहृष्टा रथैर्देवविमोहिता: ॥ २५ ॥

Text 26

तत्र स्‍नात्वा पितृन्देवानृषींश्चैव तदम्भसा ।
तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददु: ॥ २६ ॥

Text 27

हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् ।
यानं रथानिभान् कन्या धरां वृत्तिकरीमपि ॥ २७ ॥

Text 28

अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम् ।
गोविप्रार्थासव: शूरा: प्रणेमुर्भुवि मूर्धभि: ॥ २८ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here