Puruṣa-sūkta Confirmed
Text 1
ब्रह्मोवाच
वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातव: ।
हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च ॥ १ ॥
Text 2
सर्वासूनां च वायोश्च तन्नासे परमायणे ।
अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयो: ॥ २ ॥
Text 3
रूपाणां तेजसां चक्षुर्दिव: सूर्यस्य चाक्षिणी ।
कर्णौ दिशां च तीर्थानां श्रोत्रमाकाशशब्दयो: ॥ ३ ॥
Text 4
तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम् ।
त्वगस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि ॥ ४ ॥
Text 5
रोमाण्युद्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृत: ।
केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् ॥ ५ ॥
Text 6
बाहवो लोकपालानां प्रायश: क्षेमकर्मणाम् ॥ ६ ॥
Text 7
विक्रमो भूर्भुव: स्वश्च क्षेमस्य शरणस्य च ।
सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥ ७ ॥
Text 8
अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापते: ।
पुंस: शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृते: ॥ ८ ॥
Text 9
पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ।
हिंसाया निऋर्तेर्मृत्योर्निरयस्य गुदं स्मृत: ॥ ९ ॥
Text 10
पराभूतेरधर्मस्य तमसश्चापि पश्चिम: ।
नाड्यो नदनदीनां च गोत्राणामस्थिसंहति: ॥ १० ॥
Text 11
अव्यक्तरससिन्धूनां भूतानां निधनस्य च ।
उदरं विदितं पुंसो हृदयं मनस: पदम् ॥ ११ ॥
Text 12
धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च ।
विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥ १२ ॥
Texts 13-16
अहं भवान् भवश्चैव त इमे मुनयोऽग्रजा: ।
सुरासुरनरा नागा: खगा मृगसरीसृपा: ॥ १३ ॥
गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगा: ।
पशव: पितर: सिद्धा विद्याध्राश्चारणा द्रुमा: ॥ १४ ॥
अन्ये च विविधा जीवा जलस्थलनभौकस: ।
ग्रहर्क्षकेतवस्तारास्तडित: स्तनयित्नव: ॥ १५ ॥
सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् ।
तेनेदमावृतं विश्वं वितस्तिमधितिष्ठति ॥ १६ ॥
Text 17
स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ ।
एवं विराजं प्रतपंस्तपत्यन्तर्बहि: पुमान् ॥ १७ ॥
Text 18
सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।
महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्यय: ॥ १८ ॥
Text 19
पादेषु सर्वभूतानि पुंस: स्थितिपदो विदु: ।
अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १९ ॥
Text 20
पादास्त्रयो बहिश्चासन्नप्रजानां य आश्रमा: ।
अन्तस्त्रिलोक्यास्त्वपरो गृहमेधोऽबृहद्व्रत: ॥ २० ॥
Text 21
सृती विचक्रमे विश्वङ्साशनानशने उभे ।
यदविद्या च विद्या च पुरुषस्तूभयाश्रय: ॥ २१ ॥
Text 22
यस्मादण्डं विराड् जज्ञे भूतेन्द्रियगुणात्मक: ।
तद् द्रव्यमत्यगाद् विश्वं गोभि: सूर्य इवातपन् ॥ २२ ॥
Text 23
यदास्य नाभ्यान्नलिनादहमासं महात्मन: ।
नाविदं यज्ञसम्भारान् पुरुषावयवानृते ॥ २३ ॥
Text 24
तेषु यज्ञस्य पशव: सवनस्पतय: कुशा: ।
इदं च देवयजनं कालश्चोरुगुणान्वित: ॥ २४ ॥
Text 25
वस्तून्योषधय: स्नेहा रसलोहमृदो जलम् ।
ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥ २५ ॥
Text 26
नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च ।
देवतानुक्रम: कल्प: सङ्कल्पस्तन्त्रमेव च ॥ २६ ॥
Text 27
गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् ।
पुरुषावयवैरेते सम्भारा: सम्भृता मया ॥ २७ ॥
Text 28
इति सम्भृतसम्भार: पुरुषावयवैरहम् ।
तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम् ॥ २८ ॥
Text 29
ततस्ते भ्रातर इमे प्रजानां पतयो नव । अयजन् व्यक्तमव्यक्तं पुरुषं सुसमाहिता: ॥ २९ ॥
Text 30
ततश्च मनव: काले ईजिरे ऋषयोऽपरे ।
पितरो विबुधा दैत्या मनुष्या: क्रतुभिर्विभुम् ॥ ३० ॥
Text 31
नारायणे भगवति तदिदं विश्वमाहितम् ।
गृहीतमायोरुगुण: सर्गादावगुण: स्वत: ॥ ३१ ॥
Text 32
सृजामि तन्नियुक्तोऽहं हरो हरति तद्वश: ।
विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ ३२ ॥
Text 33
इति तेऽभिहितं तात यथेदमनुपृच्छसि ।
नान्यद्भगवत: किंचिद्भाव्यं सदसदात्मकम् ॥ ३३ ॥
Text 34
न भारती मेऽङ्ग मृषोपलक्ष्यते
न वै क्वचिन्मे मनसो मृषा गति: ।
न मे हृषीकाणि पतन्त्यसत्पथे
यन्मे हृदौत्कण्ठ्यवता धृतो हरि: ॥ ३४ ॥
Text 35
सोऽहं समाम्नायमयस्तपोमय:
प्रजापतीनामभिवन्दित: पति: ।
आस्थाय योगं निपुणं समाहित-
स्तं नाध्यगच्छं यत आत्मसम्भव: ॥ ३५ ॥
Text 36
नतोऽस्म्यहं तच्चरणं समीयुषां
भवच्छिदं स्वस्त्ययनं सुमङ्गलम् ।
यो ह्यात्ममायाविभवं स्म पर्यगाद्
यथा नभ: स्वान्तमथापरे कुत: ॥ ३६ ॥
Text 37
नाहं न यूयं यदृतां गतिं विदु-
र्न वामदेव: किमुतापरे सुरा: ।
तन्मायया मोहितबुद्धयस्त्विदं
विनिर्मितं चात्मसमं विचक्ष्महे ॥ ३७ ॥
Text 38
यस्यावतारकर्माणि गायन्ति ह्यस्मदादय: ।
न यं विदन्ति तत्त्वेन तस्मै भगवते नम: ॥ ३८ ॥
Text 39
स एष आद्य: पुरुष: कल्पे कल्पे सृजत्यज: ।
आत्मात्मन्यात्मनात्मानं स संयच्छति पाति च ॥ ३९ ॥
Texts 40-41
विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम् ।
सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ४० ॥
ऋषे विदन्ति मुनय: प्रशान्तात्मेन्द्रियाशया: ।
यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥ ४१ ॥
Text 42
आद्योऽवतार: पुरुष: परस्य
काल: स्वभाव: सदसन्मनश्च ।
द्रव्यं विकारो गुण इन्द्रियाणि
विराट् स्वराट् स्थास्नु चरिष्णु भूम्न: ॥ ४२ ॥
Texts 43-45
अहं भवो यज्ञ इमे प्रजेशा
दक्षादयो ये भवदादयश्च ।
स्वर्लोकपाला: खगलोकपाला
नृलोकपालास्तललोकपाला: ॥ ४३ ॥
गन्धर्वविद्याधरचारणेशा
ये यक्षरक्षोरगनागनाथा: ।
ये वा ऋषीणामृषभा: पितृणां
दैत्येन्द्रसिद्धेश्वरदानवेन्द्रा: ।
अन्ये च ये प्रेतपिशाचभूत-
कूष्माण्डयादोमृगपक्ष्यधीशा: ॥ ४४ ॥
यत्किंच लोके भगवन्महस्व-
दोज:सहस्वद् बलवत् क्षमावत् ।
श्रीह्रीविभूत्यात्मवदद्भुतार्णं
तत्त्वं परं रूपवदस्वरूपम् ॥ ४५ ॥
Text 46
प्राधान्यतो यानृष आमनन्ति
लीलावतारान् पुरुषस्य भूम्न: ।
आपीयतां कर्णकषायशोषा-
ननुक्रमिष्ये त इमान् सुपेशान् ॥ ४६ ॥






