Srimad Bhagavatam | Canto 2 | Chapter 4 | Verses

Text 1 सूत उवाच वैयासकेरिति वचस्तत्त्वनिश्चयमात्मन: । उपधार्य मतिं कृष्णे औत्तरेय: सतीं व्यधात् ॥ १ ॥

0
49

The Process of Creation

Text 1

सूत उवाच
वैयासकेरिति वचस्तत्त्वनिश्चयमात्मन: ।
उपधार्य मतिं कृष्णे औत्तरेय: सतीं व्यधात् ॥ १ ॥

Text 2

आत्मजायासुतागारपशुद्रविणबन्धुषु ।
राज्ये चाविकले नित्यं विरूढां ममतां जहौ ॥ २ ॥

Texts 3-4

पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमा: ।
कृष्णानुभावश्रवणे श्रद्दधानो महामना: ॥ ३ ॥
संस्थां विज्ञाय संन्यस्य कर्म त्रैवर्गिकं च यत् ।
वासुदेवे भगवति आत्मभावं द‍ृढं गत: ॥ ४ ॥

Text 5

राजोवाच
समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ ।
तमो विशीर्यते मह्यं हरे: कथयत: कथाम् ॥ ५ ॥

Text 6

भूय एव विवित्सामि भगवानात्ममायया ।
यथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरै: ॥ ६ ॥

Text 7

यथा गोपायति विभुर्यथा संयच्छते पुन: ।
यां यां शक्तिमुपाश्रित्य पुरुशक्ति: पर: पुमान् ।
आत्मानं क्रीडयन् क्रीडन् करोति विकरोति च ॥ ७ ॥

Text 8

नूनं भगवतो ब्रह्मन् हरेरद्भुतकर्मण: ।
दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम् ॥ ८ ॥

Text 9

यथा गुणांस्तु प्रकृतेर्युगपत् क्रमशोऽपि वा ।
बिभर्ति भूरिशस्त्वेक: कुर्वन् कर्माणि जन्मभि: ॥ ९ ॥

Text 10

विचिकित्सितमेतन्मे ब्रवीतु भगवान् यथा ।
शाब्दे ब्रह्मणि निष्णात: परस्मिंश्च भवान्खलु ॥ १० ॥

Text 11

सूत उवाच
इत्युपामन्त्रितो राज्ञा गुणानुकथने हरे: ।
हृषीकेशमनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥ ११ ॥

Text 12

श्री शुक उवाच
नम: परस्मै पुरुषाय भूयसे
सदुद्भवस्थाननिरोधलीलया ।
गृहीतशक्तित्रितयाय देहिना-
मन्तर्भवायानुपलक्ष्यवर्त्मने ॥ १२ ॥

Text 13

भूयो नम: सद्वृजिनच्छिदेऽसता-
मसम्भवायाखिलसत्त्वमूर्तये ।
पुंसां पुन: पारमहंस्य आश्रमे
व्यवस्थितानामनुमृग्यदाशुषे ॥ १३ ॥

Text 14

नमो नमस्तेऽस्त्वृषभाय सात्वतां
विदूरकाष्ठाय मुहु: कुयोगिनाम् ।
निरस्तसाम्यातिशयेन राधसा
स्वधामनि ब्रह्मणि रंस्यते नम: ॥ १४ ॥

Text 15

यत्कीर्तनं यत्स्मरणं यदीक्षणं
यद्वन्दनं यच्छ्रवणं यदर्हणम् ।
लोकस्य सद्यो विधुनोति कल्मषं
तस्मै सुभद्रश्रवसे नमो नम: ॥ १५ ॥

Text 16

विचक्षणा यच्चरणोपसादनात्
सङ्गं व्युदस्योभयतोऽन्तरात्मन: ।
विन्दन्ति हि ब्रह्मगतिं गतक्लमा-
स्तस्मै सुभद्रश्रवसे नमो नम: ॥ १६ ॥

Text 17

तपस्विनो दानपरा यशस्विनो
मनस्विनो मन्त्रविद: सुमङ्गला: ।
क्षेमं न विन्दन्ति विना यदर्पणं
तस्मै सुभद्रश्रवसे नमो नम: ॥ १७ ॥

Text 18

किरातहूणान्ध्रपुलिन्दपुल्कशा
आभीरशुम्भा यवना: खसादय: ।
येऽन्ये च पापा यदपाश्रयाश्रया:
शुध्यन्ति तस्मै प्रभविष्णवे नम: ॥ १८ ॥

Text 19

स एष आत्मात्मवतामधीश्वर-
स्त्रयीमयो धर्ममयस्तपोमय: ।
गतव्यलीकैरजशङ्करादिभि-
र्वितर्क्यलिङ्गो भगवान् प्रसीदताम् ॥ १९ ॥

Text 20

श्रिय: पतिर्यज्ञपति: प्रजापति-
र्धियां पतिर्लोकपतिर्धरापति: ।
पतिर्गतिश्चान्धकवृष्णिसात्वतां
प्रसीदतां मे भगवान् सतां पति: ॥ २० ॥

Text 21

यदङ्‍घ्र्‌यध्यानसमाधिधौतया
धियानुपश्यन्ति हि तत्त्वमात्मन: ।
वदन्ति चैतत् कवयो यथारुचं
स मे मुकुन्दो भगवान् प्रसीदताम् ॥ २१ ॥

Text 22

प्रचोदिता येन पुरा सरस्वती
वितन्वताजस्य सतीं स्मृतिं हृदि ।
स्वलक्षणा प्रादुरभूत् किलास्यत:
स मे ऋषीणामृषभ: प्रसीदताम् ॥ २२ ॥

Text 23

भूतैर्महद्भिर्य इमा: पुरो विभु-
र्निर्माय शेते यदमूषु पूरुष: ।
भुङ्क्ते गुणान् षोडश षोडशात्मक:
सोऽलङ्‌कृषीष्ट भगवान् वचांसि मे ॥ २३ ॥

Text 24

नमस्तस्मै भगवते वासुदेवाय वेधसे ।
पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम् ॥ २४ ॥

Text 25

एतदेवात्मभू राजन् नारदाय विपृच्छते ।
वेदगर्भोऽभ्यधात् साक्षाद् यदाह हरिरात्मन: ॥ २५ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here