Pure Devotional Service: The Change in Heart
Text 1
श्री शुक उवाच
एवमेतन्निगदितं पृष्टवान् यद्भवान् मम ।
नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् ॥ १ ॥
Texts 2-7
ब्रह्मवर्चसकामस्तु यजेत ब्रह्मण: पतिम् ।
इन्द्रमिन्द्रियकामस्तु प्रजाकाम: प्रजापतीन् ॥ २ ॥
देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम् ।
वसुकामो वसून रुद्रान् वीर्यकामोऽथ वीर्यवान् ॥ ३ ॥
अन्नाद्यकामस्त्वदितिं स्वर्गकामोऽदिते:सुतान् ।
विश्वान्देवान् राज्यकाम: साध्यान्संसाधको विशाम् ॥ ४ ॥
आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत् ।
प्रतिष्ठाकाम: पुरुषो रोदसी लोकमातरौ ॥ ५ ॥
रूपाभिकामो गन्धर्वान् स्त्रीकामोऽप्सर उर्वशीम् ।
आधिपत्यकाम: सर्वेषां यजेत परमेष्ठिनम् ॥ ६ ॥
यज्ञं यजेद् यशस्काम: कोशकाम: प्रचेतसम् ।
विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् ॥ ७ ॥
Text 8
धर्मार्थ उत्तमश्लोकं तन्तु: तन्वन् पितृन् यजेत् ।
रक्षाकाम: पुण्यजनानोजस्कामो मरुद्गणान् ॥ ८ ॥
Text 9
राज्यकामो मनून् देवान् निऋर्तिं त्वभिचरन् यजेत् ।
कामकामो यजेत् सोममकाम: पुरुषं परम् ॥ ९ ॥
Text 10
अकाम: सर्वकामो वा मोक्षकाम उदारधी: ।
तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ १० ॥
Text 11
एतावानेव यजतामिह नि:श्रेयसोदय: ।
भगवत्यचलो भावो यद् भागवतसंगत: ॥ ११ ॥
Text 12
ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्र –
मात्मप्रसाद उत यत्र गुणेष्वसङ्ग: ।
कैवल्यसम्मतपथस्त्वथ भक्तियोग:
को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ १२ ॥
Text 13
शौनक उवाच
इत्यभिव्याहृतं राजा निशम्य भरतर्षभ: ।
किमन्यत्पृष्टवान् भूयो वैयासकिमृषिं कविम् ॥ १३ ॥
Text 14
एतच्छुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम् ।
कथा हरिकथोदर्का: सतां स्यु: सदसि ध्रुवम् ॥ १४ ॥
Text 15
स वै भागवतो राजा पाण्डवेयो महारथ: ।
बालक्रीडनकै: क्रीडन् कृष्णक्रीडां य आददे ॥ १५ ॥
Text 16
वैयासकिश्च भगवान् वासुदेवपरायण: ।
उरुगायगुणोदारा: सतां स्युर्हि समागमे ॥ १६ ॥
Text 17
आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ ।
तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ १७ ॥
Text 18
तरव: किं न जीवन्ति भस्त्रा: किं न श्वसन्त्युत ।
न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे ॥ १८ ॥
Text 19
श्वविड्वराहोष्ट्रखरै: संस्तुत: पुरुष: पशु: ।
न यत्कर्णपथोपेतो जातु नाम गदाग्रज: ॥ १९ ॥
Text 20
बिले बतोरुक्रमविक्रमान् ये
न शृण्वत: कर्णपुटे नरस्य ।
जिह्वासती दार्दुरिकेव सूत
न चोपगायत्युरुगायगाथा: ॥ २० ॥
Text 21
भार: परं पट्टकिरीटजुष्ट –
मप्युत्तमाङ्गं न नमेन्मुकुन्दम् ।
शावौ करौ नो कुरुते सपर्यां
हरेर्लसत्काञ्चनकङ्कणौ वा ॥ २१ ॥
Text 22
बर्हायिते ते नयने नराणां
लिङ्गानि विष्णोर्न निरीक्षतो ये ।
पादौ नृणां तौ द्रुमजन्मभाजौ
क्षेत्राणि नानुव्रजतो हरेर्यौ ॥ २२ ॥
Text 23
जीवञ्छवो भागवताङ्घ्रिरेणुं
न जातु मर्त्योऽभिलभेत यस्तु ।
श्रीविष्णुपद्या मनुजस्तुलस्या:
श्वसञ्छवो यस्तु न वेद गन्धम् ॥ २३ ॥
Text 24
तदश्मसारं हृदयं बतेदं
यद् गृह्यमाणैर्हरिनामधेयै: ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्ररुहेषु हर्ष: ॥ २४ ॥
Text 25
अथाभिधेह्यङ्ग मनोऽनुकूलं
प्रभाषसे भागवतप्रधान: ।
यदाह वैयासकिरात्मविद्या-
विशारदो नृपतिं साधु पृष्ट: ॥ २५ ॥






