Srimad Bhagavatam | Canto 1 | Chapter 17 | Verses

Text 1 सूत उवाच तत्र गोमिथुनं राजा हन्यमानमनाथवत् । दण्डहस्तं च वृषलं दद‍ृशे नृपलाञ्छनम् ॥ १ ॥

0
42

Punishment and Reward of Kali

Text 1

सूत उवाच
तत्र गोमिथुनं राजा हन्यमानमनाथवत् ।
दण्डहस्तं च वृषलं दद‍ृशे नृपलाञ्छनम् ॥ १ ॥

Text 2

वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् ।
वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ २ ॥

Text 3

गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम् ।
विवत्सामाश्रुवदनां क्षामां यवसमिच्छतीम् ॥ ३ ॥

Text 4

पप्रच्छ रथमारूढ: कार्तस्वरपरिच्छदम् ।
मेघगम्भीरया वाचा समारोपितकार्मुक: ॥ ४ ॥

Text 5

कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली ।
नरदेवोऽसि वेशेण नटवत्कर्मणाद्विज: ॥ ५ ॥

Text 6

यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना ।
शोच्योऽस्यशोच्यान् रहसि प्रहरन् वधमर्हसि ॥ ६ ॥

Text 7

त्वं वा मृणालधवल: पादैर्न्यून: पदा चरन् ।
वृषरूपेण किं कश्चिद् देवो न: परिखेदयन् ॥ ७ ॥

Text 8

न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते ।
भूतलेऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुच: ॥ ८ ॥

Text 9

मा सौरभेयात्र शुचो व्येतु ते वृषलाद् भयम् ।
मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥ ९ ॥

Texts 10-11

यस्य राष्ट्रे प्रजा: सर्वास्त्रस्यन्ते साध्व्यसाधुभि: ।
तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गति: ॥ १० ॥
एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रह: ।
अत एनं वधिष्यामि भूतद्रुहमसत्तमम् ॥ ११ ॥

Text 12

कोऽवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद ।
मा भूवंस्त्वाद‍ृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥ १२ ॥

Text 13

आख्याहि वृष भद्रं व: साधूनामकृतागसाम् ।
आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ॥ १३ ॥

Text 14

जनेऽनागस्यघं युञ्जन् सर्वतोऽस्य च मद्भयम् ।
साधूनां भद्रमेव स्यादसाधुदमने कृते ॥ १४ ॥

Text 15

अनाग:स्विह भूतेषु य आगस्कृन्निरङ्कुश: ।
आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ॥ १५ ॥

Text 16

राज्ञो हि परमो धर्म: स्वधर्मस्थानुपालनम् ।
शासतोऽन्यान् यथाशास्त्रमनापद्युत्पथानिह ॥ १६ ॥

Text 17

धर्म उवाच
एतद् व: पाण्डवेयानां युक्तमार्ताभयं वच: ।
येषां गुणगणै: कृष्णो दौत्यादौ भगवान् कृत: ॥ १७ ॥

Text 18

न वयं क्लेशबीजानि यत: स्यु: पुरुषर्षभ ।
पुरुषं तं विजानीमो वाक्यभेदविमोहिता: ॥ १८ ॥

Text 19

केचिद् विकल्पवसना आहुरात्मानमात्मन: ।
दैवमन्येऽपरे कर्म स्वभावमपरे प्रभुम् ॥ १९ ॥

Text 20

अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चय: ।
अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ २० ॥

Text 21

सूत उवाच
एवं धर्मे प्रवदति स सम्राड् द्विजसत्तमा: ।
समाहितेन मनसा विखेद: पर्यचष्ट तम् ॥ २१ ॥

Text 22

राजोवाच
धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् ।
यदधर्मकृत: स्थानं सूचकस्यापि तद्भवेत् ॥ २२ ॥

Text 23

अथवा देवमायाया नूनं गतिरगोचरा ।
चेतसो वचसश्चापि भूतानामिति निश्चय: ॥ २३ ॥

Text 24

तप: शौचं दया सत्यमिति पादा: कृते कृता: ।
अधर्मांशैस्त्रयो भग्ना: स्मयसङ्गमदैस्तव ॥ २४ ॥

Text 25

इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यत: ।
तं जिघृक्षत्यधर्मोऽयमनृतेनैधित: कलि: ॥ २५ ॥

Text 26

इयं च भूमिर्भगवता न्यासितोरुभरा सती ।
श्रीमद्भ‍िस्तत्पदन्यासै: सर्वत: कृतकौतुका ॥ २६ ॥

Text 27

शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती ।
अब्रह्मण्या नृपव्याजा: शूद्रा भोक्ष्यन्ति मामिति ॥ २७ ॥

Text 28

इति धर्मं महीं चैव सान्‍त्वयित्वा महारथ: ।
निशातमाददे खड्गं कलयेऽधर्महेतवे ॥ २८ ॥

Text 29

तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम् ।
तत्पादमूलं शिरसा समगाद् भयविह्वल: ॥ २९ ॥

Text 30

पतितं पादयोर्वीर: कृपया
दीनवत्सल: ।
शरण्यो
नावधीच्छ्‍लोक्य आह चेदं हसन्निव ॥ ३० ॥

Text 31

राजोवाच
न ते गुडाकेशयशोधराणां
बद्धाञ्जलेर्वै भयमस्ति किञ्चित् ।
न वर्तितव्यं भवता कथञ्चन
क्षेत्रे मदीये त्वमधर्मबन्धु: ॥ ३१ ॥

Text 32

त्वां वर्तमानं नरदेवदेहे-
ष्वनुप्रवृत्तोऽयमधर्मपूग: ।
लोभोऽनृतं चौर्यमनार्यमंहो
ज्येष्ठा च माया कलहश्च दम्भ: ॥ ३२ ॥

Text 33

न वर्तितव्यं तदधर्मबन्धो
धर्मेण सत्येन च वर्तितव्ये ।
ब्रह्मावर्ते यत्र यजन्ति यज्ञै-
र्यज्ञेश्वरं यज्ञवितानविज्ञा: ॥ ३३ ॥

Text 34

यस्मिन् हरिर्भगवानिज्यमान
इज्यात्ममूर्तिर्यजतां शं तनोति ।
कामानमोघान् स्थिरजङ्गमाना-
मन्तर्बहिर्वायुरिवैष आत्मा ॥ ३४ ॥

Text 35

सूत उवाच
परीक्षितैवमादिष्ट: स कलिर्जातवेपथु: ।
तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् ॥ ३५ ॥

Text 36

कलिरुवाच
यत्र क्‍व वाथ वत्स्यामि सार्वभौम तवाज्ञया ।
लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् ॥ ३६ ॥

Text 37

तन्मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुमर्हसि ।
यत्रैव नियतो वत्स्य आतिष्ठंस्तेऽनुशासनम् ॥ ३७ ॥

Text 38

सूत उवाच
अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ ।
द्यूतं पानं स्त्रिय: सूना यत्राधर्मश्चतुर्विध: ॥ ३८ ॥

Text 39

पुनश्च याचमानाय जातरूपमदात्प्रभु: ।
ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम् ॥ ३९ ॥

Text 40

अमूनि पञ्च स्थानानि ह्यधर्मप्रभव: कलि: ।
औत्तरेयेण दत्तानि न्यवसत् तन्निदेशकृत् ॥ ४० ॥

Text 41

अथैतानि न सेवेत बुभूषु: पुरुष: क्‍वचित् ।
विशेषतो धर्मशीलो राजा लोकपतिर्गुरु: ॥ ४१ ॥

Text 42

वृषस्य नष्टांस्त्रीन् पादान् तप: शौचं दयामिति ।
प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥ ४२ ॥

Texts 43-44

स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् ।
पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता ॥ ४३ ॥
आस्तेऽधुना स राजर्षि: कौरवेन्द्रश्रियोल्लसन् ।
गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवा: ॥ ४४ ॥

Text 45

इत्थम्भूतानुभावोऽयमभिमन्युसुतो नृप: ।
यस्य पालयत: क्षौणीं यूयं सत्राय दीक्षिता: ॥ ४५ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here