Dhṛtarāṣṭra Quits Home
Text 1
सूत उवाच
विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् ।
ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सित: ॥ १ ॥
Text 2
यावत: कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रत: ।
जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥ २ ॥
Texts 3-4
तं बन्धुमागतं दृष्ट्वा धर्मपुत्र: सहानुज: ।
धृतराष्ट्रो युयुत्सुश्च सूत: शारद्वत: पृथा ॥ ३ ॥
गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी ।
अन्याश्च जामय: पाण्डोर्ज्ञातय: ससुता: स्त्रिय: ॥ ४ ॥
Text 5
प्रत्युज्जग्मु: प्रहर्षेण प्राणं तन्व इवागतम् ।
अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनै: ॥ ५ ॥
Text 6
मुमुचु: प्रेमबाष्पौघं विरहौत्कण्ठ्यकातरा: ।
राजा तमर्हयाञ्चक्रे कृतासनपरिग्रहम् ॥ ६ ॥
Text 7
तं भुक्तवन्तं विश्रान्तमासीनं सुखमासने ।
प्रश्रयावनतो राजा प्राह तेषां च शृण्वताम् ॥ ७ ॥
Text 8
युधिष्ठिर उवाच
अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान् ।
विपद्गणाद्विषाग्न्यादेर्मोचिता यत्समातृका: ॥ ८ ॥
Text 9
कया वृत्त्या वर्तितं वश्चरद्भि: क्षितिमण्डलम् ।
तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ ९ ॥
Text 10
भवद्विधा भागवतास्तीर्थभूता: स्वयं विभो ।
तीर्थीकुर्वन्ति तीर्थानि स्वान्त:स्थेन गदाभृता ॥ १० ॥
Text 11
अपि न: सुहृदस्तात बान्धवा: कृष्णदेवता: ।
दृष्टा: श्रुता वा यदव: स्वपुर्यां सुखमासते ॥ ११ ॥
Text 12
इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् ।
यथानुभूतं
क्रमशो विना यदुकुलक्षयम् ॥ १२ ॥
Text 13
नन्वप्रियं दुर्विषहं नृणां
स्वयमुपस्थितम् ।
नावेदयत् सकरुणो दु:खितान् द्रष्टुमक्षम: ॥ १३ ॥
Text 14
कञ्चित्कालमथावात्सीत्सत्कृतो देववत्सुखम् ।
भ्रातुर्ज्येष्ठस्य श्रेयस्कृत्सर्वेषां सुखमावहन् ॥ १४ ॥
Text 15
अबिभ्रदर्यमा दण्डं यथावदघकारिषु ।
यावद्दधार शूद्रत्वं शापाद्वर्षशतं यम: ॥ १५ ॥
Text 16
युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् ।
भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया ॥ १६ ॥
Text 17
एवं गृहेषु सक्तानां प्रमत्तानां तदीहया ।
अत्यक्रामदविज्ञात: काल: परमदुस्तर: ॥ १७ ॥
Text 18
विदुरस्तदभिप्रेत्य धृतराष्ट्रमभाषत ।
राजन्निर्गम्यतां शीघ्रं पश्येदं भयमागतम् ॥ १८ ॥
Text 19
प्रतिक्रिया न यस्येह कुतश्चित्कर्हिचित्प्रभो ।
स एष भगवान् काल: सर्वेषां न: समागत: ॥ १९ ॥
Text 20
येन चैवाभिपन्नोऽयं प्राणै: प्रियतमैरपि ।
जन: सद्यो वियुज्येत किमुतान्यैर्धनादिभि: ॥ २० ॥
Text 21
पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयम् ।
आत्मा च जरया ग्रस्त: परगेहमुपाससे ॥ २१ ॥
Text 22
अन्ध: पुरैव वधिरो मन्दप्रज्ञाश्च साम्प्रतम् ।
विशीर्णदन्तो मन्दाग्नि: सराग: कफमुद्वहन् ॥ २२ ॥
Text 23
अहो महीयसी जन्तोर्जीविताशा यथा भवान् ।
भीमापवर्जितं
पिण्डमादत्ते गृहपालवत् ॥ २३ ॥
Text 24
अग्निर्निसृष्टो दत्तश्च गरो दाराश्च
दूषिता: ।
हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभि: कियत् ॥ २४ ॥
Text 25
तस्यापि तव देहोऽयं कृपणस्य जिजीविषो: ।
परैत्यनिच्छतो जीर्णो जरया वाससी इव ॥ २५ ॥
Text 26
गतस्वार्थमिमं देहं विरक्तो मुक्तबन्धन: ।
अविज्ञातगतिर्जह्यात् स वै धीर उदाहृत: ॥ २६ ॥
Text 27
य: स्वकात्परतो वेह जातनिर्वेद आत्मवान् ।
हृदि कृत्वा हरिं गेहात्प्रव्रजेत्स नरोत्तम: ॥ २७ ॥
Text 28
अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् ।
इतोऽर्वाक्प्रायश: काल: पुंसां गुणविकर्षण: ॥ २८ ॥
Text 29
एवं राजा विदुरेणानुजेन
प्रज्ञाचक्षुर्बोधित आजमीढ: ।
छित्त्वा स्वेषु स्नेहपाशान्द्रढिम्नो
निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥ २९ ॥
Text 30
पतिं प्रयान्तं सुबलस्य पुत्री
पतिव्रता चानुजगाम साध्वी ।
हिमालयं न्यस्तदण्डप्रहर्षं
मनस्विनामिव सत्सम्प्रहार: ॥ ३० ॥
Text 31
अजातशत्रु: कृतमैत्रो हुताग्नि-
र्विप्रान्नत्वा
तिलगोभूमिरुक्मै: ।
गृहं प्रविष्टो गुरुवन्दनाय
न चापश्यत्पितरौ
सौबलीं च ॥ ३१ ॥
Text 32
तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानस: ।
गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयो: ॥ ३२ ॥
Text 33
अम्बा च हतपुत्रार्ता पितृव्य: क्व गत: सुहृत् ।
अपि मय्यकृतप्रज्ञे हतबन्धु: स भार्यया ।
आशंसमान: शमलं गङ्गायां दु:खितोऽपतत् ॥ ३३ ॥
Text 34
पितर्युपरते पाण्डौ सर्वान्न: सुहृद: शिशून् ।
अरक्षतां व्यसनत: पितृव्यौ क्व गतावित: ॥ ३४ ॥
Text 35
सूत उवाच
कृपया स्नेडहवैक्लव्यात्सूतो विरहकर्शित: ।
आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडित: ॥ ३५ ॥
Text 36
विमृज्याश्रूणि पाणिभ्यां
विष्टभ्यात्मानमात्मना ।
अजातशत्रुं प्रत्यूचे प्रभो: पादावनुस्मरन् ॥ ३६ ॥
Text 37
सञ्जय उवाच
नाहं वेद व्यवसितं पित्रोर्व: कुलनन्दन ।
गान्धार्या
वा महाबाहो मुषितोऽस्मि महात्मभि: ॥ ३७ ॥
Text 38
अथाजगाम भगवान् नारद: सहतुम्बुरु: ।
प्रत्युत्थायाभिवाद्याह सानुजोऽभ्यर्चयन्मुनिम् ॥ ३८ ॥
Text 39
युधिष्ठिर उवाच
नाहं वेद गतिं पित्रोर्भगवन् क्व
गतावित: ।
अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी ॥ ३९ ॥
Text 40
कर्णधार इवापारे भगवान् पारदर्शक: ।
अथाबभाषे
भगवान् नारदो मुनिसत्तम: ॥ ४० ॥
Text 41
नारद उवाच
मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् ।
लोका: सपाला यस्येमे वहन्ति बलिमीशितु: ।
स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ ४१ ॥
Text 42
यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभि: ।
वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितु: ॥ ४२ ॥
Text 43
यथा क्रीडोपस्कराणां संयोगविगमाविह ।
इच्छया क्रीडितु: स्यातां तथैवेशेच्छया नृणाम् ॥ ४३ ॥
Text 44
यन्मन्यसे ध्रुवं लोकमध्रुवं वा न चोभयम् ।
सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ ४४ ॥
Text 45
तस्माज्जह्यङ्ग वैक्लव्यमज्ञानकृतमात्मन: ।
कथं त्वनाथा: कृपणा वर्तेरंस्ते च मां विना ॥ ४५ ॥
Text 46
कालकर्मगुणाधीनो देहोऽयं पाञ्चभौतिक: ।
कथमन्यांस्तु गोपायेत्सर्पग्रस्तो यथा परम् ॥ ४६ ॥
Text 47
अहस्तानि सहस्तानामपदानि चतुष्पदाम् ।
फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ ४७ ॥
Text 48
तदिदं भगवान् राजन्नेक आत्मात्मनां स्वदृक् ।
अन्तरोऽनन्तरो भाति पश्य तं माययोरुधा ॥ ४८ ॥
Text 49
सोऽयमद्य महाराज भगवान् भूतभावन: ।
कालरूपोऽवतीर्णोऽस्यामभावाय सुरद्विषाम् ॥ ४९ ॥
Text 50
निष्पादितं देवकृत्यमवशेषं प्रतीक्षते ।
तावद् यूयमवेक्षध्वं भवेद् यावदिहेश्वर: ॥ ५० ॥
Text 51
धृतराष्ट्र: सह भ्रात्रा गान्धार्या च स्वभार्यया ।
दक्षिणेन हिमवत ऋषीणामाश्रमं गत: ॥ ५१ ॥
Text 52
स्रोतोभि: सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् ।
सप्तानां प्रीतये नाना सप्तस्रोत: प्रचक्षते ॥ ५२ ॥
Text 53
स्नात्वानुसवनं तस्मिन्हुत्वा चाग्नीन्यथाविधि ।
अब्भक्ष उपशान्तात्मा स आस्ते विगतैषण: ॥ ५३ ॥
Text 54
जितासनो जितश्वास: प्रत्याहृतषडिन्द्रिय: ।
हरिभावनया ध्वस्तरज:सत्त्वतमोमल: ॥ ५४ ॥
Text 55
विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।
ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५५ ॥
Text 56
ध्वस्तमायागुणोदर्को निरुद्धकरणाशय: ।
निवर्तिताखिलाहार आस्ते स्थाणुरिवाचल: ।
तस्यान्तरायो मैवाभू: सन्न्यस्ताखिलकर्मण: ॥ ५६ ॥
Text 57
स वा अद्यतनाद् राजन् परत: पञ्चमेऽहनि ।
कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति ॥ ५७ ॥
Text 58
दह्यमानेऽग्निभिर्देहे पत्यु: पत्नी सहोटजे ।
बहि: स्थिता पतिं साध्वी तमग्निमनु वेक्ष्यति ॥ ५८ ॥
Text 59
विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन ।
हर्षशोकयुतस्तस्माद् गन्ता तीर्थनिषेवक: ॥ ५९ ॥
Text 60
इत्युक्त्वाथारुहत् स्वर्गं नारद: सहतुम्बुरु: ।
युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुच: ॥ ६० ॥






