Satī Quits Her Body
Text 1
मैत्रेय उवाच
एतावदुक्त्वा विरराम शङ्कर:
पत्न्यङ्गनाशं ह्युभयत्र चिन्तयन् ।
सुहृद्दिदृक्षु: परिशङ्किता भवान्
निष्क्रामती निर्विशती द्विधास सा ॥ १ ॥
Text 2
सुहृद्दिदृक्षाप्रतिघातदुर्मना:
स्नेहाद्रुदत्यश्रुकलातिविह्वला ।
भवं भवान्यप्रतिपूरुषं रुषा
प्रधक्ष्यतीवैक्षत जातवेपथु: ॥ २ ॥
Text 3
ततो विनि:श्वस्य सती विहाय तं
शोकेन रोषेण च दूयता हृदा ।
पित्रोरगात्स्त्रैणविमूढधीर्गृहान्
प्रेम्णात्मनो योऽर्धमदात्सतां प्रिय: ॥ ३ ॥
Text 4
तामन्वगच्छन् द्रुतविक्रमां सतीम्
एकां त्रिनेत्रानुचरा: सहस्रश: ।
सपार्षदयक्षा मणिमन्मदादय:
पुरोवृषेन्द्रास्तरसा गतव्यथा: ॥ ४ ॥
Text 5
तां सारिकाकन्दुकदर्पणाम्बुज
श्वेतातपत्रव्यजनस्रगादिभि: ।
गीतायनैर्दुन्दुभिशङ्खवेणुभि-
र्वृषेन्द्रमारोप्य विटङ्किता ययु: ॥ ५ ॥
Text 6
आब्रह्मघोषोर्जितयज्ञवैशसं
विप्रर्षिजुष्टं विबुधैश्च सर्वश: ।
मृद्दार्वय:काञ्चनदर्भचर्मभि-
र्निसृष्टभाण्डं यजनं समाविशत् ॥ ६ ॥
Text 7
तामागतां तत्र न कश्चनाद्रियद्
विमानितां यज्ञकृतो भयाज्जन: ।
ऋते स्वसृर्वै जननीं च सादरा:
प्रेमाश्रुकण्ठ्य: परिषस्वजुर्मुदा ॥ ७ ॥
Text 8
सौदर्यसम्प्रश्नसमर्थवार्तया
मात्रा च मातृष्वसृभिश्च सादरम् ।
दत्तां सपर्यां वरमासनं च सा
नादत्त पित्राप्रतिनन्दिता सती ॥ ८ ॥
Text 9
अरुद्रभागं तमवेक्ष्य चाध्वरं
पित्रा च देवे कृतहेलनं विभौ ।
अनादृता यज्ञसदस्यधीश्वरी
चुकोप लोकानिव धक्ष्यती रुषा ॥ ९ ॥
Text 10
जगर्ह सामर्षविपन्नया गिरा
शिवद्विषं धूमपथश्रमस्मयम् ।
स्वतेजसा भूतगणान्समुत्थितान्
निगृह्य देवी जगतोऽभिशृण्वत: ॥ १० ॥
Text 11
देव्युवाच
न यस्य लोकेऽस्त्यतिशायन: प्रिय-
स्तथाप्रियो देहभृतां प्रियात्मन: ।
तस्मिन्समस्तात्मनि मुक्तवैरके
ऋते भवन्तं कतम: प्रतीपयेत् ॥ ११ ॥
Text 12
दोषान् परेषां हि गुणेषु साधवो
गृह्णन्ति केचिन्न भवादृशो द्विज ।
गुणांश्च फल्गून् बहुलीकरिष्णवो
महत्तमास्तेष्वविदद्भवानघम् ॥ १२ ॥
Text 13
नाश्चर्यमेतद्यदसत्सु सर्वदा
महद्विनिन्दा कुणपात्मवादिषु ।
सेर्ष्यं महापूरुषपादपांसुभि-
र्निरस्ततेज:सु तदेव शोभनम् ॥ १३ ॥
Text 14
यद्वयक्षरं नाम गिरेरितं नृणां
सकृत्प्रसङ्गादघमाशु हन्ति तत् ।
पवित्रकीर्तिं तमलङ्घ्यशासनं
भवानहो द्वेष्टि शिवं शिवेतर: ॥ १४ ॥
Text 15
यत्पादपद्मं महतां मनोऽलिभि-
र्निषेवितं ब्रह्मरसासवार्थिभि: ।
लोकस्य यद्वर्षति चाशिषोऽर्थिन-
स्तस्मै भवान्द्रुह्यति विश्वबन्धवे ॥ १५ ॥
Text 16
किं वा शिवाख्यमशिवं न विदुस्त्वदन्ये
ब्रह्मादयस्तमवकीर्य जटा: श्मशाने ।
तन्माल्यभस्मनृकपाल्यवसत्पिशाचै-
र्ये मूर्धभिर्दधति तच्चरणावसृष्टम् ॥ १६ ॥
Text 17
कर्णौ पिधाय निरयाद्यदकल्प ईशे
धर्मावितर्यसृणिभिर्नृभिरस्यमाने ।
छिन्द्यात्प्रसह्य रुशतीमसतीं प्रभुश्चे-
ज्जिह्वामसूनपि ततो विसृजेत्स धर्म: ॥ १७ ॥
Text 18
अतस्तवोत्पन्नमिदं कलेवरं
न धारयिष्ये शितिकण्ठगर्हिण: ।
जग्धस्य मोहाद्धि विशुद्धिमन्धसो
जुगुप्सितस्योद्धरणं प्रचक्षते ॥ १८ ॥
Text 19
न वेदवादाननुवर्तते मति:
स्व एव लोके रमतो महामुने: ।
यथा गतिर्देवमनुष्ययो: पृथक्
स्व एव धर्मे न परं क्षिपेत्स्थित: ॥ १९ ॥
Text 20
कर्म प्रवृत्तं च निवृत्तमप्यृतं
वेदे विविच्योभयलिङ्गमाश्रितम् ।
विरोधि तद्यौगपदैककर्तरि
द्वयं तथा ब्रह्मणि कर्म नर्च्छति ॥ २० ॥
Text 21
मा व: पदव्य: पितरस्मदास्थिता
या यज्ञशालासु न धूमवर्त्मभि: ।
तदन्नतृप्तैरसुभृद्भिरीडिता
अव्यक्तलिङ्गा अवधूतसेविता: ॥ २१ ॥
Text 22
नैतेन देहेन हरे कृतागसो
देहोद्भवेनालमलं कुजन्मना ।
व्रीडा ममाभूत्कुजनप्रसङ्गत-
स्तज्जन्म धिग्यो महतामवद्यकृत् ॥ २२ ॥
Text 23
गोत्रं त्वदीयं भगवान्वृषध्वजो
दाक्षायणीत्याह यदा सुदुर्मना: ।
व्यपेतनर्मस्मितमाशु तदाऽहं
व्युत्स्रक्ष्य एतत्कुणपं त्वदङ्गजम् ॥ २३ ॥
Text 24
मैत्रेय उवाच
इत्यध्वरे दक्षमनूद्य शत्रुहन्
क्षितावुदीचीं निषसाद शान्तवाक् ।
स्पृष्ट्वा जलं पीतदुकूलसंवृता
निमील्य दृग्योगपथं समाविशत् ॥ २४ ॥
Text 25
कृत्वा समानावनिलौ जितासना
सोदानमुत्थाप्य च नाभिचक्रत: ।
शनैर्हृदि स्थाप्य धियोरसि स्थितं
कण्ठाद्भ्रुवोर्मध्यमनिन्दितानयत् ॥ २५ ॥
Text 26
एवं स्वदेहं महतां महीयसा
मुहु: समारोपितमङ्कमादरात् ।
जिहासती दक्षरुषा मनस्विनी
दधार गात्रेष्वनिलाग्निधारणाम् ॥ २६ ॥
Text 27
तत: स्वभर्तुश्चरणाम्बुजासवं
जगद्गुरोश्चिन्तयती न चापरम् ।
ददर्श देहो हतकल्मष: सती
सद्य: प्रजज्वाल समाधिजाग्निना ॥ २७ ॥
Text 28
तत्पश्यतां खे भुवि चाद्भुतं महद्
हाहेति वाद: सुमहानजायत ।
हन्त प्रिया दैवतमस्य देवी
जहावसून् केन सती प्रकोपिता ॥ २८ ॥
Text 29
अहो अनात्म्यं महदस्य पश्यत
प्रजापतेर्यस्य चराचरं प्रजा: ।
जहावसून् यद्विमतात्मजा सती
मनस्विनी मानमभीक्ष्णमर्हति ॥ २९ ॥
Text 30
सोऽयं दुर्मर्षहृदयो ब्रह्मध्रुक् च
लोकेऽपकीर्तिं महतीमवाप्स्यति ।
यदङ्गजां स्वां पुरुषद्विडुद्यतां
न प्रत्यषेधन्मृतयेऽपराधत: ॥ ३० ॥
Text 31
वदत्येवं जने सत्या दृष्ट्वासुत्यागमद्भुतम् ।
दक्षं तत्पार्षदा हन्तुमुदतिष्ठन्नुदायुधा: ॥ ३१ ॥
Text 32
तेषामापततां वेगं निशाम्य भगवान् भृगु: ।
यज्ञघ्नघ्नेन यजुषा दक्षिणाग्नौ जुहाव ह ॥ ३२ ॥
Text 33
अध्वर्युणा हूयमाने देवा उत्पेतुरोजसा ।
ऋभवो नाम तपसा सोमं प्राप्ता: सहस्रश: ॥ ३३ ॥
Text 34
तैरलातायुधै: सर्वे प्रमथा: सहगुह्यका: ।
हन्यमाना दिशो भेजुरुशद्भिर्ब्रह्मतेजसा ॥ ३४ ॥






