Purañjana Becomes a Woman in the Next Life
Text 1
नारद उवाच
सैनिका भयनाम्नो ये बर्हिष्मन् दिष्टकारिण: ।
प्रज्वारकालकन्याभ्यां
विचेरुरवनीमिमाम् ॥ १ ॥
Text 2
त एकदा तु रभसा पुरञ्जनपुरीं नृप ।
रुरुधुर्भौमभोगाढ्यां
जरत्पन्नगपालिताम् ॥ २ ॥
Text 3
कालकन्यापि बुभुजे पुरञ्जनपुरं बलात् ।
ययाभिभूत: पुरुष: सद्यो नि:सारतामियात् ॥ ३ ॥
Text 4
तयोपभुज्यमानां वै यवना: सर्वतोदिशम् ।
द्वार्भि: प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥ ४ ॥
Text 5
तस्यां प्रपीड्यमानायामभिमानी पुरञ्जन: ।
अवापोरुविधांस्तापान् कुटुम्बी ममताकुल: ॥ ५ ॥
Text 6
कन्योपगूढो नष्टश्री: कृपणो विषयात्मक: ।
नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात् ॥ ६ ॥
Text 7
विशीर्णां स्वपुरीं वीक्ष्य प्रतिकूलाननादृतान् ।
पुत्रान् पौत्रानुगामात्याञ्जायां च गतसौहृदाम् ॥ ७ ॥
Text 8
आत्मानं कन्यया ग्रस्तं पञ्चालानरिदूषितान् ।
दुरन्तचिन्तामापन्नो न लेभे तत्प्रतिक्रियाम् ॥ ८ ॥
Text 9
कामानभिलषन्दीनो यातयामांश्च कन्यया ।
विगतात्मगतिस्नेह: पुत्रदारांश्च लालयन् ॥ ९ ॥
Text 10
गन्धर्वयवनाक्रान्तां कालकन्योपमर्दिताम् ।
हातुं प्रचक्रमे राजा तां पुरीमनिकामत: ॥ १० ॥
Text 11
भयनाम्नोऽग्रजो भ्राता प्रज्वार: प्रत्युपस्थित: ।
ददाह तां पुरीं कृत्स्नां भ्रातु: प्रियचिकीर्षया ॥ ११ ॥
Text 12
तस्यां सन्दह्यमानायां सपौर: सपरिच्छद: ।
कौटुम्बिक: कुटुम्बिन्या उपातप्यत सान्वय: ॥ १२ ॥
Text 13
यवनोपरुद्धायतनो ग्रस्तायां कालकन्यया ।
पुर्यां प्रज्वारसंसृष्ट:
पुरपालोऽन्वतप्यत ॥ १३ ॥
Text 14
न शेके सोऽवितुं तत्र पुरुकृच्छ्रोरुवेपथु: ।
गन्तुमैच्छत्ततो वृक्षकोटरादिव सानलात् ॥ १४ ॥
Text 15
शिथिलावयवो यर्हि गन्धर्वैर्हृतपौरुष: ।
यवनैररिभी राजन्नुपरुद्धो रुरोद ह ॥ १५ ॥
Text 16
दुहितृ: पुत्रपौत्रांश्च जामिजामातृपार्षदान् ।
स्वत्वावशिष्टं यत्किञ्चिद् गृहकोशपरिच्छदम् ॥ १६ ॥
Text 17
अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृही ।
दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥ १७ ॥
Text 18
लोकान्तरं गतवति मय्यनाथा कुटुम्बिनी ।
वर्तिष्यते कथं त्वेषा बालकाननुशोचती ॥ १८ ॥
Text 19
न मय्यनाशिते भुङ्क्ते नास्नाते स्नाति मत्परा ।
मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यतवाग्भयात् ॥ १९ ॥
Text 20
प्रबोधयति माविज्ञं व्युषिते शोककर्शिता ।
वर्त्मैतद् गृहमेधीयं वीरसूरपि नेष्यति ॥ २० ॥
Text 21
कथं नु दारका दीना दारकीर्वापरायणा: ।
वर्तिष्यन्ते मयि गते भिन्ननाव इवोदधौ ॥ २१ ॥
Text 22
एवं कृपणया बुद्ध्या शोचन्तमतदर्हणम् ।
ग्रहीतुं कृतधीरेनं भयनामाभ्यपद्यत ॥ २२ ॥
Text 23
पशुवद्यवनैरेष नीयमान: स्वकं क्षयम् ।
अन्वद्रवन्ननुपथा: शोचन्तो भृशमातुरा: ॥ २३ ॥
Text 24
पुरीं विहायोपगत उपरुद्धो भुजङ्गम: ।
यदा तमेवानु पुरी विशीर्णा प्रकृतिं गता ॥ २४ ॥
Text 25
विकृष्यमाण: प्रसभं यवनेन बलीयसा ।
नाविन्दत्तमसाविष्ट: सखायं सुहृदं पुर: ॥ २५ ॥
Text 26
तं यज्ञपशवोऽनेन संज्ञप्ता येऽदयालुना ।
कुठारैश्चिच्छिदु: क्रुद्धा: स्मरन्तोऽमीवमस्य तत् ॥ २६ ॥
Text 27
अनन्तपारे तमसि मग्नो नष्टस्मृति: समा: ।
शाश्वतीरनुभूयार्तिं प्रमदासङ्गदूषित: ॥ २७ ॥
Text 28
तामेव मनसा गृह्णन् बभूव प्रमदोत्तमा ।
अनन्तरं विदर्भस्य राजसिंहस्य वेश्मनि ॥ २८ ॥
Text 29
उपयेमे वीर्यपणां वैदर्भीं मलयध्वज: ।
युधि निर्जित्य राजन्यान् पाण्ड्य: परपुरञ्जय: ॥ २९ ॥
Text 30
तस्यां स जनयां चक्र आत्मजामसितेक्षणाम् ।
यवीयस: सप्त सुतान् सप्त द्रविडभूभृत: ॥ ३० ॥
Text 31
एकैकस्याभवत्तेषां राजन्नर्बुदमर्बुदम् ।
भोक्ष्यते यद्वंशधरैर्मही मन्वन्तरं परम् ॥ ३१ ॥
Text 32
अगस्त्य: प्राग्दुहितरमुपयेमे धृतव्रताम् ।
यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनि: ॥ ३२ ॥
Text 33
विभज्य तनयेभ्य: क्ष्मां राजर्षिर्मलयध्वज: ।
आरिराधयिषु: कृष्णं स जगाम कुलाचलम् ॥ ३३ ॥
Text 34
हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा ।
अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनीकरम् ॥ ३४ ॥
Texts 35-36
तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका ।
तत्पुण्यसलिलैर्नित्यमुभयत्रात्मनो मृजन् ॥ ३५ ॥
कन्दाष्टिभिर्मूलफलै: पुष्पपर्णैस्तृणोदकै: ।
वर्तमान: शनैर्गात्रकर्शनं तप आस्थित: ॥ ३६ ॥
Text 37
शीतोष्णवातवर्षाणि क्षुत्पिपासे प्रियाप्रिये ।
सुखदु:खे इति द्वन्द्वान्यजयत्समदर्शन: ॥ ३७ ॥
Text 38
तपसा विद्यया पक्वकषायो नियमैर्यमै: ।
युयुजे ब्रह्मण्यात्मानं विजिताक्षानिलाशय: ॥ ३८ ॥
Text 39
आस्ते स्थाणुरिवैकत्र दिव्यं वर्षशतं स्थिर: ।
वासुदेवे भगवति नान्यद्वेदोद्वहन् रतिम् ॥ ३९ ॥
Text 40
स व्यापकतयात्मानं व्यतिरिक्ततयात्मनि ।
विद्वान् स्वप्न इवामर्शसाक्षिणं विरराम ह ॥ ४० ॥
Text 41
साक्षाद्भगवतोक्तेन गुरुणा हरिणा नृप ।
विशुद्धज्ञानदीपेन स्फुरता विश्वतोमुखम् ॥ ४१ ॥
Text 42
परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि ।
वीक्षमाणो
विहायेक्षामस्मादुपरराम ह ॥ ४२ ॥
Text 43
पतिं परमधर्मज्ञं वैदर्भी मलयध्वजम् ।
प्रेम्णा पर्यचरद्धित्वा भोगान् सा
पतिदेवता ॥ ४३ ॥
Text 44
चीरवासा व्रतक्षामा वेणीभूतशिरोरुहा ।
बभावुप पतिं शान्ता शिखा शान्तमिवानलम् ॥ ४४ ॥
Text 45
अजानती प्रियतमं यदोपरतमङ्गना ।
सुस्थिरासनमासाद्य यथापूर्वमुपाचरत् ॥ ४५ ॥
Text 46
यदा नोपलभेताङ्घ्रावूष्माणं पत्युरर्चती ।
आसीत्संविग्नहृदया यूथभ्रष्टा मृगी यथा ॥ ४६ ॥
Text 47
आत्मानं शोचती दीनमबन्धुं विक्लवाश्रुभि: ।
स्तनावासिच्य विपिने सुस्वरं प्ररुरोद सा ॥ ४७ ॥
Text 48
उत्तिष्ठोत्तिष्ठ राजर्षे इमामुदधिमेखलाम् ।
दस्युभ्य: क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि ॥ ४८ ॥
Text 49
एवं विलपन्ती बाला विपिनेऽनुगता पतिम् ।
पतिता पादयोर्भर्तू रुदत्यश्रूण्यवर्तयत् ॥ ४९ ॥
Text 50
चितिं दारुमयीं चित्वा तस्यां पत्यु: कलेवरम् ।
आदीप्य चानुमरणे विलपन्ती मनो दधे ॥ ५० ॥
Text 51
तत्र पूर्वतर: कश्चित्सखा ब्राह्मण आत्मवान् ।
सान्त्वयन् वल्गुना साम्ना तामाह रुदतीं प्रभो ॥ ५१ ॥
Text 52
ब्राह्मण उवाच
का त्वं कस्यासि को वायं शयानो यस्य शोचसि ।
जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥ ५२ ॥
Text 53
अपि स्मरसि चात्मानमविज्ञातसखं सखे ।
हित्वा मां पदमन्विच्छन् भौमभोगरतो गत: ॥ ५३ ॥
Text 54
हंसावहं च त्वं चार्य सखायौ मानसायनौ ।
अभूतामन्तरा वौक: सहस्रपरिवत्सरान् ॥ ५४ ॥
Text 55
स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम् ।
विचरन् पदमद्राक्षी: कयाचिन्निर्मितं स्त्रिया ॥ ५५ ॥
Text 56
पञ्चारामं नवद्वारमेकपालं त्रिकोष्ठकम् ।
षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम् ॥ ५६ ॥
Text 57
पञ्चेन्द्रियार्था आरामा द्वार: प्राणा नव प्रभो ।
तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसङ्ग्रह: ॥ ५७ ॥
Text 58
विपणस्तु क्रियाशक्तिर्भूतप्रकृतिरव्यया ।
शक्त्यधीश: पुमांस्त्वत्र प्रविष्टो नावबुध्यते ॥ ५८ ॥
Text 59
तस्मिंस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृति: ।
तत्सङ्गादीदृशीं प्राप्तो दशां पापीयसीं प्रभो ॥ ५९ ॥
Text 60
न त्वं विदर्भदुहिता नायं वीर: सुहृत्तव ।
न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया ॥ ६० ॥
Text 61
माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम् ।
मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम् ॥ ६१ ॥
Text 62
अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भो: ।
न नौ पश्यन्ति कवयश्छिद्रं जातु मनागपि ॥ ६२ ॥
Text 63
यथा पुरुष आत्मानमेकमादर्शचक्षुषो: ।
द्विधाभूतमवेक्षेत तथैवान्तरमावयो: ॥ ६३ ॥
Text 64
एवं स मानसो हंसो हंसेन प्रतिबोधित: ।
स्वस्थस्तद्वयभिचारेण नष्टामाप पुन: स्मृतिम् ॥ ६४ ॥
Text 65
बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम् ।
यत्परोक्षप्रियो देवो भगवान् विश्वभावन: ॥ ६५ ॥






