Srimad Bhagavatam | Canto 4 | Chapter 27 | Verses

Text 1 नारद उवाच इत्थं पुरञ्जनं सध्र्यग्वशमानीय विभ्रमै: । पुरञ्जनी महाराज रेमे रमयती पतिम् ॥ १ ॥

0
54

Attack by Caṇḍavega on the City of King Purañjana; the Character of Kālakanyā

Text 1

नारद उवाच
इत्थं पुरञ्जनं सध्र्यग्वशमानीय विभ्रमै: ।
पुरञ्जनी महाराज रेमे रमयती पतिम् ॥ १ ॥

Text 2

स राजा महिषीं राजन् सुस्‍नातां
रुचिराननाम् ।
कृतस्वस्त्ययनां तृप्तामभ्यनन्ददुपागताम् ॥ २ ॥

Text 3

तयोपगूढ: परिरब्धकन्धरो
रहोऽनुमन्त्रैरपकृष्टचेतन: ।

कालरंहो बुबुधे दुरत्ययं
दिवा निशेति प्रमदापरिग्रह: ॥ ३ ॥

Text 4

शयान उन्नद्धमदो महामना
महार्हतल्पे महिषीभुजोपधि: ।
तामेव वीरो मनुते परं यत-
स्तमोऽभिभूतो न निजं परं च यत् ॥ ४ ॥

Text 5

तयैवं रममाणस्य कामकश्मलचेतस: ।
क्षणार्धमिव राजेन्द्र व्यतिक्रान्तं नवं वय: ॥ ५ ॥

Text 6

तस्यामजनयत्पुत्रान् पुरञ्जन्यां पुरञ्जन: ।
शतान्येकादश विराडायुषोऽर्धमथात्यगात् ॥ ६ ॥

Text 7

दुहितृर्दशोत्तरशतं पितृमातृयशस्करी: ।
शीलौदार्यगुणोपेता: पौरञ्जन्य: प्रजापते ॥ ७ ॥

Text 8

स पञ्चालपति: पुत्रान् पितृवंशविवर्धनान् ।
दारै: संयोजयामास दुहितृ: सद‍ृशैर्वरै: ॥ ८ ॥

Text 9

पुत्राणां चाभवन्पुत्रा एकैकस्य शतं शतम् ।
यैर्वै पौरञ्जनो वंश: पञ्चालेषु समेधित: ॥ ९ ॥

Text 10

तेषु तद्रिक्थहारेषु गृहकोशानुजीविषु ।
निरूढेन ममत्वेन विषयेष्वन्वबध्यत ॥ १० ॥

Text 11

ईजे च क्रतुभिर्घोरैर्दीक्षित: पशुमारकै: ।
देवान् पितृन् भूतपतीन्नानाकामो यथा भवान् ॥ ११ ॥

Text 12

युक्तेष्वेवं प्रमत्तस्य कुटुम्बासक्तचेतस: ।
आससाद स वै कालो योऽप्रिय: प्रिययोषिताम् ॥ १२ ॥

Text 13

चण्डवेग इति ख्यातो गन्धर्वाधिपतिर्नृप ।
गन्धर्वास्तस्य बलिन: षष्ट्युत्तरशतत्रयम् ॥ १३ ॥

Text 14

गन्धर्व्यस्ताद‍ृशीरस्य मैथुन्यश्च सितासिता: ।
परिवृत्त्या विलुम्पन्ति सर्वकामविनिर्मिताम् ॥ १४ ॥

Text 15

ते चण्डवेगानुचरा: पुरञ्जनपुरं यदा ।
हर्तुमारेभिरे तत्र प्रत्यषेधत्प्रजागर: ॥ १५ ॥

Text 16

स सप्तभि: शतैरेको विंशत्या च शतं समा: ।
पुरञ्जनपुराध्यक्षो गन्धर्वैर्युयुधे बली ॥ १६ ॥

Text 17

क्षीयमाणे स्वसम्बन्धे एकस्मिन् बहुभिर्युधा ।
चिन्तां परां जगामार्त: सराष्ट्रपुरबान्धव: ॥ १७ ॥

Text 18

स एव पुर्यां मधुभुक्पञ्चालेषु स्वपार्षदै: ।
उपनीतं बलिं गृह्णन् स्त्रीजितो नाविदद्भयम् ॥ १८ ॥

Text 19

कालस्य दुहिता काचित्‍त्रिलोकीं वरमिच्छती ।
पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥ १९ ॥

Text 20

दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा ।
या तुष्टा राजर्षये तु वृतादात्पूरवे वरम् ॥ २० ॥

Text 21

कदाचिदटमाना सा ब्रह्मलोकान्महीं गतम् ।
वव्रे बृहद्‌व्रतं मां तु जानती काममोहिता ॥ २१ ॥

Text 22

मयि संरभ्य विपुलमदाच्छापं सुदु:सहम् ।
स्थातुमर्हसि नैकत्र मद्याच्ञाविमुखो मुने ॥ २२ ॥

Text 23

ततो विहतसङ्कल्पा कन्यका यवनेश्वरम् ।
मयोपदिष्टमासाद्य वव्रे नाम्ना भयं पतिम् ॥ २३ ॥

Text 24

ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् ।
सङ्कल्पस्त्वयि भूतानां कृत: किल न रिष्यति ॥ २४ ॥

Text 25

द्वाविमावनुशोचन्ति बालावसदवग्रहौ ।
यल्लोकशास्त्रोपनतं न राति न तदिच्छति ॥ २५ ॥

Text 26

अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु ।
एतावान् पौरुषो धर्मो यदार्ताननुकम्पते ॥ २६ ॥

Text 27

कालकन्योदितवचो निशम्य यवनेश्वर: ।
चिकीर्षुर्देवगुह्यं स सस्मितं तामभाषत ॥ २७ ॥

Text 28

मया निरूपितस्तुभ्यं पतिरात्मसमाधिना ।
नाभिनन्दति लोकोऽयं त्वामभद्रामसम्मताम् ॥ २८ ॥

Text 29

त्वमव्यक्तगतिर्भुङ्‌क्ष्व लोकं कर्मविनिर्मितम् ।
या हि मे पृतनायुक्ता प्रजानाशं प्रणेष्यसि ॥ २९ ॥

Text 30

प्रज्वारोऽयं मम भ्राता त्वं च मे भगिनी भव ।
चराम्युभाभ्यां लोकेऽस्मिन्नव्यक्तो भीमसैनिक: ॥ ३० ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here