Srimad Bhagavatam | Canto 4 | Chapter 26 | Verses

Texts 1-3 नारद उवाच स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् । द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥ १ ॥ एकरश्म्येकदमनमेकनीडं द्विकूबरम् । पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम् ॥ २ ॥ हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधि: । एकादशचमूनाथ: पञ्चप्रस्थमगाद्वनम् ॥ ३ ॥

0
68

King Purañjana Goes to the Forest to Hunt, and His Queen Becomes Angry

Texts 1-3

नारद उवाच
स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् ।
द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम् ॥ १ ॥
एकरश्म्येकदमनमेकनीडं द्विकूबरम् ।
पञ्चप्रहरणं सप्तवरूथं पञ्चविक्रमम् ॥ २ ॥
हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधि: ।
एकादशचमूनाथ: पञ्चप्रस्थमगाद्वनम् ॥ ३ ॥

Text 4

चचार मृगयां तत्र द‍ृप्त आत्तेषुकार्मुक: ।
विहाय जायामतदर्हां मृगव्यसनलालस: ॥ ४ ॥

Text 5

आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रह: ।
न्यहनन्निशितैर्बाणैर्वनेषु वनगोचरान् ॥ ५ ॥

Text 6

तीर्थेषु प्रतिद‍ृष्टेषु राजा मेध्यान् पशून् वने ।
यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥ ६ ॥

Text 7

य एवं कर्म नियतं विद्वान् कुर्वीत मानव: ।
कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥ ७ ॥

Text 8

अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते ।
गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यध: ॥ ८ ॥

Text 9

तत्र निर्भिन्नगात्राणां चित्रवाजै: शिलीमुखै: ।
विप्लवोऽभूद्दु:खितानां दु:सह: करुणात्मनाम् ॥ ९ ॥

Text 10

शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् ।
मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात् ॥ १० ॥

Text 11

तत: क्षुत्तृट्परिश्रान्तो निवृत्तो गृहमेयिवान् ।
कृतस्‍नानोचिताहार: संविवेश गतक्लम: ॥ ११ ॥

Text 12

आत्मानमर्हयां चक्रे धूपालेपस्रगादिभि: ।
साध्वलङ्कृतसर्वाङ्गो महिष्यामादधे मन: ॥ १२ ॥

Text 13

तृप्तो हृष्ट: सुद‍ृप्तश्च कन्दर्पाकृष्टमानस: ।
न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम् ॥ १३ ॥

Text 14

अन्त:पुरस्त्रियोऽपृच्छद्विमना इव वेदिषत् ।
अपि व: कुशलं रामा: सेश्वरीणां यथा पुरा ॥ १४ ॥

Text 15

न तथैतर्हि रोचन्ते गृहेषु गृहसम्पद: ।
यदि न स्याद्गृहे माता पत्नी वा पतिदेवता ।
व्यङ्गे रथ इव प्राज्ञ: को नामासीत दीनवत् ॥ १५ ॥

Text 16

क्‍व वर्तते सा ललना मज्जन्तं व्यसनार्णवे ।
या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥ १६ ॥

Text 17

रामा ऊचु:
नरनाथ न जानीमस्त्वत्प्रिया यद्वय‍वस्यति ।
भूतले निरवस्तारे शयानां पश्य शत्रुहन् ॥ १७ ॥

Text 18

नारद उवाच
पुरञ्जन: स्वमहिषीं निरीक्ष्यावधुतां भुवि ।
तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ ॥ १८ ॥

Text 19

सान्‍त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता ।
प्रेयस्या: स्‍नेहसंरम्भलिङ्गमात्मनि नाभ्यगात् ॥ १९ ॥

Text 20

अनुनिन्येऽथ शनकैर्वीरोऽनुनयकोविद: ।
पस्पर्श पादयुगलमाह चोत्सङ्गलालिताम् ॥ २० ॥

Text 21

पुरञ्जन उवाच
नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वरा: शुभे ।
कृताग:स्वात्मसात्कृत्वा शिक्षादण्डं न युञ्जते ॥ २१ ॥

Text 22

परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पित: ।
बालो न वेद तत्तन्वि बन्धुकृत्यममर्षण: ॥ २२ ॥

Text 23

सा त्वं मुखं सुदति सुभ्र्‌वनुरागभार
व्रीडाविलम्बविलसद्धसितावलोकम् ।
नीलालकालिभिरुपस्कृतमुन्नसं न:
स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम् ॥ २३ ॥

Text 24

तस्मिन्दधे दममहं तव वीरपत्नि
योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम् ।
पश्ये न वीतभयमुन्मुदितं त्रिलोक्या-
मन्यत्र वै मुररिपोरितरत्र दासात् ॥ २४ ॥

Text 25

वक्त्रं न ते वितिलकं मलिनं विहर्षं
संरम्भभीममविमृष्टमपेतरागम् ।
पश्ये स्तनावपि शुचोपहतौ सुजातौ
बिम्बाधरं विगतकुङ्कुमपङ्करागम् ॥ २५ ॥

Text 26

तन्मे प्रसीद सुहृद: कृतकिल्बिषस्य
स्वैरं गतस्य मृगयां व्यसनातुरस्य ।
का देवरं वशगतं कुसुमास्त्रवेग
विस्रस्तपौंस्‍नमुशती न भजेत कृत्ये ॥ २६ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here