Chanting the Song Sung by Lord Śiva
Text 1
मैत्रेय उवाच
विजिताश्वोऽधिराजासीत्पृथुपुत्र: पृथुश्रवा: ।
यवीयोभ्योऽददात्काष्ठा भ्रातृभ्यो भ्रातृवत्सल: ॥ १ ॥
Text 2
हर्यक्षायादिशत्प्राचीं धूम्रकेशाय दक्षिणाम् ।
प्रतीचीं वृकसंज्ञाय तुर्यां द्रविणसे विभु: ॥ २ ॥
Text 3
अन्तर्धानगतिं शक्राल्लब्ध्वान्तर्धानसंज्ञित: ।
अपत्यत्रयमाधत्त शिखण्डिन्यां सुसम्मतम् ॥ ३ ॥
Text 4
पावक: पवमानश्च शुचिरित्यग्नय: पुरा ।
वसिष्ठशापादुत्पन्ना: पुनर्योगगतिं गता: ॥ ४ ॥
Text 5
अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत ।
य इन्द्रमश्वहर्तारं विद्वानपि न जघ्निवान् ॥ ५ ॥
Text 6
राज्ञां वृत्तिं करादानदण्डशुल्कादिदारुणाम् ।
मन्यमानो दीर्घसत्त्रव्याजेन विससर्ज ह ॥ ६ ॥
Text 7
तत्रापि हंसं पुरुषं परमात्मानमात्मदृक् ।
यजंस्तल्लोकतामाप कुशलेन समाधिना ॥ ७ ॥
Text 8
हविर्धानाद्धविर्धानी विदुरासूत षट्सुतान् ।
बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ ८ ॥
Text 9
बर्हिषत् सुमहाभागो हाविर्धानि: प्रजापति: ।
क्रियाकाण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ ९ ॥
Text 10
यस्येदं देवयजनमनुयज्ञं वितन्वत: ।
प्राचीनाग्रै: कुशैरासीदास्तृतं वसुधातलम् ॥ १० ॥
Text 11
सामुद्रीं देवदेवोक्तामुपयेमे शतद्रुतिम् ।
यां वीक्ष्य चारुसर्वाङ्गीं किशोरीं सुष्ठ्वलङ्कृताम् ।
परिक्रमन्तीमुद्वाहे चकमेऽग्नि: शुकीमिव ॥ ११ ॥
Text 12
विबुधासुरगन्धर्वमुनिसिद्धनरोरगा: ।
विजिता: सूर्यया दिक्षु क्वणयन्त्यैव नूपुरै: ॥ १२ ॥
Text 13
प्राचीनबर्हिष: पुत्रा: शतद्रुत्यां दशाभवन् ।
तुल्यनामव्रता: सर्वे धर्मस्नाता: प्रचेतस: ॥ १३ ॥
Text 14
पित्रादिष्टा: प्रजासर्गे तपसेऽर्णवमाविशन् ।
दशवर्षसहस्राणि तपसार्चंस्तपस्पतिम् ॥ १४ ॥
Text 15
यदुक्तं पथि दृष्टेन गिरिशेन प्रसीदता ।
तद्ध्यायन्तो जपन्तश्च पूजयन्तश्च संयता: ॥ १५ ॥
Text 16
विदुर उवाच
प्रचेतसां गिरित्रेण यथासीत्पथि सङ्गम: ।
यदुताह हर: प्रीतस्तन्नो ब्रह्मन् वदार्थवत् ॥ १६ ॥
Text 17
सङ्गम: खलु विप्रर्षे शिवेनेह शरीरिणाम् ।
दुर्लभो मुनयो दध्युरसङ्गाद्यमभीप्सितम् ॥ १७ ॥
Text 18
आत्मारामोऽपि यस्त्वस्य लोककल्पस्य राधसे ।
शक्त्या युक्तो विचरति घोरया भगवान् भव: ॥ १८ ॥
Text 19
मैत्रेय उवाच
प्रचेतस: पितुर्वाक्यं शिरसादाय साधव: ।
दिशं प्रतीचीं प्रययुस्तपस्यादृतचेतस: ॥ १९ ॥
Text 20
ससमुद्रमुप विस्तीर्णमपश्यन् सुमहत्सर: ।
महन्मन इव स्वच्छं प्रसन्नसलिलाशयम् ॥ २० ॥
Text 21
नीलरक्तोत्पलाम्भोजकह्लारेन्दीवराकरम् ।
हंससारसचक्राह्वकारण्डवनिकूजितम् ॥ २१ ॥
Text 22
मत्तभ्रमरसौस्वर्यहृष्टरोमलताङ्घ्रिपम् ।
पद्मकोशरजो दिक्षु विक्षिपत्पवनोत्सवम् ॥ २२ ॥
Text 23
तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम् ।
विसिस्म्यू राजपुत्रास्ते मृदङ्गपणवाद्यनु ॥ २३ ॥
Texts 24-25
तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम् ।
उपगीयमानममरप्रवरं विबुधानुगै: ॥ २४ ॥
तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् ।
प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुका: ॥ २५ ॥
Text 26
स तान् प्रपन्नार्तिहरो भगवान्धर्मवत्सल: ।
धर्मज्ञान् शीलसम्पन्नान् प्रीत: प्रीतानुवाच ह ॥ २६ ॥
Text 27
श्रीरुद्र उवाच
यूयं वेदिषद: पुत्रा विदितं वश्चिकीर्षितम् ।
अनुग्रहाय भद्रं व एवं मे दर्शनं
कृतम् ॥ २७ ॥
Text 28
य: परं रंहस:
साक्षात्त्रिरगुणाज्जीवसंज्ञितात् ।
भगवन्तं वासुदेवं प्रपन्न: स प्रियो हि
मे ॥ २८ ॥
Text 29
स्वधर्मनिष्ठ: शतजन्मभि: पुमान्
विरिञ्चतामेति तत: परं हि माम् ।
अव्याकृतं भागवतोऽथ वैष्णवं
पदं यथाहं विबुधा: कलात्यये ॥ २९ ॥
Text 30
अथ भागवता यूयं प्रिया: स्थ भगवान् यथा ।
न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ॥ ३० ॥
Text 31
इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् ।
नि:श्रेयसकरं चापि श्रूयतां तद्वदामि व: ॥ ३१ ॥
Text 32
मैत्रेय उवाच
इत्यनुक्रोशहृदयो भगवानाह ताञ्छिव: ।
बद्धाञ्जलीन् राजपुत्रान्नारायणपरो वच: ॥ ३२ ॥
Text 33
श्रीरुद्र उवाच
जितं त आत्मविद्वर्यस्वस्तये स्वस्तिरस्तु मे ।
भवताराधसा राद्धं सर्वस्मा आत्मने नम: ॥ ३३ ॥
Text 34
नम: पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने ।
वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे ॥ ३४ ॥
Text 35
सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च ।
नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने ॥ ३५ ॥
Text 36
नमो नमोऽनिरुद्धाय हृषीकेशेन्द्रियात्मने ।
नम: परमहंसाय पूर्णाय निभृतात्मने ॥ ३६ ॥
Text 37
स्वर्गापवर्गद्वाराय नित्यं शुचिषदे नम: ।
नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे ॥ ३७ ॥
Text 38
नम ऊर्ज इषे त्रय्या: पतये यज्ञरेतसे ।
तृप्तिदाय च जीवानां नम: सर्वरसात्मने ॥ ३८ ॥
Text 39
सर्वसत्त्वात्मदेहाय विशेषाय
स्थवीयसे ।
नमस्त्रैलोक्यपालाय सह ओजोबलाय च ॥ ३९ ॥
Text 40
अर्थलिङ्गाय नभसे नमोऽन्तर्बहिरात्मने ।
नम: पुण्याय लोकाय अमुष्मै भूरिवर्चसे ॥ ४० ॥
Text 41
प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे ।
नमोऽधर्मविपाकाय मृत्यवे दु:खदाय च ॥ ४१ ॥
Text 42
नमस्त आशिषामीश मनवे कारणात्मने ।
नमो धर्माय बृहते कृष्णायाकुण्ठमेधसे ।
पुरुषाय पुराणाय साङ्ख्ययोगेश्वराय च ॥ ४२ ॥
Text 43
शक्तित्रयसमेताय मीढुषेऽहङ्कृतात्मने ।
चेतआकूतिरूपाय नमो वाचो विभूतये ॥ ४३ ॥
Text 44
दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् ।
रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनम् ॥ ४४ ॥
Texts 45-46
स्निग्धप्रावृड्घनश्यामं सर्वसौन्दर्यसङ्ग्रहम् ।
चार्वायतचतुर्बाहु सुजातरुचिराननम् ॥ ४५ ॥
पद्मकोशपलाशाक्षं सुन्दरभ्रु सुनासिकम् ।
सुद्विजं सुकपोलास्यं समकर्णविभूषणम् ॥ ४६ ॥
Texts 47-48
प्रीतिप्रहसितापाङ्गमलकै रूपशोभितम् ।
लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुण्डलम् ॥ ४७ ॥
स्फुरत्किरीटवलयहारनूपुरमेखलम् ।
शङ्खचक्रगदापद्ममालामण्युत्तमर्द्धिमत् ॥ ४८ ॥
Text 49
सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभम् ।
श्रियानपायिन्या क्षिप्तनिकषाश्मोरसोल्लसत् ॥ ४९ ॥
Text 50
पूररेचकसंविग्नवलिवल्गुदलोदरम् ।
प्रतिसङ्क्रामयद्विश्वं नाभ्यावर्तगभीरया ॥ ५० ॥
Text 51
श्यामश्रोण्यधिरोचिष्णुदुकूलस्वर्णमेखलम् ।
समचार्वङ्घ्रिजङ्घोरुनिम्नजानुसुदर्शनम् ॥ ५१ ॥
Text 52
पदा शरत्पद्मपलाशरोचिषा
नखद्युभिर्नोऽन्तरघं विधुन्वता ।
प्रदर्शय स्वीयमपास्तसाध्वसं
पदं गुरो मार्गगुरुस्तमोजुषाम् ॥ ५२ ॥
Text 53
एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् ।
यद्भक्तियोगोऽभयद: स्वधर्ममनुतिष्ठताम् ॥ ५३ ॥
Text 54
भवान् भक्तिमता लभ्यो दुर्लभ: सर्वदेहिनाम् ।
स्वाराज्यस्याप्यभिमत एकान्तेनात्मविद्गति: ॥ ५४ ॥
Text 55
तं दुराराध्यमाराध्य सतामपि दुरापया ।
एकान्तभक्त्या को वाञ्छेत्पादमूलं विना बहि: ॥ ५५ ॥
Text 56
यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते ।
विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा ॥ ५६ ॥
Text 57
क्षणार्धेनापि तुलये न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ ५७ ॥
Text 58
अथानघाङ्घ्रेस्तव कीर्तितीर्थयो-
रन्तर्बहि:स्नानविधूतपाप्मनाम् ।
भूतेष्वनुक्रोशसुसत्त्वशीलिनां
स्यात्सङ्गमोऽनुग्रह एष नस्तव ॥ ५८ ॥
Text 59
न यस्य चित्तं बहिरर्थविभ्रमं
तमोगुहायां च विशुद्धमाविशत् ।
यद्भक्तियोगानुगृहीतमञ्जसा
मुनिर्विचष्टे ननु तत्र ते गतिम् ॥ ५९ ॥
Text 60
यत्रेदं व्यज्यते विश्वं विश्वस्मिन्नवभाति यत् ।
तत् त्वं ब्रह्म परं ज्योतिराकाशमिव विस्तृतम् ॥ ६० ॥
Text 61
यो माययेदं पुरुरूपयासृजद्
बिभर्ति भूय: क्षपयत्यविक्रिय: ।
यद्भेदबुद्धि: सदिवात्मदु:स्थया
त्वमात्मतन्त्रं भगवन् प्रतीमहि ॥ ६१ ॥
Text 62
क्रियाकलापैरिदमेव योगिन:
श्रद्धान्विता: साधु यजन्ति सिद्धये ।
भूतेन्द्रियान्त:करणोपलक्षितं
वेदे च तन्त्रे च त एव कोविदा: ॥ ६२ ॥
Text 63
त्वमेक आद्य: पुरुष: सुप्तशक्ति-
स्तया रज:सत्त्वतमो विभिद्यते ।
महानहं खं मरुदग्निवार्धरा:
सुरर्षयो भूतगणा इदं यत: ॥ ६३ ॥
Text 64
सृष्टं स्वशक्त्येदमनुप्रविष्ट-
श्चचतुर्विधं पुरमात्मांशकेन ।
अथो विदुस्तं पुरुषं सन्तमन्त-
र्भुङ्क्ते हृषीकैर्मधु सारघं य: ॥ ६४ ॥
Text 65
स एष लोकानतिचण्डवेगो
विकर्षसि त्वं खलु कालयान: ।
भूतानि भूतैरनुमेयतत्त्वो
घनावलीर्वायुरिवाविषह्य: ॥ ६५ ॥
Text 66
प्रमत्तमुच्चैरिति कृत्यचिन्तया
प्रवृद्धलोभं विषयेषु लालसम् ।
त्वमप्रमत्त: सहसाभिपद्यसे
क्षुल्लेलिहानोऽहिरिवाखुमन्तक: ॥ ६६ ॥
Text 67
कस्त्वत्पदाब्जं विजहाति पण्डितो
यस्तेऽवमानव्ययमानकेतन: ।
विशङ्कयास्मद्गुरुरर्चति स्म यद्
विनोपपत्तिं मनवश्चतुर्दश ॥ ६७ ॥
Text 68
अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् ।
विश्वं रुद्रभयध्वस्तमकुतश्चिद्भया गति: ॥ ६८ ॥
Text 69
इदं जपत भद्रं वो विशुद्धा नृपनन्दना: ।
स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशया: ॥ ६९ ॥
Text 70
तमेवात्मानमात्मस्थं सर्वभूतेष्ववस्थितम् ।
पूजयध्वं गृणन्तश्च ध्यायन्तश्चासकृद्धरिम् ॥ ७० ॥
Text 71
योगादेशमुपासाद्य धारयन्तो मुनिव्रता: ।
समाहितधिय: सर्व एतदभ्यसतादृता: ॥ ७१ ॥
Text 72
इदमाह पुरास्माकं भगवान् विश्वसृक्पति: ।
भृग्वादीनामात्मजानां सिसृक्षु: संसिसृक्षताम् ॥ ७२ ॥
Text 73
ते वयं नोदिता: सर्वे प्रजासर्गे प्रजेश्वरा: ।
अनेन ध्वस्ततमस: सिसृक्ष्मो विविधा: प्रजा: ॥ ७३ ॥
Text 74
अथेदं नित्यदा युक्तो जपन्नवहित: पुमान् ।
अचिराच्छ्रेय आप्नोति वासुदेवपरायण: ॥ ७४ ॥
Text 75
श्रेयसामिह सर्वेषां ज्ञानं नि:श्रेयसं परम् ।
सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् ॥ ७५ ॥
Text 76
य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् ।
अधीयानो दुराराध्यं हरिमाराधयत्यसौ ॥ ७६ ॥
Text 77
विन्दते पुरुषोऽमुष्माद्यद्यदिच्छत्यसत्वरम् ।
मद्गीतगीतात्सुप्रीताच्छ्रेयसामेकवल्लभात् ॥ ७७ ॥
Text 78
इदं य: कल्य उत्थाय प्राञ्जलि: श्रद्धयान्वित: ।
शृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्मबन्धनै: ॥ ७८ ॥
Text 79
गीतं मयेदं नरदेवनन्दना:
परस्य पुंस: परमात्मन: स्तवम् ।
जपन्त एकाग्रधियस्तपो महत्
चरध्वमन्ते तत आप्स्यथेप्सितम् ॥ ७९ ॥






