Mahārāja Pṛthu’s Going Back Home
Texts 1-3
मैत्रेय उवाच
दृष्ट्वात्मानं प्रवयसमेकदा वैन्य आत्मवान् ।
आत्मना वर्धिताशेषस्वानुसर्ग: प्रजापति: ॥ १ ॥
जगतस्तस्थुषश्चापि वृत्तिदो धर्मभृत्सताम् ।
निष्पादितेश्वरादेशो यदर्थमिह जज्ञिवान् ॥ २ ॥
आत्मजेष्वात्मजां न्यस्य विरहाद्रुदतीमिव ।
प्रजासु विमन:स्वेक: सदारोऽगात्तपोवनम् ॥ ३ ॥
Text 4
तत्राप्यदाभ्यनियमो वैखानससुसम्मते ।
आरब्ध उग्रतपसि यथा स्वविजये पुरा ॥ ४ ॥
Text 5
कन्दमूलफलाहार: शुष्कपर्णाशन: क्वचित् ।
अब्भक्ष: कतिचित्पक्षान् वायुभक्षस्तत: परम् ॥ ५ ॥
Text 6
ग्रीष्मे पञ्चतपा वीरो वर्षास्वासारषाण्मुनि: ।
आकण्ठमग्न: शिशिरे उदके स्थण्डिलेशय: ॥ ६ ॥
Text 7
तितिक्षुर्यतवाग्दान्त ऊर्ध्वरेता जितानिल: ।
आरिराधयिषु: कृष्णमचरत्तप उत्तमम् ॥ ७ ॥
Text 8
तेन क्रमानुसिद्धेन ध्वस्तकर्ममलाशय: ।
प्राणायामै: सन्निरुद्धषड्वर्गश्छिन्नबन्धन: ॥ ८ ॥
Text 9
सनत्कुमारो भगवान् यदाहाध्यात्मिकं परम् ।
योगं तेनैव पुरुषमभजत्पुरुषर्षभ: ॥ ९ ॥
Text 10
भगवद्धर्मिण: साधो: श्रद्धया यतत: सदा ।
भक्तिर्भगवति ब्रह्मण्यनन्यविषयाभवत् ॥ १० ॥
Text 11
तस्यानया भगवत: परिकर्मशुद्ध
सत्त्वात्मनस्तदनुसंस्मरणानुपूर्त्या ।
ज्ञानं विरक्तिमदभून्निशितेन येन
चिच्छेद संशयपदं निजजीवकोशम् ॥ ११ ॥
Text 12
छिन्नान्यधीरधिगतात्मगतिर्निरीह-
स्तत्तत्यजेऽच्छिनदिदं वयुनेन येन ।
तावन्न योगगतिभिर्यतिरप्रमत्तो
यावद्गदाग्रजकथासु रतिं न कुर्यात् ॥ १२ ॥
Text 13
एवं स वीरप्रवर: संयोज्यात्मानमात्मनि ।
ब्रह्मभूतो दृढं काले तत्याज स्वं कलेवरम् ॥ १३ ॥
Text 14
सम्पीड्य पायुं पार्ष्णिभ्यां वायुमुत्सारयञ्छनै: ।
नाभ्यां कोष्ठेष्ववस्थाप्य हृदुर:कण्ठशीर्षणि ॥ १४ ॥
Text 15
उत्सर्पयंस्तु तं मूर्ध्नि क्रमेणावेश्य नि:स्पृह: ।
वायुं वायौ क्षितौ कायं तेजस्तेजस्ययूयुजत् ॥ १५ ॥
Text 16
खान्याकाशे द्रवं तोये यथास्थानं विभागश: ।
क्षितिमम्भसि तत्तेजस्यदो वायौ नभस्यमुम् ॥ १६ ॥
Text 17
इन्द्रियेषु मनस्तानि तन्मात्रेषु यथोद्भवम् ।
भूतादिनामून्युत्कृष्य महत्यात्मनि सन्दधे ॥ १७ ॥
Text 18
तं सर्वगुणविन्यासं जीवे मायामये न्यधात् ।
तं चानुशयमात्मस्थमसावनुशयी पुमान् ।
ज्ञानवैराग्यवीर्येण स्वरूपस्थोऽजहात्प्रभु: ॥ १८ ॥
Text 19
अर्चिर्नाम महाराज्ञी तत्पत्न्यनुगता वनम् ।
सुकुमार्यतदर्हा च यत्पद्भ्यां स्पर्शनं भुव: ॥ १९ ॥
Text 20
अतीव भर्तुर्व्रतधर्मनिष्ठया
शुश्रूषया चार्षदेहयात्रया ।
नाविन्दतार्तिं परिकर्शितापि सा
प्रेयस्करस्पर्शनमाननिर्वृति: ॥ २० ॥
Text 21
देहं विपन्नाखिलचेतनादिकं
पत्यु: पृथिव्या दयितस्य चात्मन: ।
आलक्ष्य किञ्चिच्च विलप्य सा सती
चितामथारोपयदद्रिसानुनि ॥ २१ ॥
Text 22
विधाय कृत्यं ह्रदिनीजलाप्लुता
दत्त्वोदकं भर्तुरुदारकर्मण: ।
नत्वा दिविस्थांस्त्रिदशांस्त्रि: परीत्य
विवेश वह्निं ध्यायती भर्तृपादौ ॥ २२ ॥
Text 23
विलोक्यानुगतां साध्वीं पृथुं वीरवरं पतिम् ।
तुष्टुवुर्वरदा देवैर्देवपत्न्य: सहस्रश: ॥ २३ ॥
Text 24
कुर्वत्य: कुसुमासारं तस्मिन्मन्दरसानुनि ।
नदत्स्वमरतूर्येषु गृणन्ति स्म परस्परम् ॥ २४ ॥
Text 25
देव्य ऊचु:
अहो इयं वधूर्धन्या या चैवं भूभुजां पतिम् ।
सर्वात्मना पतिं भेजे यज्ञेशं श्रीर्वधूरिव ॥ २५ ॥
Text 26
सैषा नूनं व्रजत्यूर्ध्वमनु वैन्यं पतिं सती ।
पश्यतास्मानतीत्यार्चिर्दुर्विभाव्येन कर्मणा ॥ २६ ॥
Text 27
तेषां दुरापं किं त्वन्यन्मर्त्यानां भगवत्पदम् ।
भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्युत ॥ २७ ॥
Text 28
स वञ्चितो बतात्मध्रुक् कृच्छ्रेण महता भुवि ।
लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥ २८ ॥
Text 29
मैत्रेय उवाच
स्तुवतीष्वमरस्त्रीषु पतिलोकं गता वधू: ।
यं वा आत्मविदां धुर्यो वैन्य: प्रापाच्युताश्रय: ॥ २९ ॥
Text 30
इत्थम्भूतानुभावोऽसौ पृथु: स भगवत्तम: ।
कीर्तितं तस्य चरितमुद्दामचरितस्य ते ॥ ३० ॥
Text 31
य इदं सुमहत्पुण्यं श्रद्धयावहित: पठेत् ।
श्रावयेच्छृणुयाद्वापि स पृथो: पदवीमियात् ॥ ३१ ॥
Text 32
ब्राह्मणो ब्रह्मवर्चस्वी राजन्यो जगतीपति: ।
वैश्य: पठन् विट्पति: स्याच्छूद्र: सत्तमतामियात् ॥ ३२ ॥
Text 33
त्रि: कृत्व इदमाकर्ण्य नरो नार्यथवादृता ।
अप्रज: सुप्रजतमो निर्धनो धनवत्तम: ॥ ३३ ॥
Text 34
अस्पष्टकीर्ति: सुयशा मूर्खो भवति पण्डित: ।
इदं स्वस्त्ययनं पुंसाममङ्गल्यनिवारणम् ॥ ३४ ॥
Text 35
धन्यं यशस्यमायुष्यं स्वर्ग्यं कलिमलापहम् ।
धर्मार्थकाममोक्षाणां सम्यक्सिद्धिमभीप्सुभि: ।
श्रद्धयैतदनुश्राव्यं चतुर्णां कारणं परम् ॥ ३५ ॥
Text 36
विजयाभिमुखो राजा श्रुत्वैतदभियाति यान् ।
बलिं तस्मै हरन्त्यग्रे राजान: पृथवे यथा ॥ ३६ ॥
Text 37
मुक्तान्यसङ्गो भगवत्यमलां भक्तिमुद्वहन् ।
वैन्यस्य चरितं पुण्यं शृणुयाच्छ्रावयेत्पठेत् ॥ ३७ ॥
Text 38
वैचित्रवीर्याभिहितं महन्माहात्म्यसूचकम् ।
अस्मिन् कृतमतिमर्त्यं पार्थवीं गतिमाप्नुयात् ॥ ३८ ॥
Text 39
अनुदिनमिदमादरेण शृण्वन्
पृथुचरितं प्रथयन् विमुक्तसङ्ग: ।
भगवति भवसिन्धुपोतपादे
स च निपुणां लभते रतिं मनुष्य: ॥ ३९ ॥






