Srimad Bhagavatam | Canto 4 | Chapter 22 | Verses

Text 1 मैत्रेय उवाच जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम् । तत्रोपजग्मुर्मुनयश्चत्वार: सूर्यवर्चस: ॥ १ ॥

0
27

Pṛthu Mahārāja’s Meeting with the Four Kumāras

Text 1

मैत्रेय उवाच
जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम् ।
तत्रोपजग्मुर्मुनयश्चत्वार: सूर्यवर्चस: ॥ १ ॥

Text 2

तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा ।
लोकानपापान् कुर्वाणान् सानुगोऽचष्ट लक्षितान् ॥ २ ॥

Text 3

तद्दर्शनोद्गतान् प्राणान् प्रत्यादित्सुरिवोत्थित: ।
ससदस्यानुगो वैन्य इन्द्रियेशो गुणानिव ॥ ३ ॥

Text 4

गौरवाद्यन्त्रित: सभ्य: प्रश्रयानतकन्धर: ।
विधिवत्पूजयां चक्रे गृहीताध्यर्हणासनान् ॥ ४ ॥

Text 5

तत्पादशौचसलिलैर्मार्जितालकबन्धन: ।
तत्र शीलवतां वृत्तमाचरन्मानयन्निव ॥ ५ ॥

Text 6

हाटकासन आसीनान् स्वधिष्ण्येष्विव पावकान् ।
श्रद्धासंयमसंयुक्त: प्रीत: प्राह भवाग्रजान् ॥ ६ ॥

Text 7

पृथुरुवाच
अहो आचरितं किं मे मङ्गलं मङ्गलायना: ।
यस्य वो दर्शनं ह्यासीद्दुर्दर्शानां च योगिभि: ॥ ७ ॥

Text 8

किं तस्य दुर्लभतरमिह लोके परत्र च ।
यस्य विप्रा: प्रसीदन्ति शिवो विष्णुश्च सानुग: ॥ ८ ॥

Text 9

नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् ।
यथा सर्वद‍ृशं सर्व आत्मानं येऽस्य हेतव: ॥ ९ ॥

Text 10

अधना अपि ते धन्या: साधवो गृहमेधिन: ।
यद्गृहा ह्यर्हवर्याम्बुतृणभूमीश्वरावरा: ॥ १० ॥

Text 11

व्यालालयद्रुमा वै तेष्वरिक्ताखिलसम्पद: ।
यद्गृहास्तीर्थपादीयपादतीर्थविवर्जिता: ॥ ११ ॥

Text 12

स्वागतं वो द्विजश्रेष्ठा यद्‌व्रतानि मुमुक्षव: ।
चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च ॥ १२ ॥

Text 13

कच्चिन्न: कुशलं नाथा इन्द्रियार्थार्थवेदिनाम् ।
व्यसनावाप एतस्मिन्पतितानां स्वकर्मभि: ॥ १३ ॥

Text 14

भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते ।
कुशलाकुशला यत्र न सन्ति मतिवृत्तय: ॥ १४ ॥

Text 15

तदहं कृतविश्रम्भ: सुहृदो वस्तपस्विनाम् ।
सम्पृच्छे भव एतस्मिन् क्षेम: केनाञ्जसा भवेत् ॥ १५ ॥

Text 16

व्यक्तमात्मवतामात्मा भगवानात्मभावन: ।
स्वानामनुग्रहायेमां सिद्धरूपी चरत्यज: ॥ १६ ॥

Text 17

मैत्रेय उवाच
पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु ।
स्मयमान इव प्रीत्या कुमार: प्रत्युवाच ह ॥ १७ ॥

Text 18

सनत्कुमार उवाच
साधु पृष्टं महाराज सर्वभूतहितात्मना ।
भवता विदुषा चापि साधूनां मतिरीद‍ृशी ॥ १८ ॥

Text 19

सङ्गम: खलु साधूनामुभयेषां च सम्मत: ।
यत्सम्भाषणसम्प्रश्न: सर्वेषां वितनोति शम् ॥ १९ ॥

Text 20

अस्त्येव राजन् भवतो मधुद्विष:
पादारविन्दस्य गुणानुवादने ।
रतिर्दुरापा विधुनोति नैष्ठिकी
कामं कषायं मलमन्तरात्मन: ॥ २० ॥

Text 21

शास्त्रेष्वियानेव सुनिश्चितो नृणां
क्षेमस्य सध्र्‌यग्विमृशेषु हेतु: ।
असङ्ग आत्मव्यतिरिक्त आत्मनि
द‍ृढा रतिर्ब्रह्मणि निर्गुणे च या ॥ २१ ॥

Text 22

सा श्रद्धया भगवद्धर्मचर्यया
जिज्ञासयाध्यात्मिकयोगनिष्ठया ।
योगेश्वरोपासनया च नित्यं
पुण्यश्रव:कथया पुण्यया च ॥ २२ ॥

Text 23

अर्थेन्द्रियारामसगोष्ठ्यतृष्णया
तत्सम्मतानामपरिग्रहेण च ।
विविक्तरुच्या परितोष आत्मनि
विना हरेर्गुणपीयूषपानात् ॥ २३ ॥

Text 24

अहिंसया पारमहंस्यचर्यया
स्मृत्या मुकुन्दाचरिताग्र्यसीधुना ।
यमैरकामैर्नियमैश्चाप्यनिन्दया
निरीहया द्वन्द्वतितिक्षया च ॥ २४ ॥

Text 25

हरेर्मुहुस्तत्परकर्णपूर
गुणाभिधानेन विजृम्भमाणया ।
भक्त्या ह्यसङ्ग: सदसत्यनात्मनि
स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रति: ॥ २५ ॥

Text 26

यदा रतिर्ब्रह्मणि नैष्ठिकी पुमा-
नाचार्यवान् ज्ञानविरागरंहसा ।
दहत्यवीर्यं हृदयं जीवकोशं
पञ्चात्मकं योनिमिवोत्थितोऽग्नि: ॥ २६ ॥

Text 27

दग्धाशयो मुक्तसमस्ततद्गुणो
नैवात्मनो बहिरन्तर्विचष्टे ।
परात्मनोर्यद्वय‍वधानं पुरस्तात्
स्वप्ने यथा पुरुषस्तद्विनाशे ॥ २७ ॥

Text 28

आत्मानमिन्द्रियार्थं च परं यदुभयोरपि ।
सत्याशय उपाधौ वै पुमान् पश्यति नान्यदा ॥ २८ ॥

Text 29

निमित्ते सति सर्वत्र जलादावपि पूरुष: ।
आत्मनश्च परस्यापि भिदां पश्यति नान्यदा ॥ २९ ॥

Text 30

इन्द्रियैर्विषयाकृष्टैराक्षिप्तं ध्यायतां मन: ।
चेतनां हरते बुद्धे: स्तम्बस्तोयमिव ह्रदात् ॥ ३० ॥

Text 31

भ्रश्यत्यनुस्मृतिश्चित्तं ज्ञानभ्रंश: स्मृतिक्षये ।
तद्रोधं कवय: प्राहुरात्मापह्नवमात्मन: ॥ ३१ ॥

Text 32

नात: परतरो लोके पुंस: स्वार्थव्यतिक्रम: ।
यदध्यन्यस्य प्रेयस्त्वमात्मन: स्वव्यतिक्रमात् ॥ ३२ ॥

Text 33

अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् ।
भ्रंशितो ज्ञानविज्ञानाद्येनाविशति मुख्यताम् ॥ ३३ ॥

Text 34

न कुर्यात्कर्हिचित्सङ्गं तमस्तीव्रं तितीरिषु: ।
धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम् ॥ ३४ ॥

Text 35

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।
त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुत: ॥ ३५ ॥

Text 36

परेऽवरे च ये भावा गुणव्यतिकरादनु ।
न तेषां विद्यते क्षेममीशविध्वंसिताशिषाम् ॥ ३६ ॥

Text 37

तत्त्वं नरेन्द्र जगतामथ तस्थूषां च
देहेन्द्रियासुधिषणात्मभिरावृतानाम् ।
य: क्षेत्रवित्तपतया हृदि विश्वगावि:
प्रत्यक् चकास्ति भगवांस्तमवेहि सोऽस्मि ॥ ३७ ॥

Text 38

यस्मिन्निदं सदसदात्मतया विभाति
माया विवेकविधुति स्रजि वाहिबुद्धि: ।
तं नित्यमुक्तपरिशुद्धविशुद्धतत्त्वं
प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये ॥ ३८ ॥

Text 39

यत्पादपङ्कजपलाशविलासभक्त्या
कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्त: ।
तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध
स्रोतोगणास्तमरणं भज वासुदेवम् ॥ ३९ ॥

Text 40

कृच्छ्रो महानिह भवार्णवमप्लवेशां
षड्‌वर्गनक्रमसुखेन तितीर्षन्ति ।
तत्त्वं हरेर्भगवतो भजनीयमङ्‌घ्रिं
कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम् ॥ ४० ॥

Text 41

मैत्रेय उवाच
स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा ।
दर्शितात्मगति: सम्यक्प्रशस्योवाच तं नृप: ॥ ४१ ॥

Text 42

राजोवाच
कृतो मेऽनुग्रह: पूर्वं हरिणार्तानुकम्पिना ।
तमापादयितुं ब्रह्मन् भगवन् यूयमागता: ॥ ४२ ॥

Text 43

निष्पादितश्च कार्त्स्‍न्येन भगवद्‌भिर्घृणालुभि: ।
साधूच्छिष्टं हि मे सर्वमात्मना सह किं ददे ॥ ४३ ॥

Text 44

प्राणा दारा: सुता ब्रह्मन् गृहाश्च सपरिच्छदा: ।
राज्यं बलं मही कोश इति सर्वं निवेदितम् ॥ ४४ ॥

Text 45

सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च ।
सर्व लोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ ४५ ॥

Text 46

स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।
तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादय: ॥ ४६ ॥

Text 47

यैरीद‍ृशी भगवतो गतिरात्मवाद
एकान्ततो निगमिभि: प्रतिपादिता न: ।
तुष्यन्‍त्वदभ्रकरुणा: स्वकृतेन नित्यं
को नाम तत्प्रतिकरोति विनोदपात्रम् ॥ ४७ ॥

Text 48

मैत्रेय उवाच
त आत्मयोगपतय आदिराजेन पूजिता: ।
शीलं तदीयं शंसन्त: खेऽभवन्मिषतां नृणाम् ॥ ४८ ॥

Text 49

वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया ।
आप्तकाममिवात्मानं मेन आत्मन्यवस्थित: ॥ ४९ ॥

Text 50

कर्माणि च यथाकालं यथादेशं यथाबलम् ।
यथोचितं यथावित्तमकरोद्ब्रह्मसात्कृतम् ॥ ५० ॥

Text 51

फलं ब्रह्मणि संन्यस्य निर्विषङ्ग: समाहित: ।
कर्माध्यक्षं च मन्वान आत्मानं प्रकृते: परम् ॥ ५१ ॥

Text 52

गृहेषु वर्तमानोऽपि स साम्राज्यश्रियान्वित: ।
नासज्जतेन्द्रियार्थेषु निरहंमतिरर्कवत् ॥ ५२ ॥

Text 53

एवमध्यात्मयोगेन कर्माण्यनुसमाचरन् ।
पुत्रानुत्पादयामास पञ्चार्चिष्यात्मसम्मतान् ॥ ५३ ॥

Text 54

विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं
वृकम् ।
सर्वेषां लोकपालानां दधारैक: पृथुर्गुणान् ॥ ५४ ॥

Text 55

गोपीथाय जगत्सृष्टे: काले स्वे
स्वेऽच्युतात्मक: ।
मनोवाग्वृत्तिभि: सौम्यैर्गुणै: संरञ्जयन्
प्रजा: ॥ ५५ ॥

Text 56

राजेत्यधान्नामधेयं सोमराज इवापर: ।
सूर्यवद्विसृजन् गृह्णन् प्रतपंश्च भुवो वसु ॥ ५६ ॥

Text 57

दुर्धर्षस्तेजसेवाग्निर्महेन्द्र इव दुर्जय: ।
तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम् ॥ ५७ ॥

Text 58

वर्षति स्म यथाकामं पर्जन्य इव तर्पयन् ।
समुद्र इव दुर्बोध: सत्त्वेनाचलराडिव ॥ ५८ ॥

Text 59

धर्मराडिव शिक्षायामाश्चर्ये हिमवानिव ।
कुवेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा ॥ ५९ ॥

Text 60

मातरिश्वेव सर्वात्मा बलेन महसौजसा ।
अविषह्यतया देवो भगवान् भूतराडिव ॥ ६० ॥

Text 61

कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव ।
वात्सल्ये मनुवन्नृणां प्रभुत्वे भगवानज: ॥ ६१ ॥

Text 62

बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरि: ।
भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु ।
ह्रिया प्रश्रयशीलाभ्यामात्मतुल्य: परोद्यमे ॥ ६२ ॥

Text 63

कीर्त्योर्ध्वगीतया पुम्भिस्त्रैलोक्ये तत्र तत्र ह ।
प्रविष्ट: कर्णरन्ध्रेषु स्त्रीणां राम: सतामिव ॥ ६३ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here