Srimad Bhagavatam | Canto 4 | Chapter 20 | Verses

Text 1 Text 2 श्रीभगवानुवाच एष तेऽकार्षीद्भङ्गं हयमेधशतस्य ह । क्षमापयत आत्मानममुष्य क्षन्तुमर्हसि ॥ २ ॥

0
44

Lord Viṣṇu’s Appearance in the Sacrificial Arena of Mahārāja Pṛthu

Text 1

Text 2

श्रीभगवानुवाच
एष तेऽकार्षीद्भङ्गं हयमेधशतस्य ह ।
क्षमापयत आत्मानममुष्य क्षन्तुमर्हसि ॥ २ ॥

Text 3

सुधिय: साधवो लोके नरदेव नरोत्तमा: ।
नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् ॥ ३ ॥

Text 4

पुरुषा यदि मुह्यन्ति त्वाद‍ृशा देवमायया ।
श्रम एव परं जातो दीर्घया वृद्धसेवया ॥ ४ ॥

Text 5

अत: कायमिमं विद्वानविद्याकामकर्मभि: ।
आरब्ध इति नैवास्मिन्प्रतिबुद्धोऽनुषज्जते ॥ ५ ॥

Text 6

असंसक्त: शरीरेऽस्मिन्नमुनोत्पादिते गृहे ।
अपत्ये द्रविणे वापि क: कुर्यान्ममतां बुध: ॥ ६ ॥

Text 7

एक: शुद्ध: स्वयंज्योतिर्निर्गुणोऽसौ गुणाश्रय: ।
सर्वगोऽनावृत: साक्षी निरात्मात्मात्मन: पर: ॥ ७ ॥

Text 8

य एवं सन्तमात्मानमात्मस्थं वेद पूरुष: ।
नाज्यते प्रकृतिस्थोऽपि तद्गुणै: स मयि स्थित: ॥ ८ ॥

Text 9

य: स्वधर्मेण मां नित्यं निराशी: श्रद्धयान्वित: ।
भजते शनकैस्तस्य मनो राजन् प्रसीदति ॥ ९ ॥

Text 10

परित्यक्तगुण: सम्यग्दर्शनो विशदाशय: ।
शान्तिं मे समवस्थानं ब्रह्म कैवल्यमश्नुते ॥ १० ॥

Text 11

उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् ।
कूटस्थमिममात्मानं यो वेदाप्नोति शोभनम् ॥ ११ ॥

Text 12

भिन्नस्य लिङ्गस्य गुणप्रवाहो
द्रव्यक्रियाकारकचेतनात्मन: ।
द‍ृष्टासु सम्पत्सु विपत्सु सूरयो
न विक्रियन्ते मयि बद्धसौहृदा: ॥ १२ ॥

Text 13

सम: समानोत्तममध्यमाधम:
सुखे च दु:खे च जितेन्द्रियाशय: ।
मयोपक्लृप्ताखिललोकसंयुतो
विधत्स्व वीराखिललोकरक्षणम् ॥ १३ ॥

Text 14

श्रेय: प्रजापालनमेव राज्ञो
यत्साम्पराये सुकृतात् षष्ठमंशम् ।
हर्तान्यथा हृतपुण्य: प्रजाना-
मरक्षिता करहारोऽघमत्ति ॥ १४ ॥

Text 15

एवं द्विजाग्र्यानुमतानुवृत्त
धर्मप्रधानोऽन्यतमोऽवितास्या: ।
ह्रस्वेन कालेन गृहोपयातान्
द्रष्टासि सिद्धाननुरक्तलोक: ॥ १५ ॥

Text 16

वरं च मत्कञ्चन मानवेन्द्र
वृणीष्व तेऽहं गुणशीलयन्त्रित: ।
नाहं मखैर्वै सुलभस्तपोभि-
र्योगेन वा यत्समचित्तवर्ती ॥ १६ ॥

Text 17

मैत्रेय उवाच
स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित् ।
अनुशासित आदेशं शिरसा जगृहे हरे: ॥ १७ ॥

Text 18

स्पृशन्तं पादयो: प्रेम्णा व्रीडितं स्वेन कर्मणा ।
शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ १८ ॥

Text 19

भगवानथ विश्वात्मा पृथुनोपहृतार्हण: ।
समुज्जिहानया भक्त्या गृहीतचरणाम्बुज: ॥ १९ ॥

Text 20

प्रस्थानाभिमुखोऽप्येनमनुग्रहविलम्बित: ।
पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम् ॥ २० ॥

Text 21

स आदिराजो रचिताञ्जलिर्हरिं
विलोकितुं नाशकदश्रुलोचन: ।
न किञ्चनोवाच स बाष्पविक्लवो
हृदोपगुह्यामुमधादवस्थित: ॥ २१ ॥

Text 22

अथावमृज्याश्रुकला विलोकयन्-
नतृप्तद‍ृग्गोचरमाह पूरुषम् ।
पदा स्पृशन्तं क्षितिमंस उन्नते
विन्यस्तहस्ताग्रमुरङ्गविद्विष: ॥ २२ ॥

Text 23

पृथुरुवाच
वरान्विभो त्वद्वरदेश्वराद् बुध:
कथं वृणीते गुणविक्रियात्मनाम् ।
ये नारकाणामपि सन्ति देहिनां
तानीश कैवल्यपते वृणे न च ॥ २३ ॥

Text 24

न कामये नाथ तदप्यहं क्‍वचिन्
न यत्र युष्मच्चरणाम्बुजासव: ।
महत्तमान्तर्हृदयान्मुखच्युतो
विधत्स्व कर्णायुतमेष मे वर: ॥ २४ ॥

Text 25

स उत्तमश्लोक महन्मुखच्युतो
भवत्पदाम्भोजसुधा कणानिल: ।
स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां
कुयोगिनां नो वितरत्यलं वरै: ॥ २५ ॥

Text 26

यश: शिवं सुश्रव आर्यसङ्गमे
यद‍ृच्छया चोपश‍ृणोति ते सकृत् ।
कथं गुणज्ञो विरमेद्विना पशुं
श्रीर्यत्प्रवव्रे गुणसङ्ग्रहेच्छया ॥ २६ ॥

Text 27

अथाभजे त्वाखिलपूरुषोत्तमं
गुणालयं पद्मकरेव लालस: ।
अप्यावयोरेकपतिस्पृधो: कलि-
र्न स्यात्कृतत्वच्चरणैकतानयो: ॥ २७ ॥

Text 28

जगज्जनन्यां जगदीश वैशसं
स्यादेव यत्कर्मणि न: समीहितम् ।
करोषि फल्ग्वप्युरु दीनवत्सल:
स्व एव धिष्ण्येऽभिरतस्य किं तया ॥ २८ ॥

Text 29

भजन्त्यथ त्वामत एव साधवो
व्युदस्तमायागुणविभ्रमोदयम् ।
भवत्पदानुस्मरणाद‍ृते सतां
निमित्तमन्यद्भगवन्न विद्महे ॥ २९ ॥

Text 30

मन्ये गिरं ते जगतां विमोहिनीं
वरं वृणीष्वेति भजन्तमात्थ यत् ।
वाचा नु तन्त्या यदि ते जनोऽसित:
कथं पुन: कर्म करोति मोहित: ॥ ३० ॥

Text 31

त्वन्माययाद्धा जन ईश खण्डितो
यदन्यदाशास्त ऋतात्मनोऽबुध: ।
यथा चरेद् बालहितं पिता स्वयं
तथा त्वमेवार्हसि न: समीहितुम् ॥ ३१ ॥

Text 32

मैत्रेय उवाच
इत्यादिराजेन नुत: स विश्वद‍ृक्
तमाह राजन्मयि भक्तिरस्तु ते ।
दिष्ट्येद‍ृशी धीर्मयि ते कृता यया
मायां मदीयां तरति स्म दुस्त्यजाम् ॥ ३२ ॥

Text 33

तत्त्वं कुरु मयादिष्टमप्रमत्त: प्रजापते ।
मदादेशकरो लोक: सर्वत्राप्नोति शोभनम् ॥ ३३ ॥

Text 34

मैत्रेय उवाच
इति वैन्यस्य राजर्षे: प्रतिनन्द्यार्थवद्वच: ।
पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम् ॥ ३४ ॥

Texts 35-36

देवर्षिपितृगन्धर्वसिद्धचारणपन्नगा: ।
किन्नराप्सरसो मर्त्या: खगा भूतान्यनेकश: ॥ ३५ ॥
यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तित: ।
सभाजिता ययु: सर्वे वैकुण्ठानुगतास्तत: ॥ ३६ ॥

Text 37

भगवानपि राजर्षे: सोपाध्यायस्य चाच्युत: ।
हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्यत ॥ ३७ ॥

Text 38

अद‍ृष्टाय नमस्कृत्य नृप: सन्दर्शितात्मने ।
अव्यक्ताय च देवानां देवाय स्वपुरं ययौ ॥ ३८ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here