Dakṣa Curses Lord Śiva
Text 1
विदुर उवाच
भवे शीलवतां श्रेष्ठे दक्षो दुहितृवत्सल: ।
विद्वेषमकरोत्कस्मादनादृत्यात्मजां सतीम् ॥ १ ॥
Text 2
कस्तं चराचरगुरुं निर्वैरं शान्तविग्रहम् ।
आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥ २ ॥
Text 3
एतदाख्याहि मे ब्रह्मन्जामातु: श्वशुरस्य च ।
विद्वेषस्तु यत: प्राणांस्तत्यजे दुस्त्यजान्सती ॥ ३ ॥
Text 4
मैत्रेय उवाच
पुरा विश्वसृजां सत्रे समेता: परमर्षय: ।
तथामरगणा: सर्वे सानुगा मुनयोऽग्नय: ॥ ४ ॥
Text 5
तत्र प्रविष्टमृषयो दृष्ट्वार्कमिव रोचिषा ।
भ्राजमानं वितिमिरं कुर्वन्तं तन्महत्सद: ॥ ५ ॥
Text 6
उदतिष्ठन्सदस्यास्ते स्वधिष्ण्येभ्य: सहाग्नय: ।
ऋते विरिञ्चां शर्वं च तद्भासाक्षिप्तचेतस: ॥ ६ ॥
Text 7
सदसस्पतिभिर्दक्षो भगवान्साधु सत्कृत: ।
अजं लोकगुरुं नत्वा निषसाद तदाज्ञया ॥ ७ ॥
Text 8
प्राङ्निषण्णं मृडं दृष्ट्वा नामृष्यत्तदनादृत: ।
उवाच वामं चक्षुर्भ्यामभिवीक्ष्य दहन्निव ॥ ८ ॥
Text 9
श्रूयतां ब्रह्मर्षयो मे सहदेवा: सहाग्नय: ।
साधूनां ब्रुवतो वृत्तं नाज्ञानान्न च मत्सरात् ॥ ९ ॥
Text 10
अयं तु लोकपालानां यशोघ्नो निरपत्रप: ।
सद्भिराचरित: पन्था येन स्तब्धेन दूषित: ॥ १० ॥
Text 11
एष मे शिष्यतां प्राप्तो यन्मे दुहितुरग्रहीत् ।
पाणिं विप्राग्निमुखत: सावित्र्या इव साधुवत् ॥ ११ ॥
Text 12
गृहीत्वा मृगशावाक्ष्या: पाणिं मर्कटलोचन: ।
प्रत्युत्थानाभिवादार्हे वाचाप्यकृत नोचितम् ॥ १२ ॥
Text 13
लुप्तक्रियायाशुचये मानिने भिन्नसेतवे ।
अनिच्छन्नप्यदां बालां शूद्रायेवोशतीं गिरम् ॥ १३ ॥
Texts 14-15
प्रेतावासेषु घोरेषु प्रेतैर्भूतगणैर्वृत: ।
अटत्युन्मत्तवन्नग्नो व्युप्तकेशो हसन् रुदन् ॥ १४ ॥
चिताभस्मकृतस्नान: प्रेतस्रङ्न्रस्थिभूषण: ।
शिवापदेशो ह्यशिवो मत्तो मत्तजनप्रिय: ।
पति: प्रमथनाथानां तमोमात्रात्मकात्मनाम् ॥ १५ ॥
Text 16
तस्मा उन्मादनाथाय नष्टशौचाय दुर्हृदे ।
दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥ १६ ॥
Text 17
मैत्रेय उवाच
विनिन्द्यैवं स गिरिशमप्रतीपमवस्थितम् ।
दक्षोऽथाप उपस्पृश्य क्रुद्ध: शप्तुं प्रचक्रमे ॥ १७ ॥
Text 18
अयं तु देवयजन इन्द्रोपेन्द्रादिभिर्भव: ।
सह भागं न लभतां देवैर्देवगणाधम: ॥ १८ ॥
Text 19
निषिध्यमान: स सदस्यमुख्यै-
र्दक्षो गिरित्राय विसृज्य शापम् ।
तस्माद्विनिष्क्रम्य विवृद्धमन्यु-
र्जगाम कौरव्य निजं निकेतनम् ॥ १९ ॥
Text 20
विज्ञाय शापं गिरिशानुगाग्रणी-
र्नन्दीश्वरो रोषकषायदूषित: ।
दक्षाय शापं विससर्ज दारुणं
ये चान्वमोदंस्तदवाच्यतां द्विजा: ॥ २० ॥
Text 21
य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि ।
द्रुह्यत्यज्ञ: पृथग्दृष्टिस्तत्त्वतो विमुखो भवेत् ॥ २१ ॥
Text 22
गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया ।
कर्मतन्त्रं वितनुते वेदवादविपन्नधी: ॥ २२ ॥
Text 23
बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगति: पशु: ।
स्त्रीकाम: सोऽस्त्वतितरां दक्षो बस्तमुखोऽचिरात् ॥ २३ ॥
Text 24
विद्याबुद्धिरविद्यायां कर्ममय्यामसौ जड: ।
संसरन्त्विह ये चामुमनु शर्वावमानिनम् ॥ २४ ॥
Text 25
गिर: श्रुताया: पुष्पिण्या मधुगन्धेन भूरिणा ।
मथ्ना चोन्मथितात्मान: सम्मुह्यन्तु हरद्विष: ॥ २५ ॥
Text 26
सर्वभक्षा द्विजा वृत्त्यै धृतविद्यातपोव्रता: ।
वित्तदेहेन्द्रियारामा याचका विचरन्त्विह ॥ २६ ॥
Text 27
तस्यैवं वदत: शापं श्रुत्वा द्विजकुलाय वै ।
भृगु: प्रत्यसृजच्छापं ब्रह्मदण्डं दुरत्ययम् ॥ २७ ॥
Text 28
भवव्रतधरा ये च ये च तान्समनुव्रता: ।
पाषण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिन: ॥ २८ ॥
Text 29
नष्टशौचा मूढधियो जटाभस्मास्थिधारिण: ।
विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम् ॥ २९ ॥
Text 30
ब्रह्म च ब्राह्मणांश्चैव यद्यूयं परिनिन्दथ ।
सेतुं विधारणं पुंसामत: पाषण्डमाश्रिता: ॥ ३० ॥
Text 31
एष एव हि लोकानां शिव: पन्था: सनातन: ।
यं पूर्वे चानुसन्तस्थुर्यत्प्रमाणं जनार्दन: ॥ ३१ ॥
Text 32
तद्ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् ।
विगर्ह्य यात पाषण्डं दैवं वो यत्र भूतराट् ॥ ३२ ॥
Text 33
मैत्रेय उवाच
तस्यैवं वदत: शापं भृगो: स भगवान् भव: ।
निश्चक्राम तत: किञ्चिद्विमना इव सानुग: ॥ ३३ ॥
Text 34
तेऽपि विश्वसृज: सत्रं सहस्रपरिवत्सरान् ।
संविधाय महेष्वास यत्रेज्य ऋषभो हरि: ॥ ३४ ॥
Text 35
आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता ।
विरजेनात्मना सर्वे स्वं स्वं धाम ययुस्तत: ॥ ३५ ॥






