King Pṛthu’s One Hundred Horse Sacrifices
Text 1
मैत्रेय उवाच
अथादीक्षत राजा तु हयमेधशतेन स: ।
ब्रह्मावर्ते मनो: क्षेत्रे यत्र प्राची सरस्वती ॥ १ ॥
Text 2
तदभिप्रेत्य भगवान् कर्मातिशयमात्मन: ।
शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम् ॥ २ ॥
Text 3
यत्र यज्ञपति: साक्षाद्भगवान् हरिरीश्वर: ।
अन्वभूयत सर्वात्मा सर्वलोकगुरु: प्रभु: ॥ ३ ॥
Text 4
अन्वितो ब्रह्मशर्वाभ्यां लोकपालै: सहानुगै: ।
उपगीयमानो गन्धर्वैर्मुनिभिश्चाप्सरोगणै: ॥ ४ ॥
Text 5
सिद्धा विद्याधरा दैत्या दानवा गुह्यकादय: ।
सुनन्दनन्दप्रमुखा: पार्षदप्रवरा हरे: ॥ ५ ॥
Text 6
कपिलो नारदो दत्तो योगेशा: सनकादय: ।
तमन्वीयुर्भागवता ये च तत्सेवनोत्सुका: ॥ ६ ॥
Text 7
यत्र धर्मदुघा भूमि: सर्वकामदुघा सती ।
दोग्धि स्माभीप्सितानर्थान् यजमानस्य भारत ॥ ७ ॥
Text 8
ऊहु: सर्वरसान्नद्य: क्षीरदध्यन्नगोरसान् ।
तरवो भूरिवर्ष्माण: प्रासूयन्त मधुच्युत: ॥ ८ ॥
Text 9
सिन्धवो रत्ननिकरान् गिरयोऽन्नं चतुर्विधम् ।
उपायनमुपाजह्रु: सर्वे लोका: सपालका: ॥ ९ ॥
Text 10
इति चाधोक्षजेशस्य पृथोस्तु परमोदयम् ।
असूयन् भगवानिन्द्र: प्रतिघातमचीकरत् ॥ १० ॥
Text 11
चरमेणाश्वमेधेन यजमाने यजुष्पतिम् ।
वैन्ये यज्ञपशुं स्पर्धन्नपोवाह तिरोहित: ॥ ११ ॥
Text 12
तमत्रिर्भगवानैक्षत्त्वरमाणं विहायसा ।
आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रम: ॥ १२ ॥
Text 13
अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथ: ।
अन्वधावत सङ्कुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ १३ ॥
Text 14
तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् ।
जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति ॥ १४ ॥
Text 15
वधान्निवृत्तं तं भूयो हन्तवेऽत्रिरचोदयत् ।
जहि यज्ञहनं तात महेन्द्रं विबुधाधमम् ॥ १५ ॥
Text 16
एवं वैन्यसुत: प्रोक्तस्त्वरमाणं विहायसा ।
अन्वद्रवदभिक्रुद्धो रावणं गृध्रराडिव ॥ १६ ॥
Text 17
सोऽश्वं रूपं च तद्धित्वा तस्मा अन्तर्हित: स्वराट् ।
वीर: स्वपशुमादाय पितुर्यज्ञमुपेयिवान् ॥ १७ ॥
Text 18
तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षय: ।
नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो ॥ १८ ॥
Text 19
उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरि: ।
चषालयूपतश्छन्नो हिरण्यरशनं विभु: ॥ १९ ॥
Text 20
अत्रि: सन्दर्शयामास त्वरमाणं विहायसा ।
कपालखट्वाङ्गधरं वीरो नैनमबाधत ॥ २० ॥
Text 21
अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा ।
सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हित: स्वराट् ॥ २१ ॥
Text 22
वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत् ।
तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बला: ॥ २२ ॥
Text 23
यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया ।
तानि पापस्य खण्डानि लिङ्गं खण्डमिहोच्यते ॥ २३ ॥
Texts 24-25
एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया ।
तद्गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम् ॥ २४ ॥
धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु ।
प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ २५ ॥
Text 26
तदभिज्ञाय भगवान्पृथु: पृथुपराक्रम: ।
इन्द्राय कुपितो बाणमादत्तोद्यतकार्मुक: ॥ २६ ॥
Text 27
तमृत्विज: शक्रवधाभिसन्धितंविचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम् । निवारयामासुरहो महामतेन युज्यतेऽत्रान्यवध: प्रचोदितात् ॥ २७ ॥
Text 28
वयं मरुत्वन्तमिहार्थनाशनंह्वयामहे त्वच्छ्रवसा हतत्विषम् । अयातयामोपहवैरनन्तरंप्रसह्य राजन् जुहवाम तेऽहितम् ॥ २८ ॥
Text 29
इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा ।
स्रुग्घस्ताञ्जुह्वतोऽभ्येत्य स्वयम्भू: प्रत्यषेधत ॥ २९ ॥
Text 30
न वध्यो भवतामिन्द्रो यद्यज्ञो भगवत्तनु: ।
यं जिघांसथ यज्ञेन यस्येष्टास्तनव: सुरा: ॥ ३० ॥
Text 31
तदिदं पश्यत महद्धर्मव्यतिकरं द्विजा: ।
इन्द्रेणानुष्ठितं राज्ञ: कर्मैतद्विजिघांसता ॥ ३१ ॥
Text 32
पृथुकीर्ते: पृथोर्भूयात्तर्ह्येकोनशतक्रतु: । अलं ते क्रतुभि: स्विष्टैर्यद्भवान्मोक्षधर्मवित् ॥ ३२ ॥
Text 33
नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि ।
उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ ॥ ३३ ॥
Text 34
मास्मिन्महाराज कृथा: स्म चिन्तांनिशामयास्मद्वच आदृतात्मा । यद्ध्यायतो दैवहतं नु कर्तुंमनोऽतिरुष्टं विशते तमोऽन्धम् ॥ ३४ ॥
Text 35
क्रतुर्विरमतामेष देवेषु दुरवग्रह: ।
धर्मव्यतिकरो यत्र पाखण्डैरिन्द्रनिर्मितै: ॥ ३५ ॥
Text 36
एभिरिन्द्रोपसंसृष्टै: पाखण्डैर्हारिभिर्जनम् । ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगश्वमुट् ॥ ३६ ॥
Text 37
भवान् परित्रातुमिहावतीर्णो
धर्मं जनानां समयानुरूपम् ।
वेनापचारादवलुप्तमद्य
तद्देहतो विष्णुकलासि वैन्य ॥ ३७ ॥
Text 38
स त्वं विमृश्यास्य भवं प्रजापते
सङ्कल्पनं विश्वसृजां पिपीपृहि ।
ऐन्द्रीं च मायामुपधर्ममातरं
प्रचण्डपाखण्डपथं प्रभो जहि ॥ ३८ ॥
Text 39
मैत्रेय उवाच
इत्थं स लोकगुरुणा समादिष्टो विशाम्पति: ।
तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥ ३९ ॥
Text 40
कृतावभृथस्नानाय पृथवे भूरिकर्मणे । वरान्ददुस्ते वरदा ये तद्बर्हिषि तर्पिता: ॥ ४० ॥
Text 41
विप्रा: सत्याशिषस्तुष्टा: श्रद्धया लब्धदक्षिणा: ।
आशिषो युयुजु: क्षत्तरादिराजाय सत्कृता: ॥ ४१ ॥
Text 42
त्वयाहूता महाबाहो सर्व एव समागता: ।
पूजिता दानमानाभ्यां पितृदेवर्षिमानवा: ॥ ४२ ॥






