Praise of King Pṛthu by the Professional Reciters
Text 1
मैत्रेय उवाच
इति ब्रुवाणं नृपतिं गायका मुनिचोदिता: ।
तुष्टुवुस्तुष्टमनसस्तद्वागमृतसेवया ॥ १ ॥
Text 2
नालं वयं ते महिमानुवर्णने
यो देववर्योऽवततार मायया ।
वेनाङ्गजातस्य च पौरुषाणि ते
वाचस्पतीनामपि बभ्रमुर्धिय: ॥ २ ॥
Text 3
अथाप्युदारश्रवस: पृथोर्हरे:
कलावतारस्य कथामृतादृता: ।
यथोपदेशं मुनिभि: प्रचोदिता:
श्लाघ्यानि कर्माणि वयं वितन्महि ॥ ३ ॥
Text 4
एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् ।
गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम् ॥ ४ ॥
Text 5
एष वै लोकपालानां बिभर्त्येकस्तनौ तनू: ।
काले काले यथाभागं लोकयोरुभयोर्हितम् ॥ ५ ॥
Text 6
वसु काल उपादत्ते काले चायं विमुञ्चति ।
सम: सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभु: ॥ ६ ॥
Text 7
तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि ।
भूतानां करुण: शश्वदार्तानां क्षितिवृत्तिमान् ॥ ७ ॥
Text 8
देवेऽवर्षत्यसौ देवो नरदेववपुर्हरि: ।
कृच्छ्रप्राणा: प्रजा ह्येष रक्षिष्यत्यञ्जसेन्द्रवत् ॥ ८ ॥
Text 9
आप्याययत्यसौ लोकं वदनामृतमूर्तिना ।
सानुरागावलोकेन विशदस्मितचारुणा ॥ ९ ॥
Text 10
अव्यक्तवर्त्मैष निगूढकार्योगम्भीरवेधा उपगुप्तवित्त: । अनन्तमाहात्म्यगुणैकधामापृथु: प्रचेता इव संवृतात्मा ॥ १० ॥
Text 11
दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् । नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनल: ॥ ११ ॥
Text 12
अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणै: । उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम् ॥ १२ ॥
Text 13
नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि ।
दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थित: ॥ १३ ॥
Text 14
अस्याप्रतिहतं चक्रं पृथोरामानसाचलात् । वर्तते भगवानर्को यावत्तपति गोगणै: ॥ १४ ॥
Text 15
रञ्जयिष्यति यल्लोकमयमात्मविचेष्टितै: । अथामुमाहू राजानं मनोरञ्जनकै: प्रजा: ॥ १५ ॥
Text 16
दृढव्रत: सत्यसन्धो ब्रह्मण्यो वृद्धसेवक: । शरण्य: सर्वभूतानां मानदो दीनवत्सल: ॥ १६ ॥
Text 17
मातृभक्ति: परस्त्रीषु पत्न्यामर्ध इवात्मन: । प्रजासु पितृवत्स्निग्ध: किङ्करो ब्रह्मवादिनाम् ॥ १७ ॥
Text 18
देहिनामात्मवत्प्रेष्ठ: सुहृदां नन्दिवर्धन: । मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणिरसाधुषु ॥ १८ ॥
Text 19
अयं तु साक्षाद्भगवांस्त्र्यधीश:कूटस्थ आत्मा कलयावतीर्ण: । यस्मिन्नविद्यारचितं निरर्थकंपश्यन्ति नानात्वमपि प्रतीतम् ॥ १९ ॥
Text 20
अयं भुवो मण्डलमोदयाद्रे-र्गोप्तैकवीरो नरदेवनाथ: । आस्थाय जैत्रं रथमात्तचाप:पर्यस्यते दक्षिणतो यथार्क: ॥ २० ॥
Text 21
अस्मै नृपाला: किल तत्र तत्रबलिं हरिष्यन्ति सलोकपाला: । मंस्यन्त एषां स्त्रिय आदिराजंचक्रायुधं तद्यश उद्धरन्त्य: ॥ २१ ॥
Text 22
अयं महीं गां दुदुहेऽधिराज:प्रजापतिर्वृत्तिकर: प्रजानाम् । यो लीलयाद्रीन् स्वशरासकोट्याभिन्दन् समां गामकरोद्यथेन्द्र: ॥ २२ ॥
Text 23
विस्फूर्जयन्नाजगवं धनु: स्वयंयदाचरत्क्ष्मामविषह्यमाजौ । तदा निलिल्युर्दिशि दिश्यसन्तोलाङ्गूलमुद्यम्य यथा मृगेन्द्र: ॥ २३ ॥
Text 24
एषोऽश्वमेधाञ् शतमाजहारसरस्वती प्रादुरभावि यत्र । अहार्षीद्यस्य हयं पुरन्दर:शतक्रतुश्चरमे वर्तमाने ॥ २४ ॥
Text 25
एष स्वसद्मोपवने समेत्यसनत्कुमारं भगवन्तमेकम् । आराध्य भक्त्यालभतामलं तज्ज्ञानं यतो ब्रह्म परं विदन्ति ॥ २५ ॥
Text 26
तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रम: । श्रोष्यत्यात्माश्रिता गाथा: पृथु: पृथुपराक्रम: ॥ २६ ॥
Text 27
दिशो विजित्याप्रतिरुद्धचक्र:स्वतेजसोत्पाटितलोकशल्य: । सुरासुरेन्द्रैरुपगीयमानमहानुभावो भविता पतिर्भुव: ॥ २७ ॥






