The Story of King Vena
Text 1
मैत्रेय उवाच
भृग्वादयस्ते मुनयो लोकानां क्षेमदर्शिन: ।
गोप्तर्यसति वै नृणां पश्यन्त: पशुसाम्यताम् ॥ १ ॥
Text 2
वीरमातरमाहूय सुनीथां ब्रह्मवादिन: ।
प्रकृत्यसम्मतं वेनमभ्यषिञ्चन् पतिं भुव: ॥ २ ॥
Text 3
श्रुत्वा नृपासनगतं वेनमत्युग्रशासनम् ।
निलिल्युर्दस्यव: सद्य: सर्पत्रस्ता इवाखव: ॥ ३ ॥
Text 4
स आरूढनृपस्थान उन्नद्धोऽष्टविभूतिभि: ।
अवमेने महाभागान् स्तब्ध: सम्भावित: स्वत: ॥ ४ ॥
Text 5
एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विप: ।
पर्यटन् रथमास्थाय कम्पयन्निव रोदसी ॥ ५ ॥
Text 6
न यष्टव्यं न दातव्यं न होतव्यं द्विजा: क्वचित् ।
इति न्यवारयद्धर्मं भेरीघोषेण सर्वश: ॥ ६ ॥
Text 7
वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् ।
विमृश्य लोकव्यसनं कृपयोचु: स्म सत्रिण: ॥ ७ ॥
Text 8
अहो उभयत: प्राप्तं लोकस्य व्यसनं महत् ।
दारुण्युभयतो दीप्ते इव तस्करपालयो: ॥ ८ ॥
Text 9
अराजकभयादेष कृतो राजातदर्हण: ।
ततोऽप्यासीद्भयं त्वद्य कथं स्यात्स्वस्ति देहिनाम् ॥ ९ ॥
Text 10
अहेरिव पय:पोष: पोषकस्याप्यनर्थभृत् ।
वेन: प्रकृत्यैव खल: सुनीथागर्भसम्भव: ॥ १० ॥
Text 11
निरूपित: प्रजापाल: स जिघांसति वै प्रजा: ।
तथापि सान्त्वयेमामुं नास्मांस्तत्पातकं स्पृशेत् ॥ ११ ॥
Text 12
तद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभि: कृतो नृप: ।
सान्त्वितो यदि नो वाचं न ग्रहीष्यत्यधर्मकृत् ।
लोकधिक्कारसन्दग्धं दहिष्याम: स्वतेजसा ॥ १२ ॥
Text 13
एवमध्यवसायैनं मुनयो गूढमन्यव: ।
उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभि: ॥ १३ ॥
Text 14
मुनय ऊचु:
नृपवर्य निबोधैतद्यत्ते विज्ञापयाम भो: ।
आयु:श्रीबलकीर्तीनां तव तात विवर्धनम् ॥ १४ ॥
Text 15
धर्म आचरित: पुंसां वाङ्मन:कायबुद्धिभि: ।
लोकान् विशोकान् वतरत्यथानन्त्यमसङ्गिनाम् ॥ १५ ॥
Text 16
स ते मा विनशेद्वीर प्रजानां क्षेमलक्षण: ।
यस्मिन् विनष्टे नृपतिरैश्वर्यादवरोहति ॥ १६ ॥
Text 17
राजन्नसाध्वमात्येभ्यश्चोरादिभ्य: प्रजा नृप: ।
रक्षन्यथा बलिं गृह्णन्निह प्रेत्य च मोदते ॥ १७ ॥
Text 18
यस्य राष्ट्रे पुरे चैव भगवान् यज्ञपूरुष: ।
इज्यते स्वेन धर्मेण जनैर्वर्णाश्रमान्वितै: ॥ १८ ॥
Text 19
तस्य राज्ञो महाभाग भगवान् भूतभावन: ।
परितुष्यति विश्वात्मा तिष्ठतो निजशासने ॥ १९ ॥
Text 20
तस्मिंस्तुष्टे किमप्राप्यं जगतामीश्वरेश्वरे ।
लोका: सपाला ह्येतस्मै हरन्ति बलिमादृता: ॥ २० ॥
Text 21
तं सर्वलोकामरयज्ञसङ्ग्रहं
त्रयीमयं द्रव्यमयं तपोमयम् ।
यज्ञैर्विचित्रैर्यजतो भवाय ते
राजन् स्वदेशाननुरोद्धुमर्हसि ॥ २१ ॥
Text 22
यज्ञेन युष्मद्विषये द्विजातिभि-
र्वितायमानेन सुरा: कला हरे: ।
स्विष्टा: सुतुष्टा: प्रदिशन्ति वाञ्छितं
तद्धेलनं नार्हसि वीर चेष्टितुम् ॥ २२ ॥
Text 23
वेन उवाच
बालिशा बत यूयं वा अधर्मे धर्ममानिन: ।
ये वृत्तिदं पतिं हित्वा जारं पतिमुपासते ॥ २३ ॥
Text 24
अवजानन्त्यमी मूढा नृपरूपिणमीश्वरम् ।
नानुविन्दन्ति ते भद्रमिह लोके परत्र च ॥ २४ ॥
Text 25
को यज्ञपुरुषो नाम यत्र वो भक्तिरीदृशी ।
भर्तृस्नेहविदूराणां यथा जारे कुयोषिताम् ॥ २५ ॥
Texts 26-27
विष्णुर्विरिञ्चो गिरिश इन्द्रो वायुर्यमो रवि: ।
पर्जन्यो धनद: सोम: क्षितिरग्निरपाम्पति: ॥ २६ ॥
एते चान्ये च विबुधा: प्रभवो वरशापयो: ।
देहे भवन्ति नृपते: सर्वदेवमयो नृप: ॥ २७ ॥
Text 28
तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सरा: ।
बलिं च मह्यं हरत मत्तोऽन्य: कोऽग्रभुक्पुमान् ॥ २८ ॥
Text 29
मैत्रेय उवाच
इत्थं विपर्ययमति: पापीयानुत्पथं गत: ।
अनुनीयमानस्तद्याच्ञां न चक्रे भ्रष्टमङ्गल: ॥ २९ ॥
Text 30
इति तेऽसत्कृतास्तेन द्विजा: पण्डितमानिना ।
भग्नायां भव्ययाच्ञायां तस्मै विदुर चुक्रुधु: ॥ ३० ॥
Text 31
हन्यतां हन्यतामेष पाप: प्रकृतिदारुण: ।
जीवञ्जगदसावाशु कुरुते भस्मसाद् ध्रुवम् ॥ ३१ ॥
Text 32
नायमर्हत्यसद्वृत्तो नरदेववरासनम् ।
योऽधियज्ञपतिं विष्णुं विनिन्दत्यनपत्रप: ॥ ३२ ॥
Text 33
को वैनं परिचक्षीत वेनमेकमृतेऽशुभम् ।
प्राप्त ईदृशमैश्वर्यं यदनुग्रहभाजन: ॥ ३३ ॥
Text 34
इत्थं व्यवसिता हन्तुमृषयो रूढमन्यव: ।
निजघ्नुर्हुङ्कृतैर्वेनं हतमच्युतनिन्दया ॥ ३४ ॥
Text 35
ऋषिभि: स्वाश्रमपदं गते पुत्रकलेवरम् ।
सुनीथा पालयामास विद्यायोगेन शोचती ॥ ३५ ॥
Text 36
एकदा मुनयस्ते तु सरस्वत्सलिलाप्लुता: ।
हुत्वाग्नीन् सत्कथाश्चक्रुरुपविष्टा: सरित्तटे ॥ ३६ ॥
Text 37
वीक्ष्योत्थितांस्तदोत्पातानाहुर्लोकभयङ्करान् ।
अप्यभद्रमनाथाया दस्युभ्यो न भवेद्भुव: ॥ ३७ ॥
Text 38
एवं मृशन्त ऋषयो धावतां सर्वतोदिशम् ।
पांसु: समुत्थितो भूरिश्चोराणामभिलुम्पताम् ॥ ३८ ॥
Texts 39-40
तदुपद्रवमाज्ञाय लोकस्य वसु लुम्पताम् ।
भर्तर्युपरते तस्मिन्नन्योन्यं च जिघांसताम् ॥ ३९ ॥
चोरप्रायं जनपदं हीनसत्त्वमराजकम् ।
लोकान्नावारयञ्छक्ता अपि तद्दोषदर्शिन: ॥ ४० ॥
Text 41
ब्राह्मण: समदृक् शान्तो दीनानां समुपेक्षक: ।
स्रवते ब्रह्म तस्यापि भिन्नभाण्डात्पयो यथा ॥ ४१ ॥
Text 42
नाङ्गस्य वंशो राजर्षेरेष संस्थातुमर्हति ।
अमोघवीर्या हि नृपा वंशेऽस्मिन् केशवाश्रया: ॥ ४२ ॥
Text 43
विनिश्चित्यैवमृषयो विपन्नस्य महीपते: ।
ममन्थुरूरुं तरसा तत्रासीद्बाहुको नर: ॥ ४३ ॥
Text 44
काककृष्णोऽतिह्रस्वाङ्गो ह्रस्वबाहुर्महाहनु: ।
ह्रस्वपान्निम्ननासाग्रो रक्ताक्षस्ताम्रमूर्धज: ॥ ४४ ॥
Text 45
तं तु तेऽवनतं दीनं किं करोमीति वादिनम् ।
निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४५ ॥
Text 46
तस्य वंश्यास्तु नैषादा गिरिकाननगोचरा: ।
येनाहरज्जायमानो वेनकल्मषमुल्बणम् ॥ ४६ ॥






