Dhruva Mahārāja’s Fight with the Yakṣas
Text 1
मैत्रेय उवाच
प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुव: । उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ ॥ १ ॥
Text 2
इलायामपि भार्यायां वायो: पुत्र्यां महाबल: । पुत्रमुत्कलनामानं योषिद्रत्नमजीजनत् ॥ २ ॥
Text 3
उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा । हत: पुण्यजनेनाद्रौ तन्मातास्य गतिं गता ॥ ३ ॥
Text 4
ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पित: । जैत्रं स्यन्दनमास्थाय गत: पुण्यजनालयम् ॥ ४ ॥
Text 5
गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम् । ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसङ्कुलाम् ॥ ५ ॥
Text 6
दध्मौ शङ्खं बृहद्बाहु: खं दिशश्चानुनादयन् । येनोद्विग्नदृश: क्षत्तरुपदेव्योऽत्रसन्भृशम् ॥ ६ ॥
Text 7
ततो निष्क्रम्य बलिन उपदेवमहाभटा: । असहन्तस्तन्निनादमभिपेतुरुदायुधा: ॥ ७ ॥
Text 8
स तानापततो वीर उग्रधन्वा महारथ: । एकैकं युगपत्सर्वानहन् बाणैस्त्रिभिस्त्रिभि: ॥ ८ ॥
Text 9
ते वै ललाटलग्नैस्तैरिषुभि: सर्व एव हि । मत्वा निरस्तमात्मानमाशंसन् कर्म तस्य तत् ॥ ९ ॥
Text 10
तेऽपि चामुममृष्यन्त: पादस्पर्शमिवोरगा: । शरैरविध्यन् युगपद् द्विगुणं प्रचिकीर्षव: ॥ १० ॥
Texts 11-12
तत: परिघनिस्त्रिंशै: प्रासशूलपरश्वधै: । शक्त्यृष्टिभिर्भुशुण्डीभिश्चित्रवाजै: शरैरपि ॥ ११ ॥ अभ्यवर्षन् प्रकुपिता: सरथं सहसारथिम् । इच्छन्तस्तत्प्रतीकर्तुमयुतानां त्रयोदश ॥ १२ ॥
Text 13
औत्तानपादि: स तदा शस्त्रवर्षेण भूरिणा ।
न एवादृश्यताच्छन्न आसारेण यथा गिरि: ॥ १३ ॥
Text 14
हाहाकारस्तदैवासीत्सिद्धानां दिवि पश्यताम् ।
हतोऽयं मानव: सूर्यो मग्न: पुण्यजनार्णवे ॥ १४ ॥
Text 15
नदत्सु यातुधानेषु जयकाशिष्वथो मृधे ।
उदतिष्ठद्रथस्तस्य नीहारादिव भास्कर: ॥ १५ ॥
Text 16
धनुर्विस्फूर्जयन्दिव्यं द्विषतां खेदमुद्वहन् ।
अस्त्रौघं व्यधमद्बाणैर्घनानीकमिवानिल: ॥ १६ ॥
Text 17
तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम् ।
कायानाविविशुस्तिग्मा गिरीनशनयो यथा ॥ १७ ॥
Texts 18-19
भल्लै: सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलै: ।
ऊरुभिर्हेमतालाभैर्दोर्भिर्वलयवल्गुभि: ॥ १८ ॥
हारकेयूरमुकुटैरुष्णीषैश्च महाधनै: ।
आस्तृतास्ता रणभुवो रेजुर्वीरमनोहरा: ॥ १९ ॥
Text 20
हतावशिष्टा इतरे रणाजिराद्
रक्षोगणा: क्षत्रियवर्यसायकै: ।
प्रायो विवृक्णावयवा विदुद्रुवु-
र्मृगेन्द्रविक्रीडितयूथपा इव ॥ २० ॥
Text 21
अपश्यमान: स तदाततायिनं
महामृधे कञ्चन मानवोत्तम: ।
पुरीं दिदृक्षन्नपि नाविशद्द्विषां
न मायिनां वेद चिकीर्षितं जन: ॥ २१ ॥
Text 22
इति ब्रुवंश्चित्ररथ: स्वसारथिं
यत्त: परेषां प्रतियोगशङ्कित: ।
शुश्राव शब्दं जलधेरिवेरितं
नभस्वतो दिक्षु रजोऽन्वदृश्यत ॥ २२ ॥
Text 23
क्षणेनाच्छादितं व्योम घनानीकेन सर्वत: ।
विस्फुरत्तडिता दिक्षु त्रासयत्स्तनयित्नुना ॥ २३ ॥
Text 24
ववृषू रुधिरौघासृक्पूयविण्मूत्रमेदस: ।
निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ ॥ २४ ॥
Text 25
तत: खेऽदृश्यत गिरिर्निपेतु: सर्वतोदिशम् ।
गदापरिघनिस्त्रिंशमुसला: साश्मवर्षिण: ॥ २५ ॥
Text 26
अहयोऽशनिनि:श्वासा वमन्तोऽग्निं रुषाक्षिभि: ।
अभ्यधावन् गजा मत्ता: सिंहव्याघ्राश्च यूथश: ॥ २६ ॥
Text 27
समुद्र ऊर्मिभिर्भीम: प्लावयन् सर्वतो भुवम् ।
आससाद महाह्राद: कल्पान्त इव भीषण: ॥ २७ ॥
Text 28
एवंविधान्यनेकानि त्रासनान्यमनस्विनाम् ।
ससृजुस्तिग्मगतय आसुर्या माययासुरा: ॥ २८ ॥
Text 29
ध्रुवे प्रयुक्तामसुरैस्तां मायामतिदुस्तराम् ।
निशम्य तस्य मुनय: शमाशंसन् समागता: ॥ २९ ॥
Text 30
मुनय ऊचु:
औत्तानपाद भगवांस्तव शार्ङ्गधन्वा
देव: क्षिणोत्ववनतार्तिहरो विपक्षान् ।
यन्नामधेयमभिधाय निशम्य चाद्धा
लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम् ॥ ३० ॥






