Srimad Bhagavatam | Canto 3 | Chapter 7 | Verses

Text 1 श्रीशुक उवाच एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुध: । प्रीणयन्निव भारत्या विदुर: प्रत्यभाषत ॥ १ ॥

0
61

Further Inquires by Vidura

Text 1

श्रीशुक उवाच
एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुध: ।
प्रीणयन्निव भारत्या विदुर: प्रत्यभाषत ॥ १ ॥

Text 2

विदुर उवाच
ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिण: ।
लीलया चापि युज्येरन्निर्गुणस्य गुणा: क्रिया: ॥ २ ॥

Text 3

क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिषान्यत: ।
स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यत: ॥ ३ ॥

Text 4

अस्राक्षीद्भगवान् विश्वं गुणमय्यात्ममायया ।
तया संस्थापयत्येतद्भूय: प्रत्यपिधास्यति ॥ ४ ॥

Text 5

देशत: कालतो योऽसाववस्थात: स्वतोऽन्यत: ।
अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५ ॥

Text 6

भगवानेक एवैष सर्वक्षेत्रेष्ववस्थित: ।
अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभि: कुत: ॥ ६ ॥

Text 7

एतस्मिन्मे मनो विद्वन् खिद्यतेऽज्ञानसङ्कटे ।
तन्न: पराणुद विभो कश्मलं मानसं महत् ॥ ७ ॥

Text 8

श्रीशुक उवाच
स इत्थं चोदित: क्षत्‍त्रा तत्त्वजिज्ञासुना मुनि: ।
प्रत्याह भगवच्चित्त: स्मयन्निव गतस्मय: ॥ ८ ॥

Text 9

मैत्रेय उवाच
सेयं भगवतो माया यन्नयेन विरुध्यते ।
ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ ९ ॥

Text 10

यदर्थेन विनामुष्य पुंस आत्मविपर्यय: ।
प्रतीयत उपद्रष्टु: स्वशिरश्छेदनादिक: ॥ १० ॥

Text 11

यथा जले चन्द्रमस: कम्पादिस्तत्कृतो गुण: ।
द‍ृश्यतेऽसन्नपि द्रष्टुरात्मनोऽनात्मनो गुण: ॥ ११ ॥

Text 12

स वै निवृत्तिधर्मेण वासुदेवानुकम्पया ।
भगवद्भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२ ॥

Text 13

यदेन्द्रियोपरामोऽथ द्रष्ट्रात्मनि परे हरौ ।
विलीयन्ते तदा क्लेशा: संसुप्तस्येव कृत्‍स्‍नश: ॥ १३ ॥

Text 14

अशेषसंक्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारे: ।
किं वा पुनस्तच्चरणारविन्दपरागसेवारतिरात्मलब्धा ॥ १४ ॥

Text 15

विदुर उवाच
संछिन्न: संशयो मह्यं तव सूक्तासिना विभो ।
उभयत्रापि भगवन्मनो मे सम्प्रधावति ॥ १५ ॥

Text 16

साध्वेतद् व्याहृतं विद्वन्नात्ममायायनं हरे: ।
आभात्यपार्थं निर्मूलं विश्वमूलं न यद्बहि: ॥ १६ ॥

Text 17

यश्च मूढतमो लोके यश्च बुद्धे: परं गत: ।
तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जन: ॥ १७ ॥

Text 18

अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मन: ।
तां चापि युष्मच्चरणसेवयाहं पराणुदे ॥ १८ ॥

Text 19

यत्सेवया भगवत: कूटस्थस्य मधुद्विष: ।
रतिरासो भवेत्तीव्र: पादयोर्व्यसनार्दन: ॥ १९ ॥

Text 20

दुरापा ह्यल्पतपस: सेवा वैकुण्ठवर्त्मसु ।
यत्रोपगीयते नित्यं देवदेवो जनार्दन: ॥ २० ॥

Text 21

सृष्ट्वाग्रे महदादीनि सविकाराण्यनुक्रमात् ।
तेभ्यो विराजमुद्‍धृत्य तमनु प्राविशद्विभु: ॥ २१ ॥

Text 22

यमाहुराद्यं पुरुषं सहस्राङ्‌घ्र्‌यूरुबाहुकम् ।
यत्र विश्व इमे लोका: सविकाशं त आसते ॥ २२ ॥

Text 23

यस्मिन् दशविध: प्राण: सेन्द्रियार्थेन्द्रियस्त्रिवृत् ।
त्वयेरितो यतो वर्णास्तद्विभूतीर्वदस्व न: ॥ २३ ॥

Text 24

यत्र पुत्रैश्च पौत्रैश्च नप्तृभि: सह गोत्रजै: ।
प्रजा विचित्राकृतय आसन् याभिरिदं ततम् ॥ २४ ॥

Text 25

प्रजापतीनां स पतिश्चक्लृपे कान् प्रजापतीन् ।
सर्गांश्चैवानुसर्गांश्च मनून्मन्वन्तराधिपान् ॥ २५ ॥

Text 26

उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते ।
तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय ॥ २६ ॥

Text 27

तिर्यङ्‌मानुषदेवानां सरीसृपपतत्‍त्रिणाम् ।
वद न: सर्गसंव्यूहं गार्भस्वेदद्विजोद्‍‌भिदाम् ॥ २७ ॥

Text 28

गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयम् ।
सृजत: श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम् ॥ २८ ॥

Text 29

वर्णाश्रमविभागांश्च रूपशीलस्वभावत: ।
ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम् ॥ २९ ॥

Text 30

यज्ञस्य च वितानानि योगस्य च पथ: प्रभो ।
नैष्कर्म्यस्य च सांख्यस्य तन्त्रं वा भगवत्स्मृतम् ॥ ३० ॥

Text 31

पाषण्डपथवैषम्यं प्रतिलोमनिवेशनम् ।
जीवस्य गतयो याश्च यावतीर्गुणकर्मजा: ॥ ३१ ॥

Text 32

धर्मार्थकाममोक्षाणां निमित्तान्यविरोधत: ।
वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक् ॥ ३२ ॥

Text 33

श्राद्धस्य च विधिं ब्रह्मन् पितृणां सर्गमेव च ।
ग्रहनक्षत्रताराणां कालावयवसंस्थितिम् ॥ ३३ ॥

Text 34

दानस्य तपसो वापि यच्चेष्टापूर्तयो: फलम् ।
प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि ॥ ३४ ॥

Text 35

येन वा भगवांस्तुष्येद्धर्मयोनिर्जनार्दन: ।
सम्प्रसीदति वा येषामेतदाख्याहि मेऽनघ ॥ ३५ ॥

Text 36

अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम ।
अनापृष्टमपि ब्रूयुर्गुरवो दीनवत्सला: ॥ ३६ ॥

Text 37

तत्त्वानां भगवंस्तेषां कतिधा प्रतिसंक्रम: ।
तत्रेमं क उपासीरन् क उ स्विदनुशेरते ॥ ३७ ॥

Text 38

पुरुषस्य च संस्थानं स्वरूपं वा परस्य च ।
ज्ञानं च नैगमं यत्तद्गुरुशिष्यप्रयोजनम् ॥ ३८ ॥

Text 39

निमित्तानि च तस्येह प्रोक्तान्यनघसूरिभि: ।
स्वतो ज्ञानं कुत: पुंसां भक्तिर्वैराग्यमेव वा ॥ ३९ ॥

Text 40

एतान्मे पृच्छत: प्रश्नान् हरे: कर्मविवित्सया ।
ब्रूहि मेऽज्ञस्य मित्रत्वादजया नष्टचक्षुष: ॥ ४० ॥

Text 41

सर्वे वेदाश्च यज्ञाश्च तपो दानानि चानघ ।
जीवाभयप्रदानस्य न कुर्वीरन् कलामपि ॥ ४१ ॥

Text 42

श्रीशुक उवाच
स इत्थमापृष्टपुराणकल्प: कुरुप्रधानेन मुनिप्रधान: ।
प्रवृद्धहर्षो भगवत्कथायां सञ्चोदितस्तं प्रहसन्निवाह ॥ ४२ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here