Vidura Approaches Maitreya
Text 1
उद्धव उवाच
अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् ।
तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृश: ॥ १ ॥
Text 2
तेषां मैरेयदोषेण विषमीकृतचेतसाम् ।
निम्लोचति रवावासीद्वेणूनामिव मर्दनम् ॥ २ ॥
Text 3
भगवान् स्वात्ममायाया गतिं तामवलोक्य स: ।
सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३ ॥
Text 4
अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह ।
बदरीं त्वं प्रयाहीति स्वकुलं संजिहीर्षुणा ॥ ४ ॥
Text 5
तथापि तदभिप्रेतं जानन्नहमरिन्दम ।
पृष्ठतोऽन्वगमं भर्तु: पादविश्लेषणाक्षम: ॥ ५ ॥
Text 6
अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम् ।
श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् ॥ ६ ॥
Text 7
श्यामावदातं विरजं प्रशान्तारुणलोचनम् ।
दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च ॥ ७ ॥
Text 8
वाम ऊरावधिश्रित्य दक्षिणाङ्घ्रि सरोरुहम् ।
अपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम् ॥ ८ ॥
Text 9
तस्मिन्महाभागवतो द्वैपायनसुहृत्सखा ।
लोकाननुचरन् सिद्ध आससाद यदृच्छया ॥ ९ ॥
Text 10
तस्यानुरक्तस्य मुनेर्मुकुन्द:
प्रमोदभावानतकन्धरस्य ।
आशृण्वतो मामनुरागहास-
समीक्षया विश्रमयन्नुवाच ॥ १० ॥
Text 11
श्री भगवानुवाच
वेदाहमन्तर्मनसीप्सितं ते
ददामि यत्तद् दुरवापमन्यै: ।
सत्रे पुरा विश्वसृजां वसूनां
मत्सिद्धिकामेन वसो त्वयेष्ट: ॥ ११ ॥
Text 12
स एष साधो चरमो भवाना-
मासादितस्ते मदनुग्रहो यत् ।
यन्मां नृलोकान् रह उत्सृजन्तं
दिष्टया ददृश्वान् विशदानुवृत्त्या ॥ १२ ॥
Text 13
पुरा मया प्रोक्तमजाय नाभ्ये
पद्मे निषण्णाय ममादिसर्गे ।
ज्ञानं परं मन्महिमावभासं
यत्सूरयो भागवतं वदन्ति ॥ १३ ॥
Text 14
इत्यादृतोक्त: परमस्य पुंस:
प्रतिक्षणानुग्रहभाजनोऽहम् ।
स्नेहोत्थरोमा स्खलिताक्षरस्तं
मुञ्चञ्छुच: प्राञ्जलिराबभाषे ॥ १४ ॥
Text 15
को न्वीश ते पादसरोजभाजां
सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।
तथापि नाहं प्रवृणोमि भूमन्
भवत्पदाम्भोजनिषेवणोत्सुक: ॥ १५ ॥
Text 16
कर्माण्यनीहस्य भवोऽभवस्य ते
दुर्गाश्रयोऽथारिभयात्पलायनम् ।
कालात्मनो यत्प्रमदायुताश्रम:
स्वात्मन्रते: खिद्यति धीर्विदामिह ॥ १६ ॥
Text 17
मन्त्रेषु मां वा उपहूय यत्त्व-
मकुण्ठिताखण्डसदात्मबोध: ।
पृच्छे: प्रभो मुग्ध इवाप्रमत्त-
स्तन्नो मनो मोहयतीव देव ॥ १७ ॥
Text 18
ज्ञानं परं स्वात्मरह:प्रकाशं
प्रोवाच कस्मै भगवान् समग्रम् ।
अपि क्षमं नो ग्रहणाय भर्त-
र्वदाञ्जसा यद् वृजिनं तरेम ॥ १८ ॥
Text 19
इत्यावेदितहार्दाय मह्यं स भगवान् पर: ।
आदिदेशारविन्दाक्ष आत्मन: परमां स्थितिम् ॥ १९ ॥
Text 20
स एवमाराधितपादतीर्था-
दधीततत्त्वात्मविबोधमार्ग:
प्रणम्य पादौ परिवृत्य देव-
मिहागतोऽहं विरहातुरात्मा ॥ २० ॥
Text 21
सोऽहं तद्दर्शनाह्लादवियोगार्तियुत: प्रभो ।
गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् ॥ २१ ॥
Text 22
यत्र नारायणो देवो नरश्च भगवानृषि: ।
मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥ २२ ॥
Text 23
श्री शुक उवाच
इत्युद्धवादुपाकर्ण्य सुहृदां दु:सहं वधम् ।
ज्ञानेनाशमयत्क्षत्ता शोकमुत्पतितं बुध: ॥ २३ ॥
Text 24
स तं महाभागवतं व्रजन्तं कौरवर्षभ: ।
विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥ २४ ॥
Text 25
विदुर उवाच
ज्ञानं परं स्वात्मरह:प्रकाशं
यदाह योगेश्वर ईश्वरस्ते ।
वक्तुं भवान्नोऽर्हति यद्धि विष्णो-
र्भृत्या: स्वभृत्यार्थकृतश्चरन्ति ॥ २५ ॥
Text 26
उद्धव उवाच
ननु ते तत्त्वसंराध्य ऋषि: कौषारवोऽन्तिके ।
साक्षाद्भगवतादिष्टो मर्त्यलोकं जिहासता ॥ २६ ॥
Text 27
श्री शुक उवाच
इति सह विदुरेण विश्वमूर्ते-
र्गुणकथया सुधयाप्लावितोरुताप: ।
क्षणमिव पुलिने यमस्वसुस्तां
समुषित औपगविर्निशां ततोऽगात् ॥ २७ ॥
Text 28
राजोवाच
निधनमुपगतेषु वृष्णिभोजे-
ष्वधिरथयूथपयूथपेषु मुख्य: ।
स तु कथमवशिष्ट उद्धवो यद्धरि-
रपि तत्यज आकृतिं त्र्यधीश: ॥ २८ ॥
Text 29
श्री शुक उवाच
ब्रह्मशापापदेशेन कालेनामोघवाञ्छित: ।
संहृत्य स्वकुलं स्फीतं त्यक्ष्यन्देहमचिन्तयत् ॥ २९ ॥
Text 30
अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम् ।
अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वर: ॥ ३० ॥
Text 31
नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्नार्दित: प्रभु: ।
अतो मद्वयुनं लोकं ग्राहयन्निह तिष्ठतु ॥ ३१ ॥
Text 32
एवं त्रिलोकगुरुणा सन्दिष्ट: शब्दयोनिना ।
बदर्याश्रममासाद्य हरिमीजे समाधिना ॥ ३२ ॥
Text 33
विदुरोऽप्युद्धवाच्छ्रुत्वा कृष्णस्य परमात्मन: ।
क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ॥ ३३ ॥
Text 34
देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् ।
अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ ३४ ॥
Text 35
आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम् ।
ध्यायन् गते भागवते रुरोद प्रेमविह्वल: ॥ ३५ ॥
Text 36
कालिन्द्या: कतिभि: सिद्ध अहोभिर्भरतर्षभ ।
प्रापद्यत स्व:सरितं यत्र मित्रासुतो मुनि: ॥ ३६ ॥






