Lord Kapila’s Instructions on the Movements of the Living Entities
Text 1
श्रीभगवानुवाच
कर्मणा दैवनेत्रेण जन्तुर्देहोपपत्तये ।
स्त्रिया: प्रविष्ट उदरं पुंसो रेत:कणाश्रय: ॥ १ ॥
Text 2
कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् ।
दशाहेन तु कर्कन्धू: पेश्यण्डं वा तत: परम् ॥ २ ॥
Text 3
मासेन तु शिरो द्वाभ्यां बाह्वङ्घ्र्याद्यङ्गविग्रह: ।
नखलोमास्थिचर्माणि लिङ्गच्छिद्रोद्भवस्त्रिभि: ॥ ३ ॥
Text 4
चतुर्भिर्धातव: सप्त पञ्चभि: क्षुत्तृडुद्भव: ।
षड्भिर्जरायुणा वीत: कुक्षौ भ्राम्यति दक्षिणे ॥ ४ ॥
Text 5
मातुर्जग्धान्नपानाद्यैरेधद्धातुरसम्मते ।
शेते विण्मूत्रयोर्गर्ते स जन्तुर्जन्तुसम्भवे ॥ ५ ॥
Text 6
कृमिभि: क्षतसर्वाङ्ग: सौकुमार्यात्प्रतिक्षणम् ।
मूर्च्छामाप्नोत्युरुक्लेशस्तत्रत्यै: क्षुधितैर्मुहु: ॥ ६ ॥
Text 7
कटुतीक्ष्णोष्णलवणरूक्षाम्लादिभिरुल्बणै: ।
मातृभुक्तैरुपस्पृष्ट: सर्वाङ्गोत्थितवेदन: ॥ ७ ॥
Text 8
उल्बेन संवृतस्तस्मिन्नन्त्रैश्च बहिरावृत: ।
आस्ते कृत्वा शिर: कुक्षौ भुग्नपृष्ठशिरोधर: ॥ ८ ॥
Text 9
अकल्प: स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे ।
तत्र लब्धस्मृतिर्दैवात्कर्म जन्मशतोद्भवम् ।
स्मरन्दीर्घमनुच्छ्वासं शर्म किं नाम विन्दते ॥ ९ ॥
Text 10
आरभ्य सप्तमान्मासाल्लब्धबोधोऽपि वेपित: ।
नैकत्रास्ते सूतिवातैर्विष्ठाभूरिव सोदर: ॥ १० ॥
Text 11
नाथमान ऋषिर्भीत: सप्तवध्रि: कृताञ्जलि: ।
स्तुवीत तं विक्लवया वाचा येनोदरेऽर्पित: ॥ ११ ॥
Text 12
जन्तुरुवाच
तस्योपसन्नमवितुं जगदिच्छयात्त-
नानातनोर्भुवि चलच्चरणारविन्दम् ।
सोऽहं व्रजामि शरणं ह्यकुतोभयं मे
येनेदृशी गतिरदर्श्यसतोऽनुरूपा ॥ १२ ॥
Text 13
यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा
भूतेन्द्रियाशयमयीमवलम्ब्य मायाम् ।
आस्ते विशुद्धमविकारमखण्डबोधम्
आतप्यमानहृदयेऽवसितं नमामि ॥ १३ ॥
Text 14
य: पञ्चभूतरचिते रहित: शरीरे
च्छन्नोऽयथेन्द्रियगुणार्थचिदात्मकोऽहम् ।
तेनाविकुण्ठमहिमानमृषिं तमेनं
वन्दे परं प्रकृतिपूरुषयो: पुमांसम् ॥ १४ ॥
Text 15
यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन्
सांसारिके पथि चरंस्तदभिश्रमेण ।
नष्टस्मृति: पुनरयं प्रवृणीत लोकं
युक्त्या कया महदनुग्रहमन्तरेण ॥ १५ ॥
Text 16
ज्ञानं यदेतददधात्कतम: स देवस्
त्रैकालिकं
स्थिरचरेष्वनुवर्तितांश: ।
तं
जीवकर्मपदवीमनुवर्तमानास्
तापत्रयोपशमनाय वयं भजेम ॥ १६ ॥
Text 17
देह्यन्यदेहविवरे जठराग्निनासृग्-
विण्मूत्रकूपपतितो भृशतप्तदेह: ।
इच्छन्नितो विवसितुं गणयन्स्वमासान्
निर्वास्यते कृपणधीर्भगवन्कदा नु ॥ १७ ॥
Text 18
येनेदृशीं गतिमसौ दशमास्य ईश
संग्राहित: पुरुदयेन भवादृशेन ।
स्वेनैव तुष्यतु कृतेन स दीननाथ:
को नाम तत्प्रति विनाञ्जलिमस्य कुर्यात् ॥ १८ ॥
Text 19
पश्यत्ययं धिषणया ननु सप्तवध्रि:
शारीरके दमशरीर्यपर: स्वदेहे ।
यत्सृष्टयासं तमहं पुरुषं पुराणं
पश्ये बहिर्हृदि च चैत्यमिव प्रतीतम् ॥ १९ ॥
Text 20
सोऽहं वसन्नपि विभो बहुदु:खवासं
गर्भान्न निर्जिगमिषे बहिरन्धकूपे ।
यत्रोपयातमुपसर्पति देवमाया
मिथ्या मतिर्यदनु संसृतिचक्रमेतत् ॥ २० ॥
Text 21
तस्मादहं विगतविक्लव उद्धरिष्य
आत्मानमाशु तमस: सुहृदात्मनैव ।
भूयो यथा व्यसनमेतदनेकरन्ध्रं
मा मे भविष्यदुपसादितविष्णुपाद: ॥ २१ ॥
Text 22
कपिल उवाच
एवं कृतमतिर्गर्भे दशमास्य: स्तुवन्नृषि: ।
सद्य: क्षिपत्यवाचीनं प्रसूत्यै सूतिमारुत: ॥ २२ ॥
Text 23
तेनावसृष्ट: सहसा कृत्वावाक्शिर आतुर: ।
विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हतस्मृति: ॥ २३ ॥
Text 24
पतितो भुव्यसृङ्मिश्र: विष्ठाभूरिव चेष्टते ।
रोरूयति गते ज्ञाने विपरीतां गतिं गत: ॥ २४ ॥
Text 25
परच्छन्दं न विदुषा पुष्यमाणो जनेन स: ।
अनभिप्रेतमापन्न: प्रत्याख्यातुमनीश्वर: ॥ २५ ॥
Text 26
शायितोऽशुचिपर्यङ्के जन्तु: स्वेदज-दूषिते ।
नेश: कण्डूयनेऽङ्गानामासनोत्थानचेष्टने ॥ २६ ॥
Text 27
तुदन्त्यामत्वचं दंशा मशका मत्कुणादय: ।
रुदन्तं विगतज्ञानं कृमय: कृमिकं यथा ॥ २७ ॥
Text 28
इत्येवं शैशवं भुक्त्वा दु:खं पौगण्डमेव च ।
अलब्धाभीप्सितोऽज्ञानादिद्धमन्यु: शुचार्पित: ॥ २८ ॥
Text 29
सह देहेन मानेन वर्धमानेन मन्युना ।
करोति विग्रहं कामी कामिष्वन्ताय चात्मन: ॥ २९ ॥
Text 30
भूतै: पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत् ।
अहंममेत्यसद्ग्राह: करोति कुमतिर्मतिम् ॥ ३० ॥
Text 31
तदर्थं कुरुते कर्म यद्बद्धो याति संसृतिम् ।
योऽनुयाति ददत्क्लेशमविद्याकर्मबन्धन: ॥ ३१ ॥
Text 32
यद्यसद्भि: पथि पुन: शिश्नोदरकृतोद्यमै: ।
आस्थितो रमते जन्तुस्तमो विशति पूर्ववत् ॥ ३२ ॥
Text 33
सत्यं शौचं दया मौनं बुद्धि: श्रीर्ह्रीर्यश: क्षमा ।
शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम् ॥ ३३ ॥
Text 34
तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु ।
सङ्गं न कुर्याच्छोच्येषु योषित्क्रीडामृगेषु च ॥ ३४ ॥
Text 35
न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गत: ।
योषित्सङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गत: ॥ ३५ ॥
Text 36
प्रजापति: स्वां दुहितरं दृष्ट्वा तद्रूपधर्षित: ।
रोहिद्भूतां सोऽन्वधावदृक्षरूपी हतत्रप: ॥ ३६ ॥
Text 37
तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधी: पुमान् ।
ऋषिं नारायणमृते योषिन्मय्येह मायया ॥ ३७ ॥
Text 38
बलं मे पश्य मायाया: स्त्रीमय्या जयिनो दिशाम् ।
या करोति पदाक्रान्तान्भ्रूविजृम्भेण केवलम् ॥ ३८ ॥
Text 39
सङ्गं न कुर्यात्प्रमदासु जातु
योगस्य पारं परमारुरुक्षु: ।
मत्सेवया प्रतिलब्धात्मलाभो
वदन्ति या निरयद्वारमस्य ॥ ३९ ॥
Text 40
योपयाति शनैर्माया योषिद्देवविनिर्मिता ।
तामीक्षेतात्मनो मृत्युं तृणै: कूपमिवावृतम् ॥ ४० ॥
Text 41
यां मन्यते पतिं मोहान्मन्मायामृषभायतीम् ।
स्त्रीत्वं स्त्रीसङ्गत: प्राप्तो वित्तापत्यगृहप्रदम् ॥ ४१ ॥
Text 42
तामात्मनो विजानीयात्पत्यपत्यगृहात्मकम् ।
दैवोपसादितं मृत्युं मृगयोर्गायनं यथा ॥ ४२ ॥
Text 43
देहेन जीवभूतेन लोकाल्लोकमनुव्रजन् ।
भुञ्जान एव कर्माणि करोत्यविरतं पुमान् ॥ ४३ ॥
Text 44
जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमय: ।
तन्निरोधोऽस्य मरणमाविर्भावस्तु सम्भव: ॥ ४४ ॥
Texts 45-46
द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा ।
तत्पञ्चत्वमहंमानादुत्पत्तिर्द्रव्यदर्शनम् ॥ ४५ ॥
यथाक्ष्णोर्द्रव्यावयवदर्शनायोग्यता यदा ।
तदैव चक्षुषो द्रष्टुर्द्रष्टृत्वायोग्यतानयो: ॥ ४६ ॥
Text 47
तस्मान्न कार्य: सन्त्रासो न कार्पण्यं न सम्भ्रम: ।
बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह ॥ ४७ ॥
Text 48
सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया ।
मायाविरचिते लोके चरेन्न्यस्य कलेवरम् ॥ ४८ ॥






