Description by Lord Kapila of Adverse Fruitive Activities
Text 1
कपिल उवाच
तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम् ।
काल्यमानोऽपि बलिनो वायोरिव घनावलि: ॥ १ ॥
Text 2
यं यमर्थमुपादत्ते दु:खेन सुखहेतवे ।
तं तं धुनोति भगवान्पुमाञ्छोचति यत्कृते ॥ २ ॥
Text 3
यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मति: ।
ध्रुवाणि मन्यते मोहाद् गृहक्षेत्रवसूनि च ॥ ३ ॥
Text 4
जन्तुर्वै भव एतस्मिन्यां यां योनिमनुव्रजेत् ।
तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ॥ ४ ॥
Text 5
नरकस्थोऽपि देहं वै न पुमांस्त्यक्तुमिच्छति ।
नारक्यां निर्वृतौ सत्यां देवमायाविमोहित: ॥ ५ ॥
Text 6
आत्मजायासुतागारपशुद्रविणबन्धुषु ।
निरूढमूलहृदय आत्मानं बहु मन्यते ॥ ६ ॥
Text 7
सन्दह्यमानसर्वाङ्ग एषामुद्वहनाधिना ।
करोत्यविरतं मूढो दुरितानि दुराशय: ॥ ७ ॥
Text 8
आक्षिप्तात्मेन्द्रिय: स्त्रीणामसतीनां च मायया । रहो रचितयालापै: शिशूनां कलभाषिणाम् ॥ ८ ॥
Text 9
गृहेषु कूटधर्मेषु दु:खतन्त्रेष्वतन्द्रित: ।
कुर्वन्दु:खप्रतीकारं सुखवन्मन्यते गृही ॥ ९ ॥
Text 10
अर्थैरापादितैर्गुर्व्या हिंसयेतस्ततश्च तान् ।
पुष्णाति येषां पोषेण शेषभुग्यात्यध: स्वयम् ॥ १० ॥
Text 11
वार्तायां लुप्यमानायामारब्धायां पुन: पुन: ।
लोभाभिभूतो नि:सत्त्व: परार्थे कुरुते स्पृहाम् ॥ ११ ॥
Text 12
कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यम: ।
श्रिया विहीन: कृपणो ध्यायञ्छ्वसिति मूढधी: ॥ १२ ॥
Text 13
एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा ।
नाद्रियन्ते यथापूर्वं कीनाशा इव गोजरम् ॥ १३ ॥
Text 14
तत्राप्यजातनिर्वेदो भ्रियमाण: स्वयम्भृतै: ।
जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे ॥ १४ ॥
Text 15
आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन् ।
आमयाव्यप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टित: ॥ १५ ॥
Text 16
वायुनोत्क्रमतोत्तार: कफसंरुद्धनाडिक: ।
कासश्वासकृतायास: कण्ठे घुरघुरायते ॥ १६ ॥
Text 17
शयान: परिशोचद्भि: परिवीत: स्वबन्धुभि: ।
वाच्यमानोऽपि न ब्रूते कालपाशवशं गत: ॥ १७ ॥
Text 18
एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रिय: ।
म्रियते रुदतां स्वानामुरुवेदनयास्तधी: ॥ १८ ॥
Text 19
यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ ।
स दृष्ट्वा त्रस्तहृदय: शकृन्मूत्रं विमुञ्चति ॥ १९ ॥
Text 20
यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात् ।
नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा ॥ २० ॥
Text 21
तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथु: ।
पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन् ॥ २१ ॥
Text 22
क्षुत्तृट्परीतोऽर्कदवानलानिलै:
सन्तप्यमान: पथि तप्तवालुके ।
कृच्छ्रेण पृष्ठे कशया च ताडितश्
चलत्यशक्तोऽपि निराश्रमोदके ॥ २२ ॥
Text 23
तत्र तत्र पतञ्छ्रान्तो मूर्च्छित: पुनरुत्थित: ।
पथा पापीयसा नीतस्तरसा यमसादनम् ॥ २३ ॥
Text 24
योजनानां सहस्राणि नवतिं नव चाध्वन: ।
त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीत: प्राप्नोति यातना: ॥ २४ ॥
Text 25
आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभि: ।
आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा ॥ २५ ॥
Text 26
जीवतश्चान्त्राभ्युद्धार: श्वगृध्रैर्यमसादने ।
सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम् ॥ २६ ॥
Text 27
Text 28
यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातना: ।
भुङ्क्ते नरो वा नारी वा मिथ: सङ्गेन निर्मिता: ॥ २८ ॥
Text 29
अत्रैव नरक: स्वर्ग इति मात: प्रचक्षते ।
या यातना वै नारक्यस्ता इहाप्युपलक्षिता: ॥ २९ ॥
Text 30
एवं कुटुम्बं बिभ्राण उदरम्भर एव वा ।
विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम् ॥ ३० ॥
Text 31
एक: प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम् ।
कुशलेतरपाथेयो भूतद्रोहेण यद्भृतम् ॥ ३१ ॥
Text 32
दैवेनासादितं तस्य शमलं निरये पुमान् ।
भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुर: ॥ ३२ ॥
Text 33
केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुक: ।
याति जीवोऽन्धतामिस्रं चरमं तमस: पदम् ॥ ३३ ॥
Text 34
अधस्तान्नरलोकस्य यावतीर्यातनादय: ।
क्रमश: समनुक्रम्य पुनरत्राव्रजेच्छुचि: ॥ ३४ ॥






